________________
९१०
महामहोपाध्यायश्रीविनयविजयगणिविरचितेखोपज्ञहैमलघुइति भोपान्त्या एकादशभिः सूत्रैः। अर्तीरिस्तुसुहस्पृधशृक्षियक्षिभावाव्याधापायावलिपदिनीभ्यो मः (३३८) ऋक्, अर्मः अक्षिरोगः ग्रामः स्थलं च । ईरिक् , ईमैं व्रणः । टुंगक् , स्तोमः समूहः यज्ञः स्तोत्रं च । डुंगट सोमः चन्द्रः वल्ली च । हुंक् , होमः आहुतिः । सुं, सर्मः नदः कालश्च । समं स्नानं सुखं च । चूं, धर्मः ग्रीष्मः। धुंङत् स्थाने, धर्मः (उत्तम) क्षमादियायश्च । शृश् ५शर्मः सुखम् । क्षित् क्षेमं कल्याणम् । 'यक्षिण पूजायाम्' यक्ष्मः व्याधिः । भाक् भामः क्रोधः । भामा स्त्री । वांक् वामः प्रतिकूलः सव्यश्च । व्यग् व्यामः वक्षः भुजायतिः । दुधांग्क् धामं निलयः तेजश्च । पां, पामा कच्छूः । याक् यामः प्रहरः । वलि वल्मः ग्रन्थिः । पदिच् पद्मं कमलम् । णींग् नेमः अर्धः समीपश्च ॥ ३३८ ॥ ग्रसिहाग्भ्यां ग्राजिही च (३३९) आभ्यां म इमौ चानयोरादेशौ यथासङ्ख्यं स्याताम् । ग्रामः समूहादिः । जिह्मः कुटिलः ॥ ३३९॥ विलिभिलि१०सिधीन्धिधूसूश्याध्यारुसिविशुषिमुषीषिसुहियुधिदसिभ्यः कित् (३४०) मः । विलत् , विल्म प्रकाशम् । भिलिः सौत्रः भिल्म भास्वरम् । विधू सिध्मं त्वयोगः । बिइन्धैपि इध्मं इन्धनम् । धूग्श् धूमः । षूडौच , सूमः कालः श्वयथुः रविश्च । सूममन्तरिक्षम् । श्यैड् श्यामः वर्णः । श्यामं नमः । श्यामा रात्रिः ओषधिश्च । ध्य, ध्यामः अव्यक्तवर्णः । 'रुक् शब्दे', रुमा
लवणखानिः । षिवूच् स्यूमः रश्मिः दीर्घः सूत्रतन्तुश्च । स्यूमं जलम् । शुषंच , शुष्मं बलं जलं १५संयोगश्च । मुषश् मुष्मः मूषिकः । 'ईष उन्छे' ईष्मः वसन्तः बाणः वातश्च । 'पुहच् शक्तौ', सुह्या जनपदः । सुसः राजा । युधिंच युध्मः शरत्कालः शूरः शत्रुः संग्रामश्च । 'दसूच् उपक्षये' दस्मः हीनः वह्निः यज्ञश्च ॥ ३४० ॥ क्षुहिभ्यां वा (३४१) आभ्यां मः। स च किद्वा । टुक्षुक् , क्षुमा अतसी । क्षोमं वस्त्रम् । हिंट, हिमं तुषारः । हेमं सुवर्णम् ॥ ३४१॥ अवेहखश्च वा (३४२) अव, इत्यस्मात् कित् मः ऊटो ह्रखश्च वा स्यात् । उमा गौरी अतसी कीर्तिश्च । ऊमं ऊनं २० आकाशं नगरं च ॥ ३४२॥ सेरी च वा (३४३) पिंगट् अस्मात् कित् मः ईकारश्चान्तादेशः स्यात् । सीमः ग्रामगोचरभूमिः क्षेत्रमर्यादा हयश्च । सिमः स एव, सर्वार्थश्च ॥ ३४३ ॥ भियः षोऽन्तश्च (३४४) अस्मात् कित् मः षोन्तश्च वा स्यात् । भीष्मः भयानकः । भीमः स एव ॥ ३४४ ॥ तिजियुजेर्ग च (३४५) आभ्यां कित् मः गश्चान्तादेशः स्यात् । तिजि तिग्मं तीक्ष्णं दीप्तं तेजश्च । युजंपी युग्मं युगलम् ॥ ३४५ ॥ रुक्मग्रीष्मकूर्मसूर्मजाल्मगुल्मघोमपरि२५स्तोमसूक्ष्मादयः (३४६) किन्मप्रत्ययान्ता निपात्यन्ते । रोचतेः क् च । रुकमं सुवर्ण रूप्यं च । असेः ग्रीष् च ग्रीष्मः ऋतुविशेषः । कुरुतेर्दीर्घश्च कूर्मः कच्छपः । षूत् , अस्य रोन्तश्च सूर्मी लोहप्रतिमा चुलिश्च । 'जल घाये' दीर्घश्च जाल्मो निकृष्टः । गुप्चू लश्च गुल्मः व्याधिः तरुसमूहः वनस्पतिः सेनाङ्गं च । गुल्मं आयस्थानम् । जिघ्रतेरोत्वं च घोमः यज्ञाङ्गलक्षणः सोमः । परिपूर्वात् स्तोतेः षत्वाभावो गुणश्च परिस्तोमः यज्ञविशेषः । सूचण् कत्वं षोन्तश्च सूक्ष्मः निपुणः । सूक्ष्म ३० अणुः । आदिग्रहणात् मादयो भवन्ति ॥ ३४६ ॥ सूपप्रथिचरिकडिकदेरमः (३४७) सरमा देवशुनी । परमः उत्कृष्टः । प्रथमः आद्यः । चरमः पश्चिमः । कडमः शालिः । ऋफिडादित्वात् लत्वे कलमः स एव । 'कर्द कुत्सिते शब्दें' कर्दमः पङ्कः ॥ ३४७ ॥ अवेध् च वा (३४८) अस्मादमः धश्चान्तादेशो वा स्यात् । अधमः अवमश्च हीनः ॥ ३४८॥ कहिवेष्टिपूरिपिषिसिचिगण्यर्पिवृमहिभ्य इमः (३४९) कुट्टण् कुट्टिमं संस्कृतभूतलम् । वेष्टि वेष्टिमं पुष्पबन्ध३५ विशेषः भक्ष्यविशेषश्च । पूरैचि, पूरिमं मालाबन्धविशेषः भक्ष्यविशेषश्च । पिप्लंप् , पेषिमं भक्ष्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org