________________
९२२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुजनपदः केशाश्च । उत्पूर्वात् पिबतेह्रस्वश्च । उत्पलं पनम् । आदिग्रहणात् सुवर्चलामुद्गलपुद्गलादयः ॥ ४७४ ॥ ऋकृमृवृतनितमिचषिचपिकपिकीलिपलिबलिपश्चिमङ्गिगण्डिमण्डिचण्डितण्डिपिण्डिनन्दिनदिशकिभ्य आलः (४७५) ऋक् अरालं वक्रम् । डुकंग् करालं उच्चम् । भृत् मरालः हंसः मदश्च । वृन्ट् वरालः । तनूयी तनालं जलाशयः । तमूच् तमालः ५वृक्षः व्यालश्च । 'चषी भक्षणे', चषालं यूपशिरसि द्रव्यम् । चप चपालं यज्ञद्रव्यम् । कपिः सौत्रः। कपालं घटाद्यवयवः शिरोऽस्थि च । 'कील बन्धे' कीलालं मद्यं जलं असृक् च । पल पलालं अकणो ब्रीह्यादिः । बल बलालः वायुः । पचुङ् पञ्चालः ऋषिः राजा च । पञ्चाला जनपदः । मगु मङ्गालः देशः । गडु गण्डालः मत्तहस्ती । मडु मण्डालः ऋषिः । 'चडुनः कोपे' चण्डालः श्वपचः। "अकृतज्ञमकार्यज्ञं दीर्घरोषमनार्जवम् । चतुरो विद्धि चण्डालाञ्जन्मना चेति पञ्चमम्" १०॥ १॥ तडुङ् तण्डालः क्षुपः । पिडुङ् पिण्डालः कन्दजातिः । टुनदु नन्दालः राजा । णद नदालः नादवान् । शक्लृट् शकाला जनपदः मूर्खधनी च ॥ ४७५॥ कुलिपिलिविशिविडिमृणि. कुणिपीप्रीभ्यः कित् (४७६) आलः । कुल कुलालः कुम्भकारः। 'पिलण क्षेपे' पिलालं श्लिष्टम् । विशंत् विशालं विस्तीर्णम् । विड बिडालः मार्जारः । लत्वे बिलालः स एव । मृणत् मृणालं बिसम् ।
कुणत् कुणालः कृतमालः कटविशेषश्च । कुणालं नगरं कठिनं च । पीङ् च पियालः वृक्षः । पियालं १५शाकं वीरुच्च । 'प्रीच् प्रीतौ । प्रियालः ॥ ४७६ ॥ भजेः कगौ च (४७७) भजी अस्मात् किदालः कगौ चान्तादेशौ । भकालं भगालं उभयं कपालम् ॥ ४७७॥ सर्तेर्गोन्तश्च (४७८) सुं अस्मात् किदालः गोन्तश्च स्यात् । मृगालः क्रोष्टा ॥ ४७८॥ पतिकृलूभ्यो णित् (४७९) आलः । पत्ल पातालं रसातलम् । डुकंग् कारालं लेपद्रव्यम् । लूग्श् लावालः उद्दन्तः ॥ ४७१ ॥ चात्वालकङ्कालहिन्तालवेतालजम्बालशब्दालममाप्तालादयः (४८०) आलान्ता २० निपात्यन्ते । चतेर्वोन्तो दीर्घश्च चात्वालः यज्ञगतः । कचेः स्वरान्नोऽन्तः कश्च कङ्कालः कलेवरम् । हिंसेस्तश्च हिन्तालः वृक्षविशेषः । वियस्तोऽन्तो गुणश्च वेतालः निशाचरविशेषः । जने|न्तश्च जम्बालः कदमः शैवलं च । शमेषेर्वा शब्दभावश्च । शब्दालः शब्दनशीलः । मवेलोपो माप्तश्चान्तः । ममाप्तालः मतिः स्नेहः पुत्रादिषु मेहनिबन्धनं च । आदिशब्दाञ्चक्रवाल.
करवालालवालादयः ॥ ४८० ॥ कल्यनिमहिद्रमिजटिभटिकुटिचण्डिशण्डितुण्डि२५पिण्डिभूकुकिभ्य इल: (४८१) कलि कलिलं गहनं पापं आत्माधिष्टितं च शुक्रार्तवम् । अनक्
अनिल: वायुः । मह महिला स्त्री । द्रम द्रमिला त्रैराज्यवासिनः । 'जट झट संघाते' जटिलः जटावान् । भट भटिलः श्वा सेवकश्च । कुटत् कुटिलं वक्रम् । चडण् चण्डिलः श्वा क्रोधनः नापितश्च । शडुङ् शण्डिलः ऋषिः । तुडुङ् तुण्डिलः वाग्जाली । पिडुङ् पिण्डिलः मेघः हिंस्रः हिमः
गणकश्च । भू भविलः मुनिः समर्थः गृहं बहुनेता च । कुकि कोकिलः परभृतः ॥ ४८१॥ ३० भण्डेन लुक् च वा (४८२) भडुङ्, अस्मादिलः नस्य च लुग्वा स्यात् । भडिलः ऋषिः पिशाचः शत्रुश्च । भण्डिलः श्वा दूतः ऋषिश्च ॥ ४८२॥ गुपिमिथिधूभ्य: कित् (४८३) इलः । गुपौ, गुपिलं गहनम् । मिश्रृग् मिथिला नगरी । ध्रु, ध्रुविलः ऋषिः ॥ ४८३ ॥ स्थण्डिलकपिलविचकिलादयः (४८४) इलान्ता निपात्यन्ते । स्थलेः स्थण्ड् च, स्थण्डिलं वृत्तिशयनवेदिका । कवेः प् च । कपिलः वर्णः ऋषिश्च । विचेरकोन्तश्च । विचकिलः मल्लिकाविशेषः । ३५आदिग्रहणात् गोभिलनिकुम्भिलादयः ॥ ४८४ ॥ हृषिवृतिचटिपटिशकिशङ्कितण्डिम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org