________________
९२० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुभ्यस्त्रः (४५१) हुंक् होत्रं हवनम् । होत्रा ऋक् । याक् , यात्रा प्रस्थानं यापनं उत्सवश्च । माक्, मात्रा प्रमाणं कालविशेषः स्तोकः गणनं च । श्रृंट् श्रोत्रं कर्णः । वसिक् वस्त्रं वासः । भसिं जुहोत्यादौ स्मरन्ति । भस्ना चर्ममयमावपनं उदरं च । गुङ् गोत्रः पर्वतः । गोत्रा पृथ्वी । गोत्रमन्वयः । वीं वेत्रं वीरुद्विशेषः । डुपची पाके पक्रं पिठरं गार्हपत्यं च । वचं वक्रमास्यं ५छन्दोजातिश्च । 'धृङ्त् स्थाने' धञः धर्मः वृक्षः रविश्च । धत्र नभः गृहसूत्रं च । धर्ना द्यौः । यमू यत्रं शरीरसन्धानं अरघट्टादि च । अम अत्रं पुरीतत् । मनिंच मत्रः छन्दः । तनूयी तत्रं प्रसारितास्तन्तवः शास्त्रं समूहः कुटुम्बं च । षद्लं सत्रं यज्ञसदः दानं छद्म योगविशेषश्च । छदण् छादयतीति छात्रः शिक्षकः । क्षित क्षेत्रं कर्षणभूमिः भार्या शरीरं आकाशं च । 'क्षद संवरणे'
सौत्रः, क्षत्रं राजबीजम् । लुप्लंती लोप्त्रमपहृतं द्रव्यम् । पलं, पत्रं पण यानं च । धूग्श धोत्रं रज्जुः १०॥४५१॥ श्वितेर्वश्व मो वा (४५२) श्विताङ् वर्णे' इत्यस्मात् त्रः प्रत्ययो वकारस्य च मकारो
वा स्यात् । श्मेत्रं श्वेत्रं च रोगौ ॥ ४५२॥ गमेरा च (४५३) अस्मात् त्रः, आकारश्चान्तादेशः स्यात् । गात्रं शरीरं । गात्रा खट्वावयवः॥४५३॥ चिमिदिशंसिभ्यः कित् (४५४) त्रः स्यात् । पिंग्द, चित्रमाश्चर्य आलेख्यं वर्णश्च । मिमिदाच मित्रं सुहृत् । अमित्रः शत्रुः । मित्रः सूर्यः । शंसू शस्त्रं
स्तोत्रं आयुधं च ॥ ४५४ ॥ पुत्रादयः (४५५) त्रप्रत्ययान्ता निपात्यन्ते । पुनाति पवते वा पितृ१५पूतिमिति पुत्रः । यदाहुः । 'पूतीति नरकस्याख्या दुःखं च नरकं विदुः' । पुन्नान्नो नरकात् त्रायते इति व्युत्पत्तिस्तु संज्ञाशब्दानामनेकधा व्याख्यानं लक्षयति । आदिग्रहणादन्येऽपि ॥ ४५५ ॥ वृग नक्षिपचिवच्यमिनमिवमिवपिवधियजिपतिकडिभ्योऽत्रः(४५६) वृग्द वरत्रः चर्मरज्जुः। 'णक्ष गतौ नक्षत्रमश्विन्यादि । डुपचीष् , पचत्रं रन्धनस्थाली । वचंक् वचत्रं वचनम् । अम अमत्रम्
(भाजनम् ) । णमं नमत्रम् कर्मारोपकरणम् । टुवमू वमत्रं प्रक्षेपः । टुवपी वपत्रं क्षेत्रम् । 'वधि बन्धने' २० वधत्रमायुधं वस्त्रं विषं शूरश्च । यजी यजत्रः यज्वा । यजत्रमग्निहोत्रम् । पत्ल पतत्रं बह वाहनं व्योम च । कडत् कडत्रं दाराः, लत्वे कलत्रं दारा जघनं च ॥ ४५६ ॥ सोर्विदः कित् (४५७) सुपूर्वाद्विदः किदवा स्यात् । सुष्टु वेत्ति विन्दति विद्यते वा सुविदत्रं कुटुम्बं धनं मङ्गलं च ॥४५७॥ कतेः कन्त च (४५८) कृतैत्, अस्मादत्रः अस्य कृन्त इत्यादेशः स्यात् । कृन्तत्रः मशकः । कृन्तत्रं
छेदनं लाङ्गुलाग्रं च ॥ ४५८ ॥ बन्धिवहिकव्यश्यादिभ्य इत्रः (४५९) बन्धंश् बन्धित्रं १५ मन्थः। वहीं वहिनं वाहनं (वहनं च)। कटे कटिनं लेख्यकर्म । अशौटि, अशश, अश्नुते आकाशं,
अनाति तिमिरमशित्रं रश्मिः हविः अग्निः अन्नपानं च । आदिग्रहणात् लवित्रं कर्मद्रव्यम् । पुनातेः पवित्रं मङ्गल्यम् । भटते टिनं शूले पक्कमांसम् । कंडतेः कडिनं कटित्रमेव । अमतेः अमित्रः रिपुः इत्यादि ॥ ४५९॥ भूगृवदिचरिभ्यो णित् (४६०) भू भावित्रं त्रैलोक्यं निधानं भद्रं
च । गत् गारित्रं नमः अन्नपानं आचार्यश्च । वद वादित्रं वाद्यम् । चर चारित्रं वृत्तं स्थित्यभेदश्च ३०॥ ४६॥ तनितृलापात्रादिभ्य उत्रः (४६१) तनूयी तनुत्रं कवचम् । तृ तरुत्रः प्लवः (घासहारी च)। लांक् लोत्रं अपहृतद्रव्यम् । पां पोत्रं हलसूकरयोर्मुखम् । त्रैङ् त्रोत्रमभयक्रिया। आदिग्रहणात् वृणोतेः वस्त्रमभिप्रेतमित्यादयः । इति रोपान्त्या पञ्चसप्तत्या सूत्रैः ॥४६१॥ श्यामाश्याशक्यम्ब्यमिभ्यो लः (४६२) शोंच शाला सभा। मांक माला सक् । श्यैङ् श्यालः पत्नीभ्राता ।
शकंट, शक्लः मनोज्ञदर्शनः मधुरवाक् शक्तश्च । 'अबुङ् गतौ' 'अम' अम्ब्लः अम्लः रसविशेषः १५॥ ४६२॥ शुकशीमूभ्यः कित् (४६३) लः । 'शुक गतौ' शुक्लः वर्णविशेषः । शीङ्क, शीलं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org