________________
८
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायामुणादयः बाहुलकान षत्वम् ॥ ४३९ ।। कृधूतन्युषिभ्यः कित् (४४०) सरः । कसरः कुसरा वा विलेपिकाविशेषः वर्णविशेषश्च । धूत् धूसरः मिन्नवर्णः वायुः धान्यविशेषश्च । तनूयी, तसरः कौशेयसूत्रम् । ऋषैत् । ऋक्षरः कण्टकः ऋत्विक् च । ऋक्षरा तोयधारा ॥ ४४० ॥ कृगृदृक्षगचतिखटिकटिनिषदिभ्यो वरट् (४४१) एभ्यः टिद्वरः । कृत्, कर्बरः व्याघ्रः विकिरः अञ्जलिश्च । कर्बरी भूमिः शिवा च । गत् गर्वरः अहंकारः महिषश्च । गर्वरी महिषी सन्ध्या च ।५ शश् शर्बरः सायाह्नः रुद्रः हिंस्रश्च । शर्वरं तमः अन्नं च। शर्वरी रात्रिः । दृश् दर्वरं वज्रम् । दर्वरी सेवा । वृग्ट, वर्वरः कामः चन्दनं लुब्धकश्च । वर्वरी नदी भार्या च । चतेग्, चत्वरं चतुष्पथं अरण्यं च । चत्वरी रथ्या देवता वेदिका च । 'खट काङ्के खट्वरं रससंकीर्णशाकपाकः । कटे, कट्वरः व्यालाश्वः । कट्वरी दधिविकारः । षद्लं निपूर्वः निषद्वरः कर्दमः वह्निः कर्मकरः कन्दर्पः इन्द्रश्च । निषद्वरमासनम् । निषद्वरी प्रपा रात्रिः प्रमदा इन्द्राणी च ॥ ४४१॥ अनो-१० तेरीचादेः (४४२) अशौटि अस्माद्वरः ईश्चादेः ईश्वरः विभुः। ईश्वरी स्त्री ॥४४२॥ नीमीकुतुचेर्दीर्घश्च (४४३) एभ्यो वरद दीर्घश्चैषाम् । णींग नीवरः पुरुषकारः । मींग्श् मीवरः हिंस्रः समुद्रश्च । कुङ्, कूवरः रथावयवः । तुंक्, तूवरः मन्दश्मश्रुश्च अजननीकश्च । चिंग्ट् चीवरं मुनिजनवासः निःसारकन्था च ॥४४३॥ तीवरधीवरपीवरछित्वरछत्वरगह्वरोपहरसंयदरोदुम्बरादयः (४४४) एते वरट्प्रत्ययान्ता निपात्यन्ते । तिम्यतेस्ती च तीवतेर्वा । तीवरं १५ जलं व्यञ्जनं च । ध्यायते/ च । धीवरः कैवर्तः । प्यायः प्यैडो वा पी च पीवतेर्वा किदरः पीवरः मांसलः । छिनत्तेस्तः किच्च । छित्त्वरः शठः जर्जरः पिटकश्च । छादेर्णिलुकि ह्रस्वश्च । छत्वरः भर्त्सकः निकुञ्जकश्च । छत्वरं कुड्यहीनं गृहं शयनप्रच्छदः छदिश्च । गुहेरचोतः । गह्वरं महाबिलं भयानकं प्रत्यन्तदेशश्च । उपपूर्वात् ह्वो वादेर्लुक् च । उपह्वरं सन्धिः समीपं रहःस्थानं च । सम् पूर्वाद्यमेर्दश्च । संयद्वरो रणः संयमी नृपश्च । उन्देः किदुम् चान्तः ।२० उदुम्बरः वृक्षविशेषः । आदिग्रहणादुम्बरशबरादयः ॥ ४४४ ॥ कडेरेवराङ्गरौ (४४५) कडत् अस्मात् एवरः अङ्गर इति प्रत्ययौ स्याताम् । कडेवरम् मृतशरीरम् । लत्वे कलेवरम् । कडङ्गरः वनस्पतिः ॥ ४४५॥ त्रट (४४६) सर्वधातुभ्यः स्यात् । छादयतीति छत्रम् छत्री च धर्मवारणम् । पातीति पात्रं अर्जितगुणाधारः साध्वादिः । पात्री भाजनम् । सायते, स्नानं स्नानम् । राजत इति राष्ट्र देशः । शिष्यतेऽनेन शास्त्रम् । असूच , अखं धनुः ॥ ४४६ ॥ जिभृमृभ्रस्जिगमिनमिन-२५ श्यशिहनिवृषेवृद्धिश्च (४४७) एभ्यबद, वृद्धिश्चैषां स्यात् । जि जैत्रः जयनशीलः । जैत्रं द्यूतम् । टुडु,ग्क् भान पौषो यश्च भृतिं गृहीत्वा वहति । सं सात्रं आलयः । भ्रस्जीत् भ्राष्ट्रं अम्बरीषम् । गम्लं गानं मनः शरीरं लोकश्च । णमं नात्रं शिरः शाखा वैचित्र्यं च । नशौच "नशो धुटि" (४।४।१०९) इति नोऽन्तः । नांष्ट्रा यातना । अश्नोतरनातेर्वा । आष्ट्र आकाशं रश्मिश्च । हनंक् हावं रक्षः युद्धं वधश्च । विष्लंकी, वैष्ट्रः विष्णुः वायुश्च । वैष्ट्रं त्रिदिवं वेश्म च ॥ ४४७॥ दिवे-३० चौं च (४४८) अस्मात् ब्रट् । अयं चास्यादेशः स्यात् । चौत्रं त्रिदिवं ज्योतिः विमानं प्रमाणं प्रतोदश्च ॥ ४४८॥सूमूखन्यूषिभ्यः कित् (४४९) त्रट् । पूत् सूत्रं तन्तुः शास्त्रं च । मूङ् मूत्रं प्रस्रावः । खनूग, खात्रं कूलः तडाकं ग्रामः धान्यमृत् चौरकृतं च छिद्रम् । उषू उष्ट्रः क्रमेलकः ॥४४९॥ स्त्री (४५०) स्यतेः सूतेः स्यायतेः स्तृणातेर्वा ब्रट् (डिच्च) स्त्री योषित् ॥४५०॥ हुयामाश्रुवसिभसिगुवीपचिवचिधियम्यमिमनितनिसदिछादिक्षिक्षदिलुपिपतिधू- ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org