________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः चटण चटरः तस्करः। वट वटरः मधुकण्डरा । कुटत् कोटरं छिद्रम् । बाहुलकात् गुणः । कठ, कठरः दरिद्रः। 'वठ स्थौल्ये' वठरः मूर्खः बृहदेहश्च । 'मठ मदनिवासयोश्च' । मठरः ऋषिः अज्ञानी गोत्रं अलसश्च । अड, अडरः वृक्षः । शीकृङ् शीकरः जललवः । 'शीभृङ् कत्थने' शीभरः हस्तिहस्तमुक्तो जललवसेकः । कदिः सौत्रः, कदरो वृक्षविशेषः । 'बद स्थैर्ये' बदरी फलवृक्षविशेषः । कदुङ् कन्दरः गिरिगर्तः । मदुङ् मन्दरः शैलः । सुन्दिः सौत्रः, सुन्दरः मनोज्ञः । मन्थर मन्थरः५ मन्दः खर्षश्च । मञ्जिपञ्जी सौत्रौ, मञ्जरी आम्रादिशिखा । गौरादित्वात् ङीः । पञ्जरः शुकाद्यवरोधसद्म । पिजुण पिञ्जरः पिशङ्गः । कमूङ् कमरः अरण्यपशुः मूर्खः कार्मुकं कोमलः चौरः कान्तश्च । षम, समरः संग्रामः । चमू चमरः अरण्यपशुः । टुवमू वमरः दुर्मेधाः । भ्रमूच् भ्रमरः षट्पदः । अम अमरः सुरः । देवृङ्, देवरः पत्यनुजः । वसं णौ वासरः दिवसः कामः अग्निः प्रावृट् च । अन्ये 'वाशिच शन्दे अस्मादपि तालव्यान्तादिच्छन्ति । वाशरः अग्निः मेघः दिवसश्च ।१० कासृङ् कासरः महिषः । ऋक्, अररः कपाटः बुधः भ्रमणः गृहं हरणं शलाका च । जीव जीवरः दीर्घायुः । बर्ब गतौ । बर्बरः म्लेच्छजातिः। बर्बरी कुञ्चिताः केशाः । कुंक कबरः वर्णः। कबरी वेणिः । 'शुं गतौ'। शबरः म्लेच्छजातिः । शव गतावित्यस्यान्ये । टुढुंट दवरः गुणः ॥ ३९७ ॥ अवर्ष च वा (३९८) अव अस्मादरः धकारश्चान्तादेशो वा स्यात् । अधरः हीनः उपरिभावस्य प्रतियोगी दन्तच्छदश्च । अवरः परप्रतियोगी ॥ ३९८ ॥ मृान्दिपिठिकुरि-१५ कुहिभ्यः कित् (३९९) अरः । मृदश् , मृदरः व्याधिः अतिकायः क्षोदश्च । उन्दैप्, उदरं जठरं व्याधिश्च । 'पिठ हिंसासंक्लेशयोः' पिठरं भाण्डम् । कुररः जलपक्षिजातिः । कुहणि कुहरं गम्भीरगतः ॥ ३९९ ॥ शाखेरिदेतौ चातः (४००) 'शाख व्याप्तौ' । अस्मादरः अकारस्य इकार एकारौ स्याताम् । शिखरमग्रम् । शेखरः आपीडः॥४०॥शपेःच (४०१) अस्मादरः फश्चान्तादेशः स्यात् । शफरः क्षुद्रमत्स्यः ॥ ४०१॥ दमेर्णिद्वा दश्च डः (४०२) दमूच् , डामरः भयानकः ।२० डमरः स एव ॥४०२॥ जठरक्रकरमकरशंकरकपरकूपरतोमरपामरप्रामरप्रामरसगरनगरतगरोदेरादरशदरहदरकृदरकुकुन्दरगोवराम्बरमुखरखरडहरकुञ्जराजगरादयः (४०३) किदरप्रत्ययान्ता निपात्यन्ते । जनेष्ठ च जठरं कोष्ठः । क्रमेः क च क्रकरः गौरतित्तिरः । मधेनेलोपश्च मकरः ग्राहः। शम्पूर्वात् किरतेर्डिच्च शङ्करः रुद्रः । कृपेरुपान्त्यस्य अर् च वा कर्पर कपालम् कूपरं कुफणी । ताम्यतेरत ओच्च तोमरः आयुधम् । पातेर्मोन्तश्च पामरः ग्रामीणः । प्रपूर्वादमतेः प्रामरः२५ ग्राम्यः मन्दः । प्रपूर्वादत्तेर्मोन्तश्च प्रामरः नरपशुः । सहिनशोर्ग च सगरः द्वितीयश्चक्रवर्ती । नगरं पुरम् । 'तगु गतौ' नलोपश्च तगरः वृक्षविशेषः । ऊर्जः परात् दृणातेर्डित् जलुकू च ऊर्जा बलेन दृणाति विभेति ऊर्दरः दुर्बलः । 'अदु बन्धने नलुक् च अदरं वृक्षः संग्रामश्च चञ्चसमूहः मातृवाहश्च । शश दृश् अनयोर्हस्वत्वं दश्चान्तः । शृदरः सर्पः । दृदरं विषं भयं च । डुकंग् दोन्तश्च कृदरः वृक्षः सर्वकर्मप्रवृत्तो दस्युजनः कुसूलश्च । कुपूर्वात् 'स्कुदुङ् आप्रवणे' सलोपश्च ।३० कुकुन्दरं श्रोणीकूपः । गोपूर्वाद् वृगो डित् रश्वादिः गोर्वरः करीषः । अमेऊन्तश्च अम्बरं वस्त्रमाकाशं च । मुहेः ख च मुखरः वाचालः । खनेर्डिच्च खरः रासभः । दहेरांदेर्डश्च डहरं हृत्कमलम् । कूज ह्रस्वत्वं स्वरान्नोन्तश्च । कुञ्जरः हस्ती । अजेरगश्चान्तः वीभावाभावश्च । अजगरः शयुः । आदिग्रहणात्कोटरः अडङ्गर शाङ्गर पाण्डर वानरादयो भवन्ति ॥ ४०३ ॥ मुदिगरिभ्यां टिद्गजो चान्तौ (४०४) आभ्यां टिदरः । गजौ चान्तौ यथासयं स्याताम् । मुद्गरः प्रहरण-३५
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International