Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 548
________________ प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कृदन्तप्रक्रियायामुणादयः ९२१ 1 स्वभावः व्रतं समाधिश्च । मूङ मूलं वृक्षपादावयवः आदिहेतुश्च ॥ ४६३ ॥ भिल्लाच्छ भल्लसौविदल्लादयः (४६४) किल्लप्रत्ययान्ता निपात्यन्ते । भिदेर्लः, भिल्लः अन्त्यजातिः । अच्छपूर्वाद्भः अच्छभल्लः ऋक्षः । सुपूर्वाद्विदेरलोऽन्तः सोश्च वृद्धिः सौविदल्लः कचुकी । आदिग्रहणादल्लपल्लीरल्लादयः ॥ ४६४ ॥ मृदिकन्दिकुण्डिमण्डिमङ्गिपरिपाटिशकि केवृदेवृकमियमिशलिक लिपलिगुध्वञ्चिचञ्चिच पिव हिदिहिकुहितृसृपिशितुसि कुस्यनिद्रमेरल: (४६५ ) मृदश् ५ मर्दलः मुरजः । कदु कन्दलं प्ररोहः । कुडुङ् कुण्डलं कर्णाभरणम् । मडु मण्डलं देशः परिवारश्च । मगु मङ्गलं शुभम् । पट पटलं छदिः समूहः आवपनं नेत्ररोगश्च । ण्यन्तात् पाटलः वर्णः । शक्लृट्, शकलं भित्तमसारं च । ‘केवृग् सेचने' केवलं परिपूर्णमसहायं च । देवृङ् देवलः ऋषिः देवत्रातः क्रीडनश्च । कमूङ कमलं पद्मम् । णिङि कामलो नेत्ररोगः । यमूं यमलं युग्मम् । शल शललं सेधाङ्गरुहशङ्कुः । कलि कललं गर्भप्रथमावस्था । पल पललं भृष्टतिलात सीचूर्णम् । गुङ् गवल : १० महिषः । धूग्श् धवलः श्वेतः । अञ्च, अञ्चलः वस्त्रान्तः । चनू चञ्चलः अस्थिरः । चप चपलः स एव । वहीं, वहलः सान्द्रम् । दिहींकू, देहली द्वाराधः पट्टः । कुहणि कोहल : भरतसूनुः । बाहुलकाद्गुणः । तॄ तरल: अधीरः हारमध्यमणिश्च । स्रं सरलः ऋजुः वृक्षविशेषश्च । पिशत् पेशल: मनोज्ञः । तुस तोसला जनपदः । कुसच् कोसला जनपदः । अनक् अनलः अग्निः । द्रम द्रमिलं जलम् || ४६५ || नहिलङ्गेर्दीर्घश्व (४६६) आभ्यामल: दीर्घश्चानयोः स्यात् । नहीं नाहल : १५ म्लेच्छः । लगु लाङ्गलं हलम् ॥ ४६६ ॥ ऋजनेगन्तश्च (४६७) आभ्यामलः गोऽन्तश्च स्यात् । अर्गला परिघः । जनैचि जङ्गलं निर्जलो देशः || ४६७ ॥ तृपिवपिकुपिकुशिकुटिवृषिमुसिभ्यः कित् (४६८) अलः । तृपौच तृपला लता । तृपलं शुष्कपर्णं शुष्कतृणं च । टुवर्षी उपलः पाषाणः । कुपच् कुपलः प्रवालः पल्लवः । कुशच् कुशल: मेधावी । कुशलं आरोग्यम् । कुटत् कुटलः ऋषिः । वृषू वृषलः दासजाति: । मुसच् मुसलम् अवहननम् ॥ ४६८ ॥ कोर्वा ( ४६९) २० कुङ् अस्मादलः स च किद्वा । कुवलं बदरम् । कुवली क्षुद्रबदरी । कवलः ग्रासः ॥ ४६९ ॥ शमेर्व च वा (४७०) शमूच्, अस्मादलः मस्य च वो स्यात् । शवलः कल्माषः । शमलं पुरीषं दुरितम् ॥ ४७० || छोर्डग्गादिर्वा (४७१) छोंच्, अस्मादलः स च डगादिर्गादिश्च वा । छगलः छागः । छागलः ऋषिः । छलं वचनविघातोऽर्थविकल्पोपपत्त्या ॥ ४७१ ॥ मृजिखन्याहनिभ्यो डित् ( ४७२ ) अल: । मृजौकू मलं बाह्यरजः अन्तर्दोषश्च । खनूग् खलः दुर्जन: २५ निष्पीडितरसं पिण्याकादि । खलं सस्यग्रहणभूमिः । हनंकू आङ्पूर्वी आहल: विषाणं नखरश्च ॥ ४७२ ॥ स्थो वा (४७३) अस्मादलः डिद्वा । स्थलं प्रदेशविशेषः । स्थालं भाजनम् ॥ ४७३ ॥ मुरलोरल विरल केरलकपिञ्जलकज्जलेज्जलको मलभृमलसिंहलका हलशूकलपाकलयुगलभगलविदलकुन्तलोत्पलादयः (४७४) अलान्ता निपात्याः । मुर्युव्यर्वलोपश्च चि मुला जनपदः । उरलः उत्कटः । विपूर्वाद्रमेर्डिच । विरल: असंहतः । किरः केर् च । केरला जनपदः । ३० कम्पेरिञ्जोऽन्तो नलोपश्च । कपिञ्जलः गौरतित्तिरः । कषीषोर्जोऽन्तो जश्च । कज्जलं मषी । इज्जलः वृक्षः । क्रमेरत ओच्च कोमलं मृदुः । भ्रमेम् च भ्रमलः वायुः कृमिजातिश्च । भ्रमलं चक्रं । हिंसेराद्यन्तविपर्ययः सिंहला जनपदः । कणेर्हो दीर्घश्च काहलः अव्यक्तवाक् । काहला वाद्यविशेषः । शकेरूच्चास्य शूकलः अश्वाधमः । पचेः पाक् च पाकलः हस्तिज्वरः । युजेः कित् च युगलं युग्मम् । भातेर्गोतो ह्रस्वश्च भगलः मुनिः । विन्देर्नलोपश्च विदलं वेणुदलम् । कनेरत उत् तोन्तश्च । कुन्तला ३५ प्रका० उत्त० ११६ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636