________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः
९२३ ङ्गयुत्कण्ठिभ्य उलः (४८५) 'हृषच् हृष्टौ', 'हृषू अलीके', हर्षुलः हर्षवान् कामी मृगश्च । धृतूङ , वर्तुलः । चटण, चटुल: चञ्चलः । पट पटुलः वाग्मी । शक्लंट , शकुलः मत्स्यः । शकुङ्, शङ्खला क्रीडनशङ्कः बन्धनभाण्डमायुधं च । तडुङ्, तण्डुलः निस्तुषो व्रीह्यादिः । मगु, मङ्गुलं न्यायापेतम् । कठुङ् उत्पूर्वः उत्कण्ठुलः उत्कण्ठावान् ॥ ४८५ ॥ स्थावङ्किबंहिविन्दिभ्यः किन्नलुक् च (४८६) एभ्यः किदुलः नलुक् च स्यात् । ष्टां, स्थुलं पटकुटीविशेषः । वकुङ् ५ वकुलः केसरः ऋषिश्च । बहुङ् बहुलं बहु । बहुलः प्रासकः कृष्णपक्षश्च । बहुलाः कृत्तिकाः । बहुला गौः । विदु विदुलः वेतसः॥ ४८६॥ कुमुलतुमुलनिचुलवञ्चलमचुलपृथुलविशंस्थुलाङ्गुलमुकुलशष्कुलादयः (४८७) उलान्ता निपात्यन्ते । कमितम्योरत उच्च । कुमुलं कुसुमं हिरण्यम् । कुमुलः शिशुः कान्तश्च । तुमुलं व्यामिश्रयुद्धम् संकुलं च । निजेः किञ्चश्च । निचुलः वजुलः । वजेः स्वरान्नोऽन्तश्च वञ्जुलः निचुलः । मञ्जिः सौत्रः मञ्जुलः मनोज्ञः । प्रथेः पृथ् च १० पृथुलः विस्तीर्णः । विपूर्वात् शंसेः स्थोऽन्तश्च विशंस्थुलः व्यग्रः । अञ्जेर्गश्च । अङ्गुलमष्टयवप्रमाणम् । मुचेः किल्कश्च । मुकुलं अविकसितपुष्पम् । शके: स्वरात् षोन्तश्च । शष्कुली भक्ष्यविशेषः कर्णावयवश्च । आदिग्रहणाल्लकुलवल्गुलादयः॥४८७॥ पिजिमञ्जिकण्डिगण्डिबलिवधिवश्चिभ्यः ऊल: (४८८) पिजण, पिलः हस्तिबन्धनपाशः राशिः कुलपतिश्च । मलिः सौत्रः । मञ्जला मित(मृदु ?) भाषिणी । कडुङ् कण्डूलः अशिष्टो जनः । गड, गण्डूलः कृमिजातिः । बल, बलूलः १५ ऋषिः मेघः मासश्च । वधि वधूलः हस्तिघातकः रसायनं तत्रकारश्च । वञ्चिण वञ्चूलः हस्ती मत्स्यमारपक्षी च ॥ ४८८ ॥ तमेोन्तो दीर्घस्तु वा (४८९) ताम्बूलं तम्बूलं उभयं पूगपत्रचूर्णयोगः ॥४८९ ॥ कुलपुलकुसिभ्यः कित् (४९०) कुल कुलूलः कृमिजातिः । पुल, पुलूलः वृक्षः । कुसच , कुसूलः कोष्ठः ॥ ४९०॥ दुकूलकुकूलबब्बूललाङ्गलशार्दूलादयः (४९१) ऊलान्ता निपात्यन्ते । दुक्कोः कोन्तश्च दुकूलं क्षौमं वासः । कुकूलं कारीषोऽग्निः । वधेर्बोन्तो बश्च । बब्बूलः २० वृक्षः । लंगेर्दीर्घश्च लाशूलं वालधिः । शृणातेयॊन्तो वृद्धिश्च शार्दूलः व्याघ्रः । आदिग्रहणात् मालकञ्चूलादयः ॥ ४९१ ॥ महेरेलः (४९२) महेला स्त्री ॥ ४९२ ॥ कटिपटिकण्डिगण्डिशकिकपिचहिभ्य ओलः (४९३) कटे, कटोलः कटविशेषः वादिनविशेषश्च । कटोला ओषधिः । पट पटोला वल्लिविशेषः । कडु कण्डोलः विदलभाजनविशेषः । गडु गण्डोलः कृमिविशेषः । शक्लंट, शकोलः शक्तः । कपिः सौत्रः, कपोलः २५ गण्डः । 'चह कल्कने' । चहोलः उपद्रवः ॥ ४९३ ॥ ग्रह्याद्भयः कित् (४९४) ग्रहेरादन्तेभ्यश्च कित् ओलः स्यात् । गृहोलः बालिशः । कायतेः कोलः बदरी वराहश्च । गायतेः गोलः वृत्ताकृतिः । गोला गोदावरी बालरमणकाष्ठं च । पातेः पोला तालाख्यं कपाटबन्धनं परिखा च । लातेः लोल: चपलः । ददातेर्दयतेद्यतेर्वा दोला प्रेङ्क्षणम् ॥ ४९४॥ पिञ्छोलकल्लोलककोलमकोलादयः (४९५) ओलान्ता निपात्यन्ते । पीडेः पिछ च पिञ्छोलः वादित्रवंशः। कलेर्लोन्तश्च कल्लोलः ।३० कचिमच्योर्कादिः ककोली लताविशेषः । मक्कोलः सुधाविशेषः । आदिग्रहणादन्येऽपि ॥ ४९५ ॥ वलिपुषेः कलक् (४९६) कित् कलः । वल्कलं तरुत्वक् । पुष्कलं समग्रं युद्धं शोभनं हिरण्यं च ॥ ४९६ ॥ मिगः खलश्च (४९७) डुमिंग्ट् अस्मात् खलकलौ प्रत्ययौ एकारश्वान्तादेशः स्यात् । मेखला गिरिनितम्बः रशना च । मेकलः नर्मदाप्रभवोऽद्रिः। मिग एत्ववचनमात्वबाधनार्थम् ॥ ४९७॥श्रो नोन्तो हखश्च (४९८) शुश अस्मात खलो नोन्तो हस्खश्चास्य ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org