________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुशिक्यास्यात्यमध्यविन्ध्यधिष्ण्याघ्न्यहर्म्यसत्यनित्यादयः (३६४) यान्ता निपात्यन्ते । शोंच इकश्चान्तः । शिक्यं लम्बमानः पिठर्याद्याधारः परिबादभिक्षाभोजनस्थानं असारं च । असूच दीर्घत्वम् । आस्यं मुखम् । आङ् पूर्वात् ढौकते ङित् च । आढ्यः धनवान् । 'मव बन्धने' ध् च । मध्यं गर्भः । विधत् , खरान्नोन्तश्च । विन्ध्यः पर्वतः । बिधृषाट् , णोन्तो धिष् च । धिष्ण्यं ५भवनमासनं च । धिष्ण्या उल्का । नपूर्वात् हन्तेरुपान्त्यलोपश्च । अध्न्यः धर्मः गोपतिश्च । अघ्न्या गौः । हरतेर्मोन्तश्च । हम्यं सौधम् । अस्तेः सत् च । सत्यं अमृषा । निपूर्वाद्यमेस्तोन्तो धातुलुक् च । नित्यं ध्रुवम् । आदिग्रहणात् लिह्यद्रुह्यादयः ॥ ३६४ ॥ कुगुवलिमलिकणितन्याम्यक्षेरयः (३६५) कुंक्, कवयः ऋषिः पुरोडाशश्च । गुङ्, गवयः गवाकृतिपशुविशेषः ।
वलि वलयः कटकः । मलि मलयः गिरिः । 'कण शब्दे' कणयः आयुधविशेषः । तनूयी, तनयः १० पुत्रः । अमण णिचि आमयः रोगः । अक्षौ अक्षयः विष्णुः ॥ ३६५ ॥ चायः केक च (३६६) चायग् केकयः क्षत्रियः ॥ ३६६ ॥ लादिभ्यः कित् (३६७) अयः । लांक् लयः । पां पयः । ष्णांक स्नयः । दैङ् दयः । ट्धे, धयः । मेंङ्, मयः के, कयः । खै, खयः । श्रांक श्रयः । 6 सैं । क्षयः जयः । सयः । * त्रयः । ओवै वयः इत्यादि ॥ ३६७॥ कसेरलादिरिच्चास्य (३६८) 'कस गतौ' । अस्मादलादिरयः । अकारस्येत् स्यात् । किसलयं प्रवालम् १५॥ ३६८ ॥ वृङः शषौ चान्तौ (३६९) वृश वृशयं देशनाम आकाशं आसनं शयनं च । वृषयः आशयः॥ ३६९॥ गयहृदयादयः (३७०) अयान्ता निपात्यन्ते । गमेर्डिच्च । गयः प्राणः । गया तीर्थम् । हरते॰न्तश्च । हृदयं मनः स्तनमध्यं च । आदिशब्दात् गणेरेयः । गणेयं गणनीयम् इत्यादि ॥ ३७० ॥ मुचेर्घयघुयो (३७१) अस्मात् घितौ अय उय इत्येतौ स्याताम् । मुकयः मुकुयश्च अश्वतरादश्वायां जातः । पित्करणं कत्वार्थम् ॥ ३७१ ॥ कुलिलुलिकलिक२०षिभ्यः कायः (३७२) एभ्यः कित् आयः स्यात् । कुल कुलायः नीडम् । लुलिः सौत्रः, लुलायः महिषः । कलि कलायः त्रिपुटः । कषायः कल्कादिः ॥ ३७२ ॥ श्रुदक्षिगृहिस्पृहिमहेराय्यः (३७३) श्रृंट् श्रावय्यः यज्ञपशुः । 'दक्षि हिंसागत्योः' दक्षाय्यः अग्नि गृध्रः वैनतेयः दक्षतमः । गृहणि गृहयाय्यः वैनतेयः गृहकर्मकुशलश्च । स्पृहण स्पृहयाय्यः स्पृहयालुः घृतं च । स्पृहयाय्यानि तृणानि
अहानि च । महण महयाय्यः अश्वमेधः ॥ ३७३ ॥ दधिषाय्यदीधीषाय्यो (३७४) निपात्यौ। २५ दधिपूर्वात् स्यतेः षत्वं च । दधिषाय्यं पृषदाज्यं मृषावादी च । दीव्यतेः दीधीष् च दीधीषाय्यं
तदेव ॥ ३७४ ॥ कौतेरियः (३७५) कुंक् , कवियं खलीनम् ॥ ३७५ ॥ कृगः कित् (३७६) इयः । क्रियः मेषः ॥ ३७६ ॥ मृजेर्णालीयः (३७७) णिदालीयः । मार्जालीयं पापशोधनम् । मार्जालीयः अग्निः। 'मृजोऽस्य वृद्धिः' (४।३।४२) इति णकार उत्तरार्थः॥ ३७७॥ वेतेस्तादिः (३७८) वींक्, अस्मात् तादिर्णिदालीयः । वैतालीयं छन्दोजातिः ॥ ३७८ ॥ धाग्राजिगरमि३० याज्यतरन्यः (३७९) डुधांग्क् । धान्यं सस्यजातिः । राजृग् राजन्यः ज्योतिः अग्निः क्षत्रियश्च । शश, शरण्यः त्राता । रमि रमण्यं शोभनम् । यजी णिगन्तः याजन्यः क्षत्रियः यज्ञश्च । ऋक् , अरण्यं वनम् ॥ ३७९॥ हिरण्यपर्जन्यादयः (३८०) निपात्यन्ते । हरतेरिच्चातः । हिरण्यं सुवर्णादिद्रव्यम् । परिपूर्वस्य 'पृषू सेचने' इत्यस्य उपसर्गान्तलोपो धातोश्च समग्रस्य ज इत्यादेशः
पर्जन्य इन्द्रः मेघः शङ्कः पुण्यं कुशलं च कर्म । आदिशब्दादन्येऽपि ॥ ३८०॥ वदिसहिभ्या३५मान्यः (३८१) वदान्यः दाता गुणवान् चारुभाषी च । सहान्यः शैलः ॥ ३८१॥ वृङ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org