________________
९१४
___महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुणींग नीरं जलम् । शीङ्क, शीरः अजगरः । पुंग्ट् सुरः देवः । सुरा मद्यम् । षूडौच सूरः आदित्यः रश्मिश्च ॥ ३८८॥ इण्धारभ्यां वा (३८९) आभ्यां रः, स च किद्वा । इरा मदनीयपानविशेषः मेदिनी च । एरा एडका । धीरः सत्यवान् धृतिमांश्च । धारा जलयष्टिः खड्गावयवः
अश्वगतिविशेषश्च ॥ ३८९ ॥ चुम्बिकुम्बितुम्बेर्न लुक् च (३९०) एभ्यः किद्रः नकारस्य ५चैषां लुक् स्यात् । चुबु, चुनं वक्रम् । चुनः रश्मिः । 'कुबु आच्छादने' कुव्र सङ्कटं भग्नपृष्ठः फल्गुहस्ती चर्म गृहाच्छादनं च । तुबु, तुजं कुटिलम् ॥ ३९० ॥ भन्देर्वा (३९१) अस्माद्रः नकारस्य च लुग्वा स्यात् । भद्रं भन्द्रं च, कल्याणं सुखं च ॥ ३९१॥ चिजिशुसिमितम्यम्यर्दे दीर्घश्च (३९२) चीरं जीर्णवस्त्रं वल्कलं च । जीरः अजाजि अग्नि वायुः अश्वश्च ।
जीरमन्नम् । लत्वे जीलः चर्मपुटः । 'शुं गतौ' । शूरः विक्रान्तः । पिंगट् सीरं हलम् । सीरा हलवि१० लेखनलेखा । डुमिंगट मीरः समुद्रः। मीरं जलम् । मीरा मांस्पचनी देवसीमा च । तमूच ताम्रः
शुल्वं वर्णश्च । अम् आम्रः वृक्षविशेषः । अर्द, आद्र सरसम् ॥ ३९२॥ चकिरमिविकसे. रुचास्य (३९३) चकि चुक्रः अम्लो रसः बीजपूरमिञ्जिकासुरः निमन्त्रणं च । रमिं रुम्रः सुन्दरः आदित्यसारथिः ब्राह्मणः विनाशश्च । विकुस्रः चन्द्रः। विकुत्रं पुष्पितम् । बाहुलकात् विकसे (रु)र्विकल्पः विकस्रः ॥ ३९३ ॥ शदेरूच्च (३९४) शदं, अस्माद्रः अकारस्य ऊः स्यात् शूद्रः चतुर्थो वर्णः १५॥ ३९४ ॥ कृतेः ऋकृच्छौ च (३९५) अस्माद्रः इमौ चादेशौ स्याताम् । क्रूरममृदु । क्रूरः पापकर्मा कृच्छ्रे दुःखम् ॥ ३९५ ॥ खुरक्षुरदूरगौरविप्रकुप्रश्वभ्राभ्रधूम्रान्ध्ररन्ध्रशिलिन्ध्रौद्रपुण्ड्रतीवनीवशीघ्रोग्रतुग्रभुग्रनिद्रातन्द्रासान्द्रगुन्द्रारिज्रादयः (३९६) (एते रान्ता) निपात्यन्ते । खुरत् क्षुरत् , अनयोरकारलोपो गुणाभावश्च । खुरः शफः । क्षुरः नापितभाण्डम् ।
ननु च खुरक्षुरशब्दौ 'नाम्युपान्त्यप्रीकृ०' (५।१।५४) इति केन सिद्ध्यतः । सत्यम् । तत्र कर्त्तवार्थ २० इह तु संप्रदानाच्चान्यत्रोणादयः इत्यर्थभेदः । असर्व विषयत्वं वा अनयोर्जाप्यते; यथा अदेः परोक्षायां
वा घस्लादेशवचनेन घसेः । एवमन्यत्रापि स्वयमूह्यम् । दूरपूर्वादिणो लुक् च । दूरं विप्रकृष्टम् । गवतेर्वृद्धिश्च । गौरः अवदातः । विपूर्वात् पातेलुक् च । विप्रः ब्राह्मणः । विविधं प्रातीति वा विप्रः । गुपच्, आदेः कत्वम् । कुप्रं गहनं गृहाच्छादनं च । वोश्वि अकारः भोन्तश्च श्वभ्रं बिलमाकाशं च । आप्लंट अभादेशश्च अभ्रं मेघः । धूग्श् मोन्तश्च । धूम्रः वर्णविशेषः । २५ अहुङ् धश्च । अन्ध्रः क्षत्रजातिः (रधेः स्वरान्नोन्तश्च रन्ध्र च्छिद्रम् । बिइन्धैपि
अस्य च तालव्यादिशिलश्चादिः शिलिन्ध्रमुद्भिद्विशेषः । ओणेर्डश्व ओडः क्षत्रजातिः) पुणेः स्वरान्नोन्तो डश्च पुण्डेर्वा रूपम् । पुण्ड्रः क्षत्रजातिः तिलकश्च । तिजेर्वो दीर्घश्च तीवतेर्वा तीव्रः तीक्ष्णः उत्कृष्टश्च । नियो वोन्तश्च नीवतेर्वा नीवं गृहच्छदिरुपान्तः। श्यैङ् ईत्वं
यलोपो घश्चान्तः शीघ्रः त्वरितः । उवेरुषेर्वा गः किच्च उग्रः रुद्रः रौद्रश्च । तुदीत् गः ३० कित्त्वम् तुग्रं शृङ्गम् । भुजंप गः किच्च भुनः रश्मिसमूहः । णिदु, किन्नलोपश्च । निद्रा स्वापः । तमूच दोन्तश्च । तन्द्रा आलस्यम् । षद्लं, स्वरान्नोन्तो वृद्धिश्च सान्द्रं धनम् । गुदेः स्वरान्नोन्तश्च गुन्द्रा जलतृणविशेषः । राजे रजेर्वा किञ्च इच्चोपान्त्यस्य रिन नायकः । आदिग्रहणादन्येऽपि ॥ ३९६ ॥ ऋछिचटिवटिकुटिकठिवठिमठ्यडिशीकृशीभृकदिबदिकन्दिमन्दिसुन्दिमन्थिमञ्जिपञ्जिपिञ्जिकमिसमिचमिवमिभ्रम्यमिदेविवासिकास्यर्तिजीविबर्वि३५कुशुदोररः (३९७) ऋछत् ऋच्छरः त्वरावान् । ऋच्छरा वेश्या कुलटा त्वरा अङ्गुलिश्च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org