________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियामामुणादयः
९१७ वनस्पतिविशेषः वंशायङ्करश्च । शुश्, शरीरं वपुः । पृ, परीरं बलं लाङ्गलमुखं च । पूरश् पवीरं रङ्गस्थानं फलं पवित्रं बीजावपनं च । मञ्जिः सौत्रः मञ्जीरं नूपुरः । कुटत्, कुटीरमालयः कर्कटक: चन्द्राश्रयराशिश्च । कोटीरं मुकुटः । बाहुलकावणः । कटे कटीरं जनपदः जघनं जलं च । पट, पटीरः कन्दर्पः । पटीरं कार्मुकम् स्फिक् च । 'कडु मदे' कण्डीरं हरीतकम् । 'शौड़ गर्वे' । शौण्डीरः गर्वितः सत्त्ववान् तीक्ष्णश्च । हिसुप् हिंसीरः श्वापदः हिंस्रश्च ॥ ४१८॥ घसिवशिपुटिकुरि-५ कुलिकाभ्यः कित् (४१९) ईरः । घस्लं क्षीरं दुग्धं मेघश्च । वशक् , उशीरं वीरणीमूलम् । पुटत् पुटीरः कूर्मः । कुरत् कुरीरं मैथुनं वेश्म च । कुरीरः मालाविशेषः कम्बलश्च (कुल कुलीरः कर्कटः। के कीरः शुकः काश्मीरकश्च ) ॥ ४१९ । कशेर्मोन्तश्च (४२०) कश, इत्यस्मात्तालव्यान्तादीरः भश्चान्तः स्यात् । कश्मीरा जनपदः॥४२०॥वनिवपिभ्यां णित् (४२१) ईरः। 'वन भक्तौ'। वानीरः वेतसः। टुवपी वापीरः मेघः अमोघनिष्पत्ति च क्षेत्रम् ॥ ४२१ ॥ जम्बीराभीरगभीरगम्भीर-१० कुम्भीरभडीरभण्डीरडिण्डीरकिर्मीरादयः (४२२) ईरान्ता निपात्यन्ते । जनेर्बोन्तश्च जम्बीरः वृक्षः । आप्नोतेर्भश्च आमीरः शूद्रजातिः । गमेर्भः खरान्नस्तु वा गभीरः अगाधः । गम्भीरः स एव । स्कुम्भेः सौत्रात् सलोपश्च कुम्भीरः जलचरः । भदुङ्, अस्य नलुक् च वा । भडीरः भण्डीरश्च योद्धृवचनौ । डीडो डित् द्वित्वं पूर्वस्य नोऽन्तश्च डिण्डीरः फेनः । किरो मोन्तश्च किर्मीरः कर्बुरः । आदिग्रहणात्तूणीरनासीरमन्दीरकरवीरादयो भवन्ति ॥ ४२२॥ वाश्यसिवासिमसि-१५ मथ्युन्दिमन्दिचतिचङ्कयङ्किकर्बिचकिबन्धिभ्य उरः (४२३) वाशिच् , वाशुरः शकुनिः गर्दभश्च । वाशुरा रात्रिः । असूच , असुरः दानवः । 'वासण उपसेवायाम्' । वासुरा रात्रिः । मसैच् , मसुरा पण्यस्त्री । मसुरं चर्मासनं धान्य विशेषश्च । मथे मथुरा नगरी । उन्दैप् उन्दुरः मूषिकः । मदुङ् मन्दुरा वाजिशाला । चतेग, चतुरः विदग्धः । चङ्किः सौत्रः, चकति चेष्टते चङ्करः रथः अनवस्थितश्च । 'अकुङ् लक्षणे' अङ्करः प्ररोहः तरुप्रतानभेदश्च । घञ्युपसर्गस्य बहुलवचनादीर्घत्वे २० अङ्करः । 'कर्ब गतौ कर्बुरः शबलः । 'चकि तृप्तिप्रतिघातयोः' चकुरः दशनः । बन्धंश् बन्धुरः मनोज्ञः नम्रश्च ॥ ४२३ ॥ मङ्केनलुक् वोच्चास्य (४२४) मकुङ्, अस्मादुरः नकारस्य लुक् , अकारस्य च उकारो वा स्यात् । मुकुरः आदर्श : मुकुलं च । मकुरः आदर्शः कल्कः बालपुष्पं च ॥ ४२४ ॥ विधेः कित् (४२५) उरः । विधत् विधुरं वैशसम् ॥ ४२५ ॥ श्वशुरकुकुन्दुरदर्दुरनिचुरप्रचुरचिकुरकुकुरकुकुरकुकुरशकुरनूपुरनिष्ठुरविथुरमगुरवागुरादयः २५ (४२६) किदुरप्रत्ययान्ता निपात्यन्ते । आशुपूर्वात् शुपूर्वाद्वानोतेरभातेर्वा आकारलोपश्च । श्वशुरः दम्पत्योः पिता । कुपूर्वात् 'स्कुदुङ् आप्रवणे' इत्यस्मात् सलुक् च । कुकुन्दुरौ नितम्बकूपौ। दृणातेयॊन्तश्च दर्दुरो मण्डूको मेघश्च । निपूर्वात् प्रपूर्वाचिनोतेश्चरतेर्वा डित् च । निचुरः तरुः, लत्वे निचुलः । प्रचुरं प्रायः । चकेरिश्चास्य चिकुरं युवतीनामीषन्निमीलितमक्षि । चिकुराः केशाः । कुकेः कोऽन्तो वा। कुकुरः यादवः । कुक्कुरः श्वा । किरः कुर् कोऽन्तश्च । कुर्कुरः श्वा । शश् गुणः कोन्तश्च । शर्कर:३० तरुणः । णूत् पोऽन्तश्च । नूपुरः तुलाकोटिः । निपूर्वात् तिष्ठतेः, निष्ठुरः कर्कशः । निष्ठूरं काहलम् । व्यथेर्विथ् च । व्यथन्तेऽस्माजना इत्यपादाने विथुरः राक्षसः । मदिवात्योर्गोऽन्तश्च मद्गुरः मत्स्य विशेषः । वागुरा मृगानायः । आदिग्रहणान्मन्यतेधश्च मधुरः रसविशेषः इत्यादि ॥ ४२६ ॥ मीमसिपशिखटिखडिखर्जिकर्जिसर्जिकृपिवल्लिमण्डिभ्य ऊरः (४२७) 'मीङ् हिंसायाम्'। मयूरः । मयां रौतीति मयूर इति पृषोदरादिसंज्ञा शब्दानामनेकधा व्युत्पत्तिं लक्षयति । ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org