Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 546
________________ ८ प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायामुणादयः बाहुलकान षत्वम् ॥ ४३९ ।। कृधूतन्युषिभ्यः कित् (४४०) सरः । कसरः कुसरा वा विलेपिकाविशेषः वर्णविशेषश्च । धूत् धूसरः मिन्नवर्णः वायुः धान्यविशेषश्च । तनूयी, तसरः कौशेयसूत्रम् । ऋषैत् । ऋक्षरः कण्टकः ऋत्विक् च । ऋक्षरा तोयधारा ॥ ४४० ॥ कृगृदृक्षगचतिखटिकटिनिषदिभ्यो वरट् (४४१) एभ्यः टिद्वरः । कृत्, कर्बरः व्याघ्रः विकिरः अञ्जलिश्च । कर्बरी भूमिः शिवा च । गत् गर्वरः अहंकारः महिषश्च । गर्वरी महिषी सन्ध्या च ।५ शश् शर्बरः सायाह्नः रुद्रः हिंस्रश्च । शर्वरं तमः अन्नं च। शर्वरी रात्रिः । दृश् दर्वरं वज्रम् । दर्वरी सेवा । वृग्ट, वर्वरः कामः चन्दनं लुब्धकश्च । वर्वरी नदी भार्या च । चतेग्, चत्वरं चतुष्पथं अरण्यं च । चत्वरी रथ्या देवता वेदिका च । 'खट काङ्के खट्वरं रससंकीर्णशाकपाकः । कटे, कट्वरः व्यालाश्वः । कट्वरी दधिविकारः । षद्लं निपूर्वः निषद्वरः कर्दमः वह्निः कर्मकरः कन्दर्पः इन्द्रश्च । निषद्वरमासनम् । निषद्वरी प्रपा रात्रिः प्रमदा इन्द्राणी च ॥ ४४१॥ अनो-१० तेरीचादेः (४४२) अशौटि अस्माद्वरः ईश्चादेः ईश्वरः विभुः। ईश्वरी स्त्री ॥४४२॥ नीमीकुतुचेर्दीर्घश्च (४४३) एभ्यो वरद दीर्घश्चैषाम् । णींग नीवरः पुरुषकारः । मींग्श् मीवरः हिंस्रः समुद्रश्च । कुङ्, कूवरः रथावयवः । तुंक्, तूवरः मन्दश्मश्रुश्च अजननीकश्च । चिंग्ट् चीवरं मुनिजनवासः निःसारकन्था च ॥४४३॥ तीवरधीवरपीवरछित्वरछत्वरगह्वरोपहरसंयदरोदुम्बरादयः (४४४) एते वरट्प्रत्ययान्ता निपात्यन्ते । तिम्यतेस्ती च तीवतेर्वा । तीवरं १५ जलं व्यञ्जनं च । ध्यायते/ च । धीवरः कैवर्तः । प्यायः प्यैडो वा पी च पीवतेर्वा किदरः पीवरः मांसलः । छिनत्तेस्तः किच्च । छित्त्वरः शठः जर्जरः पिटकश्च । छादेर्णिलुकि ह्रस्वश्च । छत्वरः भर्त्सकः निकुञ्जकश्च । छत्वरं कुड्यहीनं गृहं शयनप्रच्छदः छदिश्च । गुहेरचोतः । गह्वरं महाबिलं भयानकं प्रत्यन्तदेशश्च । उपपूर्वात् ह्वो वादेर्लुक् च । उपह्वरं सन्धिः समीपं रहःस्थानं च । सम् पूर्वाद्यमेर्दश्च । संयद्वरो रणः संयमी नृपश्च । उन्देः किदुम् चान्तः ।२० उदुम्बरः वृक्षविशेषः । आदिग्रहणादुम्बरशबरादयः ॥ ४४४ ॥ कडेरेवराङ्गरौ (४४५) कडत् अस्मात् एवरः अङ्गर इति प्रत्ययौ स्याताम् । कडेवरम् मृतशरीरम् । लत्वे कलेवरम् । कडङ्गरः वनस्पतिः ॥ ४४५॥ त्रट (४४६) सर्वधातुभ्यः स्यात् । छादयतीति छत्रम् छत्री च धर्मवारणम् । पातीति पात्रं अर्जितगुणाधारः साध्वादिः । पात्री भाजनम् । सायते, स्नानं स्नानम् । राजत इति राष्ट्र देशः । शिष्यतेऽनेन शास्त्रम् । असूच , अखं धनुः ॥ ४४६ ॥ जिभृमृभ्रस्जिगमिनमिन-२५ श्यशिहनिवृषेवृद्धिश्च (४४७) एभ्यबद, वृद्धिश्चैषां स्यात् । जि जैत्रः जयनशीलः । जैत्रं द्यूतम् । टुडु,ग्क् भान पौषो यश्च भृतिं गृहीत्वा वहति । सं सात्रं आलयः । भ्रस्जीत् भ्राष्ट्रं अम्बरीषम् । गम्लं गानं मनः शरीरं लोकश्च । णमं नात्रं शिरः शाखा वैचित्र्यं च । नशौच "नशो धुटि" (४।४।१०९) इति नोऽन्तः । नांष्ट्रा यातना । अश्नोतरनातेर्वा । आष्ट्र आकाशं रश्मिश्च । हनंक् हावं रक्षः युद्धं वधश्च । विष्लंकी, वैष्ट्रः विष्णुः वायुश्च । वैष्ट्रं त्रिदिवं वेश्म च ॥ ४४७॥ दिवे-३० चौं च (४४८) अस्मात् ब्रट् । अयं चास्यादेशः स्यात् । चौत्रं त्रिदिवं ज्योतिः विमानं प्रमाणं प्रतोदश्च ॥ ४४८॥सूमूखन्यूषिभ्यः कित् (४४९) त्रट् । पूत् सूत्रं तन्तुः शास्त्रं च । मूङ् मूत्रं प्रस्रावः । खनूग, खात्रं कूलः तडाकं ग्रामः धान्यमृत् चौरकृतं च छिद्रम् । उषू उष्ट्रः क्रमेलकः ॥४४९॥ स्त्री (४५०) स्यतेः सूतेः स्यायतेः स्तृणातेर्वा ब्रट् (डिच्च) स्त्री योषित् ॥४५०॥ हुयामाश्रुवसिभसिगुवीपचिवचिधियम्यमिमनितनिसदिछादिक्षिक्षदिलुपिपतिधू- ३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636