________________
९११
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः विशेषः । षिचीत् , सेचिमं मालाविशेषः । गणण, गणिमं गणितम् । ऋक् , णौ पौ अर्पिमं बालवत्साया दुग्धम् । वृगट् वरिमं तुलोन्मेयम् । मह महिमं पूजनीयम् ॥ ३४९ ॥ वयिमखचिमादयः (३५०) इमान्ता निपात्यन्ते । वेंग्, वयादेशे वयिमं माल्यं कन्दुकः तन्तुवायदण्डश्च । खनूग चश्च । खचिमं मणिलोहविद्धं घृतविहीनं च दधि । आदिशब्दादन्येऽपि ॥ ३७०॥ उद्घटिकुल्यलिकुथिकुरिकुटिकुडिकुसिभ्यः कुमः (३५१) उत्पूर्वात् वटेः कुल्यादिभ्यश्च कित् ५ उमः। वट उद्बटुमः परिक्षेपः । कुल, कुलुम उत्सवः । अली अलुमः प्रसाधनं नापितः अग्निश्च । कुथ्च , कुथुमः ऋषिः । कुथुमं मृगाजिनम् । कुरत् कुरुमः कारुः भाजनं च । कुटत् कुटुमः प्रेष्यः। कुडत् कुडुमा भूमिः । 'कुसच क्लेशे' कुसुमं पुष्पं च ॥ ३५१॥ कुन्दुमलिन्दुमकुङ्कमविद्रुमपद्मादयः (३५२) एते कुमान्ता निपात्यन्ते । कुकि स्वरान्नो दश्च । कुन्दुमः निचयः गन्धद्रव्यं च । लीच् लिन्दभावश्च । लिन्दुमः गन्धद्रव्यम् । कुकेः स्वरान्नोन्तश्च । कुङ्कुमं घुसृणम् । विद्लंती १० रोन्तश्च, विद्रुमः प्रवालः । पदेष्टोन्तश्च । पट्टमं नगरम् । आदिग्रहणादन्येऽपि ॥ ३५२ ॥ कुथिगुधेरूमः (३५३) कुथच् , कोथूमः ऋषिः । 'गुधच् परिवेष्टने' गोधूमः धान्यविशेषः ॥ ३५३ ॥ विहाविशापचिभिद्यादेः केलिमः (३५४) विपूर्वाभ्यां ओहांक शोंच् इत्येताभ्यां पच्यादिभ्यश्च कित् एलिमः स्यात् । विहीयते त्यज्यतेऽशुचिशरीरमस्मिन्निति विहेलिमः स्वर्गः । विश्यति तनूभवति मासि मासि कलाभिः हीयमान इति विशेलिमः चन्द्रः स्वर्गश्च । डुपचींष् पचत्यसावन्नमिति १५ पचेलिमः अग्निः आदित्यः अश्वश्च । भिदंपी भिदेलिमः तस्करः । आदिशब्दात् दृशं दृशेलिमः । अदं प्सांक् अदेलिमम् । हनंक लिमम् । डुयाग्, याचेलिमम् । पांक्, पेलिमम् । डुकंग , क्रेलिममित्यादयः ॥ ३५४ ॥ दो डिमः (३५५) 'दां दाने' इत्यस्मात् डिमः स्यात् । दाडिमः दाडिमी वा वृक्षजातिः ॥ ३५५ ॥ डिमेः कित् (३५६) डिमेः सौत्रात् कित् डिमः स्यात् । डिण्डिमः वाद्यविशेषः ॥ ३५६॥ इति मोपान्या एकोनविंशत्या सूत्रैः। स्थाछामासासूमन्यनिक-२० निषसिपलिकलिशलिशकीयिसहिबन्धिभ्यो यः (३५७) स्थायः स्थानम् । स्थाया भूमिः । छों, छाया तमः प्रतिरूपकं कान्तिश्च । मांक माया छद्म दिव्यानुभावदर्शनं च । पोंच्, सायं दिनावसानम् । 'प्रेरणे' सव्यः वामः दक्षिणश्च । मनिंच मन्या धमनिः । अनक् , अन्यः परः । कनै कन्या कुमारी । षसक् सस्यं क्षेत्रस्थं गोधूमादि । पल, पल्यः कटकुसूलः । कलि कल्यः नीरोगः । शल, शल्यमन्तर्गतं लोहादि । शक्लंट् शक्यमसारम् । 'ईj ईष्यार्थः' ईयति ईय॑णं वा २५ ईर्ष्या मात्सर्यम् । पहि, सह्यः पश्चादर्णवपार्श्वशैलः । बन्धंश् , बन्ध्या अप्रसूतिः ॥ ३५७ ॥ नमो हलिपतेः (३५८) नपूर्वाभ्यामाभ्यां यः स्यात् । 'हल विलेखने'। अहल्या गौतमपत्नी । पत्ल, अपत्यं पुत्रसन्तानः ॥ ३५८ ॥ सञ्जधं च (३५९) अस्माद्यः धश्चान्तादेशः । सन्ध्या दिननिशान्तरम् ॥ ३५९॥ मृशीपसिवस्यनिभ्यस्तादिः (३६०) यः । मृत्, मर्त्यः मनुष्यः । शीङ्क, शेत्यः शकुनिः संवत्सरः अजगरश्च । पसिर्निवासे सौत्रो दन्त्यान्त्यः । पस्त्यं गृहम् । वसं वस्त्यः३० गुरुः । अनक् अन्त्यः निरवसितश्चण्डालादिश्च ॥ ३६० ॥ ऋशिजनिपुणिकृतिभ्यः कित् (३६१) 'ऋश् गतौ स्तुतौ वा' स्वरादिस्तालव्यान्तः । ऋश्यः मृगजातिः । जनैचि, जन्यं संग्रामः । जाया पत्नी । 'ये नवा' (४।२।६२) इत्यात्वम् । 'पुणत् शुभे' पुण्यं सत्कर्म । कृतैत् , कृन्तति कृत्या दुर्गा ॥३६१॥ कुलेड् च वा (३६२) अस्माद्यः डश्चान्तादेशो वा स्यात् । कुड्यं भित्तिः । कुल्या सारणी ॥ ३६२॥ अगपुलाभ्यां स्तम्भेर्डित् (३६३) यः । अगस्त्यः पुलस्त्यश्च ऋषिः ॥ ३६३ ॥३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org