________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः ९१३ एण्यः (३८२) वरेण्यः परं ब्रह्म धाम श्रेष्ठः प्रजापतिः अन्नं च ॥ ३८२ ॥ मदेः स्यः (३८३) मत्स्यः मीनः धूर्तश्च ॥ ३८३ ॥ रुचिभुजिभ्यां किष्यः (३८४) कित् इष्यः । रुचिष्यः वल्लभः सुवर्ण च । भुजिष्यः सेवकः आचार्यः भोक्ता अन्नं मृद्वोदनः दाम च । भुजिष्यं धनम् ॥ ३८४ ॥ वच्यर्थिभ्यामुष्यः (३८५) वचुष्यः वक्ता । अर्युष्यः अर्थी ॥ ३८५ ॥ वचोऽथ्य उत् च (३८६) वचंक् इत्यस्मादथ्योऽस्य च उत् इत्यादेशः स्यात् । उतथ्यः ऋषिः५ ॥ ३८६ ॥ इति योपान्त्यास्त्रिंशता सूत्रैः। भीवृधिरुधिवज्यगिरमिवमिवपिजपिशकिस्फायिवन्दीन्दिपदिमदिमन्दिचन्दिदसिघसिनसिहस्यसिवाशिदहिसहिभ्यो रः (३८७) भेरः भेदः करभः शरः मण्डूकः दुन्दुभिः कातरश्च । ऋफिडादित्वाल्लत्वे भेलः चिकित्साग्रन्थकारः शरः मण्डूकः प्रहीणः अप्राज्ञश्च । वर्धश्चर्मविकारः चन्द्रः मेघश्च रोध्रवृक्षः । 'वज गतौ' वजं कुलिशं रत्नविशेषश्च । 'अग गतौ', अग्रः प्राग्भागः श्रेष्ठश्च । रम्रः कामुकः । वम्रः धूम्रः-धर्मविशेषश्च । १० वम्री उपदेहिका । वप्रः केदारः वास्तुभूमिश्च । जप्रः ब्राह्मणः (मण्डूकश्च )। शक्लंद शक्रः इन्द्रः। स्फारं विस्तीर्ण प्रभूतं च । वदुङ् वन्द्रः बन्दी केतुः कामश्च । इदु इन्द्रः शक्रः । पद्रं प्रामादिसन्निवेशः शून्यं च । मद्राः जनपदः । मद्रं सुखम् । (मन्द्रो मधुरस्वरः, मन्द्रं गम्भीरम् । चन्द्रः शशी सुवर्ण च । दनः शिशिरं चन्द्रमाः अश्विनोज्येष्ठश्च । दस्रावश्विनौ । घस्रो दिवसः) 'णस कौटिल्ये' नस्रः नासिकापुट ऋषिश्च । हसे हस्रः दिनम् घातकः १५ हर्षुलश्च । हस्रं बलाधानं सन्निपातश्च । सहस्रं दशशतानि । असू असं अश्रु । वासिच् । वाशः पुरुषः शब्दः संघातः शरभः रासभः पक्षी च । वाश्रा धेनुः । दहं दहः अग्निः शिशुः सूर्यश्च । षहि सह्नः शैलः ॥ ३८७ ॥ ऋज्यजितश्चिवश्चिरिपिसृपितृपिपिचुपिक्षिपिक्षुपिक्षुदिमुदिरुदिछिदिभिदिखिशुन्दिदम्भिशुभ्युम्भिदंशिचिसिवहिविसिवसिशुचिसिधिगृधिवीन्धिश्चितिवृतिनीशीसुसूभ्यः कित् (३८८) रः । 'ऋजि गत्यादिषु' ऋत्रः२० नायकः इन्द्रः अर्थश्च । अजेर्वीभावे वीरः शूरः । तञ्चू वञ्चू तकं उदश्वित् । वक्रः कुटिल: अङ्गारकः विष्णुश्च । उभयत्र न्यङ्कादित्वात्कत्वम् ॥ रिपिः सौत्रः रिप्रं कुत्सितम् । सृप्लं सृपः चन्द्रः । स्प्रं मधु । मृप्रा नाम नदी । तृपौच तृपं मेघान्तधर्मः आज्यं काष्ठं पापं दुःखं च । दृपौच दृनं बलं दुःखं च । दृप्रा बुद्धिः । 'चुप मन्दायां गतौ' चुप्रः वायुः । क्षिपीत् क्षिप्रं शीघ्रम् । 'लुपिः सादने' सौत्रः, क्षुप्रं तुहिनं कण्ट किगुल्मश्च । क्षुद्रूपी क्षुद्रं अणु जलगर्तश्च । क्षुद्रा मधुकर्यः । २५ क्षुद्रः हिंस्रः । 'मुदि हर्षे मुद्रा चिह्नकरणम् । रुहक् , रुद्रः शम्भुः । छिपी छिद्रं विवरम् । भिदंपी, भिद्रं अदृढम् । भिद्रः शरः । 'खिदंत् परिघाते' खिद्रं विघ्नः । खिद्रः विषाणः विषादः चन्द्रः दीनश्च । उन्दैप् उद्रः ऋषिः जलमार्जारश्च । सम्पूर्वात् समुदन्ति आर्दीभवन्ति वेलाकाले नद्योsस्मादिति समुद्रः सागरः । भीमादित्वादपादाने । दम्भूद, भ्रः अल्पः चन्द्रः कुशः कुलिशः सूर्यश्च । शुभि, शुभ्रः अवदातः । उम्भत् उभ्रः मेघः पेलवश्च । दशं, दश्रः दन्तः सर्पश्च । चिंग्द, ३० चिरं अशीघ्रम् । पिंग्ट् , सिरा रुधिरस्रोतोवाहिनी नाडी । वहीं उहः अनड्वान् । विसच विस्रम् आमगन्धिकम् । वस उस्रः रश्मिः । बाहुलकात्पत्वं न स्यात् । उस्रा गौः । शुच् शुक्रः ग्रहः मासः शुक्लश्च । शुक्रं रेतः । लत्वे शुक्लः वर्णः । कत्वं न्यङ्कादित्वात् । विधू सिध्रः साधुः वृक्षः मांसप्रभेदश्च । गृधूच् गृध्रः श्येनः लुब्धकः कङ्कश्च । बिइन्धैपि विपूर्वः वीध्रः अग्निः वायुः नभः निर्मल: पूर्णचन्द्रमण्डलं च । श्विताङ् श्वित्रं श्वेतकुष्ठम् । वृतूङ्, वृत्रः दानवः बलवांश्च । वृनं पापम् । ३५
है. प्रका० उत्त० ११५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org