________________
९१८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुमसैच मसूरः धान्यः चर्मासनं च । पशिः सौत्रः, पश्यते गम्यते इति पशूरः ग्रामः । 'खट काङ्के' खटूरः मणिविशेषः । 'खडण भेदे' खडूरः खुरलीस्थानम् । 'खर्ज मार्जने च' खजूरः वृक्षः । 'कर्ज व्यथने' । कर्जूरः स एव मलिनश्च । 'सर्ज अर्जने' । सर्जूरः अहः । कृपौङ्, कर्पूरः गन्धद्रव्यम् । वल्लि वल्लूरः शुष्कमांसम् । मडु मण्डूरः धातुविशेषः ॥ ४२७ ॥ महिकणिचण्यणिपल्य५लितलिमलिशलिभ्यो णित् (४२८) ऊरः । मह माहूरः शैलः । 'कण गतौ' काणूरः नागः। चण चाणूरः मल्लो विष्णुहतः । अण आणूरः प्रामः । पल पालूरं नाम नगरं अन्ध्रराज्ये । अली, आलूरः विटः । तलण् , तालूरः जलावतः । मलि मालूरः दानवः बिल्वश्च । शल शालूरः दर्दुरः ॥४२८ ॥ स्थाविडेः कित् (४२९) ऊरः । ष्ठां स्थूरः वठर उच्चश्च । स्थूरा जङ्घाग्रदेशः । विड विडूरः वालवाये ग्रामः ॥ ४२९ ॥ सिन्दूरकचूरपत्तूरधुत्तूरादयः (४३०) ऊरान्ता निपा१० त्यन्ते । स्यन्देः सिन्द् च सिन्दूरं चीनपिष्टः । करोतेश्वोन्तश्च क—र औषधविशेषः । पतेस्तोन्तश्च
पत्तूरं गन्धद्रव्यम् । धुवो द्विरुक्तस्तोन्तो हस्खश्च । धुत्तूरः उन्मत्तकः । दधातेधत्तूरमित्यन्ये । आदिग्रहणात् कस्तूरहारहूरादयः॥ ४३० ॥ कुगुपतिकथिकुथिकठिकुठिकुटिंगडिगुडिमुदिमूलिदंशिभ्यः केरः (४३१) किदेरः । कुङ् कुबेरः धनदः । गुंत् गुबेरं युद्धम् । पल पतेरः पक्षी पवनश्च । कथण कथेरः कथकः कुहकः शकुन्तश्च । कुथच् कुथ्यति पानीयसंपर्केण कुथैरः १५ शिडाकीसम्भारः । कठ कठेरः दरिद्रः । कुठिः सौत्रः, कुठेरः निसृतसारः अर्जकश्च । कुटत् ,
कुटेरः शठः । गड गडेरः मेघः प्रस्रवणशीलश्च । गुडत् गुडेरः राजा पण्यं च बालभक्ष्यम् । मुदि मुदेरः हर्षः । 'मूल प्रतिष्ठायाम्' मूलेरः वनस्पतिः मूलेरं पण्यं च । 'दशं दशने' दशेरः सर्पः जनपदश्च ॥ ४३१॥ शतेरादयः (४३२) केरप्रत्ययान्ता निपात्यन्ते । शढं तश्च शतेरः वायुः तुषारश्च ।
आदिशब्दाद्गुधेरशृङ्गबेरनालिकेरादयः ॥ ४३२ ॥ कठिचकिसहिभ्य ओरः (४३३) कठ २० कठोरः अमृदुः चिरन्तनश्च । 'चक तृप्तौ' चकोरः पक्षिविशेषः पर्वतविशेषश्च । पहिं सहोरः विष्णुः : पर्वतश्च ॥ ४३३ ॥ कोरचोरमोरकिशोरपोरहोरादोरादयः (४३४) ओरप्रत्ययान्ता निपात्यन्ते । कायतेश्चरतम्रियतेश्च डिच्च । कोरः बालपुष्पम् । चोरः तस्करः । मोरः मयूरः । कृशेरिचोपान्त्यस्य किशोरः तरुणः बालश्च । हन्तेर्डित् घश्च । घोरं कष्टम् । हूंग् होरा निमित्तवादिनां
चक्ररेखा । डुदांग्क दोच् दोरः कटिसूत्रं तन्तुगुणः । आदिग्रहणादन्येऽपि ॥ ४३४ ॥ किगृवृभ्यः २५ करः (४३५) किः सौत्रः, केकरः वक्रदृष्टिः । शश् शर्करा मत्स्यण्डिकादिः कर्कशः क्षुद्रपाषाणकणिकाश्च । वृग्ट वर्करः छागः शिशुः ॥ ४३५ ॥ सूपुषिभ्यां कित् (४३६) षूत् सूकरः वराहः । पूषंच पुष्करं पद्मं तूर्यमुखं हस्तिहस्तानं आकाशं मुरजः तीर्थनाम च ॥ ४३६ ॥ अनिकाभ्यां तरः (४३७) अनक् , अन्तरं बहिर्योगोपसंव्यानयोः छिद्रमध्यविरहविशेषेषु च । के कातरः भीरुः
॥ ४३७ ॥ इण्पूभ्यां कित् (४३८) तरः, इतरः निर्दिष्टप्रतियोगी । पूग्श् पूतरः जलजन्तुः ३०॥ ४३८ ॥ मीज्यजिमामद्यशोवसिकिभ्यः सरः (४३९) मीच , मेसरः वर्णविशेषः । जिं जेसरः शुरः । अज वेसरः अश्वतरः । वेस गतावित्यस्य वा 'जठर०' (४०३) इत्यादिनिपातनादरे रूपम् ॥ मांक मासरः आयामः । मदैच् मत्सरः क्रोधः । अशौटि अक्षरं वर्णः मोक्षपदमाकाशं च । अक्षेर्वा अरेरूपम् । वसं वत्सरः संवत्सरः परिवत्सरः वर्षाभिधानानि । इडामानेन वसन्यत्र काला
वयवा इति इड्वत्सरः, इडया मानेन वसन्त्यत्रेति इडावत्सरः; वर्षविशेषाभिधाने । परिवत्सरादीन्यपि ३५ वर्षविशेषाभिधानानि इत्येके । कि इत्यदादौ स्मरन्ति केसरः सिंहसटः पुष्पावयवः बकुलश्च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org