________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कृदन्तप्रक्रियायामुणादयः
९२१
1
स्वभावः व्रतं समाधिश्च । मूङ मूलं वृक्षपादावयवः आदिहेतुश्च ॥ ४६३ ॥ भिल्लाच्छ भल्लसौविदल्लादयः (४६४) किल्लप्रत्ययान्ता निपात्यन्ते । भिदेर्लः, भिल्लः अन्त्यजातिः । अच्छपूर्वाद्भः अच्छभल्लः ऋक्षः । सुपूर्वाद्विदेरलोऽन्तः सोश्च वृद्धिः सौविदल्लः कचुकी । आदिग्रहणादल्लपल्लीरल्लादयः ॥ ४६४ ॥ मृदिकन्दिकुण्डिमण्डिमङ्गिपरिपाटिशकि केवृदेवृकमियमिशलिक लिपलिगुध्वञ्चिचञ्चिच पिव हिदिहिकुहितृसृपिशितुसि कुस्यनिद्रमेरल: (४६५ ) मृदश् ५ मर्दलः मुरजः । कदु कन्दलं प्ररोहः । कुडुङ् कुण्डलं कर्णाभरणम् । मडु मण्डलं देशः परिवारश्च । मगु मङ्गलं शुभम् । पट पटलं छदिः समूहः आवपनं नेत्ररोगश्च । ण्यन्तात् पाटलः वर्णः । शक्लृट्, शकलं भित्तमसारं च । ‘केवृग् सेचने' केवलं परिपूर्णमसहायं च । देवृङ् देवलः ऋषिः देवत्रातः क्रीडनश्च । कमूङ कमलं पद्मम् । णिङि कामलो नेत्ररोगः । यमूं यमलं युग्मम् । शल शललं सेधाङ्गरुहशङ्कुः । कलि कललं गर्भप्रथमावस्था । पल पललं भृष्टतिलात सीचूर्णम् । गुङ् गवल : १० महिषः । धूग्श् धवलः श्वेतः । अञ्च, अञ्चलः वस्त्रान्तः । चनू चञ्चलः अस्थिरः । चप चपलः स एव । वहीं, वहलः सान्द्रम् । दिहींकू, देहली द्वाराधः पट्टः । कुहणि कोहल : भरतसूनुः । बाहुलकाद्गुणः । तॄ तरल: अधीरः हारमध्यमणिश्च । स्रं सरलः ऋजुः वृक्षविशेषश्च । पिशत् पेशल: मनोज्ञः । तुस तोसला जनपदः । कुसच् कोसला जनपदः । अनक् अनलः अग्निः । द्रम द्रमिलं जलम् || ४६५ || नहिलङ्गेर्दीर्घश्व (४६६) आभ्यामल: दीर्घश्चानयोः स्यात् । नहीं नाहल : १५ म्लेच्छः । लगु लाङ्गलं हलम् ॥ ४६६ ॥ ऋजनेगन्तश्च (४६७) आभ्यामलः गोऽन्तश्च स्यात् । अर्गला परिघः । जनैचि जङ्गलं निर्जलो देशः || ४६७ ॥ तृपिवपिकुपिकुशिकुटिवृषिमुसिभ्यः कित् (४६८) अलः । तृपौच तृपला लता । तृपलं शुष्कपर्णं शुष्कतृणं च । टुवर्षी उपलः पाषाणः । कुपच् कुपलः प्रवालः पल्लवः । कुशच् कुशल: मेधावी । कुशलं आरोग्यम् । कुटत् कुटलः ऋषिः । वृषू वृषलः दासजाति: । मुसच् मुसलम् अवहननम् ॥ ४६८ ॥ कोर्वा ( ४६९) २० कुङ् अस्मादलः स च किद्वा । कुवलं बदरम् । कुवली क्षुद्रबदरी । कवलः ग्रासः ॥ ४६९ ॥ शमेर्व च वा (४७०) शमूच्, अस्मादलः मस्य च वो स्यात् । शवलः कल्माषः । शमलं पुरीषं दुरितम् ॥ ४७० || छोर्डग्गादिर्वा (४७१) छोंच्, अस्मादलः स च डगादिर्गादिश्च वा । छगलः छागः । छागलः ऋषिः । छलं वचनविघातोऽर्थविकल्पोपपत्त्या ॥ ४७१ ॥ मृजिखन्याहनिभ्यो डित् ( ४७२ ) अल: । मृजौकू मलं बाह्यरजः अन्तर्दोषश्च । खनूग् खलः दुर्जन: २५ निष्पीडितरसं पिण्याकादि । खलं सस्यग्रहणभूमिः । हनंकू आङ्पूर्वी आहल: विषाणं नखरश्च ॥ ४७२ ॥ स्थो वा (४७३) अस्मादलः डिद्वा । स्थलं प्रदेशविशेषः । स्थालं भाजनम् ॥ ४७३ ॥ मुरलोरल विरल केरलकपिञ्जलकज्जलेज्जलको मलभृमलसिंहलका हलशूकलपाकलयुगलभगलविदलकुन्तलोत्पलादयः (४७४) अलान्ता निपात्याः । मुर्युव्यर्वलोपश्च चि मुला जनपदः । उरलः उत्कटः । विपूर्वाद्रमेर्डिच । विरल: असंहतः । किरः केर् च । केरला जनपदः । ३० कम्पेरिञ्जोऽन्तो नलोपश्च । कपिञ्जलः गौरतित्तिरः । कषीषोर्जोऽन्तो जश्च । कज्जलं मषी । इज्जलः वृक्षः । क्रमेरत ओच्च कोमलं मृदुः । भ्रमेम् च भ्रमलः वायुः कृमिजातिश्च । भ्रमलं चक्रं । हिंसेराद्यन्तविपर्ययः सिंहला जनपदः । कणेर्हो दीर्घश्च काहलः अव्यक्तवाक् । काहला वाद्यविशेषः । शकेरूच्चास्य शूकलः अश्वाधमः । पचेः पाक् च पाकलः हस्तिज्वरः । युजेः कित् च युगलं युग्मम् । भातेर्गोतो ह्रस्वश्च भगलः मुनिः । विन्देर्नलोपश्च विदलं वेणुदलम् । कनेरत उत् तोन्तश्च । कुन्तला ३५
प्रका० उत्त० ११६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org