________________
९१६ महामहोपाध्यायश्रीविनयविजयगणिविरचितेखोपज्ञहैमलघु - विशेषः । मुद्गरी स्त्री । गूरैचि, गूर्जरः सौराष्ट्रादिः । गूर्जरी स्त्री ॥४०४ ॥ अग्यशिमदिमन्दिकडिकसिकासिमृजिकञ्जिकलिमलिकचिभ्य आरः (४०५) अग अगारं वेश्म । 'अगु गतौ' अङ्गारःनिर्वातज्वालो निर्वाणश्चोल्मुकावयवः भूमिसुतश्च । मदैच् मदारः पानशौण्डः
वराहः हस्ती अलसश्च । मदुङ् मन्दारः वृक्षः । कडत्, कडारः पिङ्गलः विषमदशनश्च । कस ५कसारः हिंस्रः । 'कासृङ् शब्दकुत्सायाम्' । कासारः पल्वलम् । मृजौक् मार्जारः विडालः । कञ्जिः सौत्रः, कञ्जारः कुसूलजातिः यूपः व्यञ्जनम् । कलि कलारः विषमरूपः । मलि मलारः अलसः । मलमिव आरातोदोस्ये(ति) वा मलारः । कचि कचारः अपनेयतृणबुसपांशुविकारः॥ ४०५॥ त्र: कादिः (४०६) आरः । तृ तर्कारः वृक्षः॥४०६॥ कृगो मादिश्च (४०७) कादिश्वारः स्यात् ।
कारः लोहकारः कर्कारः वृक्षः॥४०७॥ तुषिकुठिभ्यां कित् (४०८) आरः। तुषंच तुषारः १० हिमम् । कुठिः सौत्रः, कुठारः परशुः ॥ ४०८ ॥ कमेरत उच्च (४०९) कमूङ् कुमारः महासेनः
अभ्रष्टः बालश्च ॥ ४०९॥ कनेः कोविदकर्बुदकाञ्चनाश्च (४१०) कनै अस्मादारः त्रयश्चैते आदेशाः स्युः । कोविदारः कर्बुदारः काञ्चनारश्च वृक्षविशेषाः ॥ ४१०॥ द्वारगृङ्गारभृङ्गारकहारकान्तारकेदारखारडादयः (४११) निपात्यन्ते । उभत् द्वादेशश्च । द्वार द्वाः । श्रयतेस्तालव्यादिः शृङ्गश्च शृङ्गाररसविशेषः विदग्धता च । भृगो भृङ्ग च भृङ्गारः हस्तिमुखगलन्तिका । १५ कलेहश्च स्वरात्परः कहारं उत्पलविशेषः । कमेस्तोन्तो दीर्घश्च कान्तारमरण्यं । कदेः सौत्रस्यात एच केदारः वप्रः । खनेर्डिच खारी चतुर्दोणा । खारडिति टकारो ङयर्थः । आदिग्रहणात् शिशुमारादयः ॥४११॥ मदिमन्दिचन्दिपदिखदिसहिवहिकुसभ्य इरः (४१२) मदैच् मदिरा सुरा । मदुङ् मन्दिरं वेश्म नगरं च । चदु, चन्दिरः चन्द्रमाः हस्ती च । चन्दिरं चन्द्रिकावत् जलं च ।
पदिच पदिरः मार्गः । 'खद हिंसायां च' खदिरः वृक्षः। षह सहिरः पर्वतः । वहीं वहिरः बली२० वईः । कुक् कुविरः अक्षिकोणः । सुं सरिरं जलम् । लत्वे सलिलम् ॥ ४१२ ॥ शवशशेरिचातः (४१३) आभ्यामिरः अकारस्य इच्च । 'शव गतौ' तालव्यादिः । शिबिरं सैन्यसन्निवेशः । शश शिशिरं शीतलं ऋतुश्च ॥ ४१३ ॥ श्रन्थेः शिथ् च (४१४) अस्मादिरो शिथ् इत्यस्यादेशः स्यात् । श्रथुङ् शिथिरं श्लथं लत्वे शिथिलम् ॥ ११४ ॥ अशेर्णित् (४१५)
अश्नोतेरभातेर्वा णित् इरः स्यात् । आशिरः विष्णुः आदित्यश्च । प्राशिरः बह्वाशी २५॥ ४१५ ॥ शुषीषिबन्धिरुधिरुचिमुचिमुहिमिहितिमिमुदिखिदिछिदिभिदिस्थाभ्यः
कित् (४१६) इरः । शुषंच शुषिरं छिद्रम् । इषत् इषिरं तृणम् । इषिरः अग्निः आहारः क्षिप्रः सेव्यश्च । बंधश् बधिरः श्रुतिविकलः । रुधृम्पी 'रुधिरं द्वितीयो धातुः । रुचि रुचिरं दयितं दीप्तिमञ्च । मुच्छंती, मुचिरः धर्मः सूर्यः मेघश्च । मुहौच , मुहिरः कन्दर्पः सूर्यश्च ।
मुहिरं तमः । मिहं, मिहिरः मेघः सूर्यश्च । मिहिरं तोयम् । तिमच् । तिमिरं तमस्तोयं रोगश्च ३. कश्चित् । मुदि मुदिरः मेघः सूर्यश्च । खिदंत खिदिरः त्रासः तस्करश्च । छिदृम्पी छिदिरः उन्दुरः
अग्निश्च । छिदिरं शस्त्रम् । भिदृम्पी, भिदिरः अशनिः भेदश्च । ष्ठां स्थिरः अचलः ॥ ४१६ ॥ स्थविरपिठिरस्फिराजिरादयः (४१७) एते निपात्यन्ते । तिष्ठतेोऽन्तो हस्खश्च । स्थविरः
वृद्धः । पचतेरत इत्वं ठश्च । पिठिरं साधनभाण्डम् । पिठेर्वा रूपम् । स्फायतेर्डिच्च स्फिरः स्फारः __वृद्धिश्च । अजेर्वीभावाभावश्च अजिरमङ्गणं नगरं देवः वेश्म च । आदिग्रहणादन्येऽपि ॥ २० ॥ ३५॥ ४१७॥ कृपृपूगमञ्जिकुटिकटिपटिकण्डिशौण्डिहिंसिभ्य ईरः (४१८) कृ, करीरः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org