________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कृदन्तप्रक्रियायामुणादयः
९०९
1
माता । आम्बः अपह्नवः ॥ ३९८ ॥ शल्यलेरुच्चात: ( ३१९) शल अली आभ्यां बः अकारस्य चोकारो भवति । शुल्बं ताम्रम् । उल्वं रजतम् गर्भवेष्टनम् । शुल्वं बभ्रुस्तरक्षुश्च ॥ ३१९ ॥ तुम्बस्तम्बादयः (३२० ) बप्रत्ययान्ता निपात्यन्ते । ताम्यतेरत उत्वं च । तुम्बं अलाबु चत्रा च । स्तम्भेर्लुक् च । स्तम्बः तृणं विटपः संघातः अङ्कुरः समुदायः स्तबक: पुष्पापीडश्च । आदिशब्दात् कुशाम्बादयः ॥ ३२० ॥ कृकडिकटिवटेरम्बः (३२१) करम्बः दध्योदनः दधिसक्तवः ५ पुष्पं च । 'कडत् मदे' । कडम्बः जातिविशेषः जनपदविशेषश्च । कटे, कटम्बः पक्कान्नविशेषः वादित्रं च । कडम्बकटम्बौ वृक्षौ च । वट वटम्बः शैलः तृणपुञ्जः ॥ ३२९ ॥ कदेर्णिद्वा (३२२) अम्बः । ' कद वैकुव्ये' इति सौत्रादम्बः स च णिद्वा । कादम्बः कदम्बः वृक्षजातिः ॥ ३२२ ॥ शिलविलादेः कित् (३२३) अम्बः । 'शिलत् उच्छे' शिलम्बः ऋषिः तन्तुवायश्च । वि वरणे, विलम्बः वेषविशेष: रङ्गावसरश्च । आदिग्रहणादन्येऽपि ॥ ३२३ ॥ हिण्डिविले: किम्बो १० न लुक् च (३२४) 'हिडुङ् गतौ' 'विलत्', आभ्यां कित् इम्बोऽन्तस्य च लुक् स्यात् । हिडिम्बः विलिम्बञ्च राक्षसौ ॥ ३२४ ॥ डीनीबन्धिशुधिचलिभ्यो डिम्ब : (३२५) एभ्यो डित् इम्ब: स्यात् । डीङ्, डिम्बः राजोपद्रवः । णींग् निम्बः वृक्षः । बन्धशू बिम्बं प्रतिच्छन्दकः देहव । बिम्बी वल्लिजातिः । शृधूङ् शिम्बः मृगः । शिम्बी निष्पाववल्ली च । 'चल कम्पने', चिम्बा यवागूः ॥ ३२५ ॥ कुट्युन्दिचुरितुरिपुरिमुरिकुरिभ्यः कुम्बः (३२६) एभ्यः कित् उम्बः । कुटत् १५ कुटुम्बं दारादयः । उदैप् उदुम्बः समुद्रः । चुरण ( स्तेये), 'तुर त्वरणे' सौत्रः चुरुम्बः तुरुम्बः गहनम् । पुरत् पुरुम्ब आहार: । 'मुरत् संवेष्टने' । मुरुम्बः मृद्यमानपाषाणचूर्णम् । कुरत् कुरुम्बः । निपूर्वात् निकुरुम्बः राशिः ॥ ३२६ ॥ इति बोपान्त्या दशभिः सूत्रैः । गृदृरमिहनिजन्यर्तिदलिभ्यो भः (३२७) गृत, गर्भः जठरस्थ: प्राणी । दृश्, दर्भ: कुशः । रमिं रम्भा अप्सराः कदली च । हनंक् हम्भा गोनादः । जनैचि जम्भः दानवः दन्तश्च । जम्भा मुखविदारणम् । ऋक्, अर्भः शिशुः | २० दल्भः ऋषिः वल्कलं विदारणं च ॥ ३२७ ॥ इणः कित् (३२८) भः । इभः हस्ती || ३२८ ॥ कृगृगृशलिकलिक डिगर्दिरासिरमिवडिवल्लेरभः (३२९ ) कृत् करभ: त्रिवर्ष उ: । शशू, शरभः अष्टापदः । गृत्, गरभः जठरस्थः प्राणी । शल शलभः पतङ्गः । कलि कलभः हस्ती यौवनाभिमुखः । 'कडत् मदे' कडभः हस्तिपोतः । 'गर्द शब्दे' गर्दभः खरः । 'रासृङ् शब्दे' रासभः स एव । रमिं, रमभः प्रहर्षः । वडः सौत्रः । वडभी वेश्माप्रभूमी । ऋफिडादित्वात् लत्वे वलभी । २५ वल्लि वल्लभः स्वामी दयितश्च ॥ ३२९ ॥ सनेर्डित् (३३०) अभः । 'षण भक्तौ' । सभा पर्वत शाला च ॥ ३३० ॥ ऋषिवृषिलुसिभ्यः कित् (३३१) अभः । 'ऋषैत् गतौ' । 'वृषू (सूचने) ' ऋषभः वृषभश्च पुङ्गवः भगवांश्चादितीर्थंकरः । ऋषभः वायुः । लुसि सौत्रः । लुसभः हिंस्रः मत्तहस्ती वनं च ॥ ३३१ ॥ सिटिकिभ्यामिभः सैरदिट्टौ च (३३२) आभ्यामिभः प्रत्ययो दन्त्यादिः सैरः दिदृश्व आदेशौ यथासक्यं स्याताम् । बिंग्ट् सैरभः महिषः । टिट्टिभः पक्षी ॥ ३३२ ॥ ३० ककेरुभः (३३३) ककि, ककुभः अर्जुनः ॥ ३३३ ॥ कुकेः कोऽन्तश्च (३३४) 'कुकि आदाने' इत्यस्मादुभः कोऽन्तश्च कुक्कुभः पक्षिविशेषः ॥ ३३४ ॥ दमो दुण्ड् च (३३५) दमूच्, अस्मादुभः अस्य च दन्त्यादिष्टवर्गतृतीयान्तो दुण्ड् इत्यादेशः स्यात् । दुण्डुभः निर्विषाहि: ॥ ३३५ ॥ क्रुकलेरम्भः (३३६) करम्भः दधिसक्तवः । कलम्भः ऋषिः || ३३६ || काकुसिभ्यां कुम्भः (३३७) आभ्यां कित् उम्भः । कैं कुम्भः घटः राशिश्च । कुसच् कुसुम्भः महारजनम् ॥ ३३७ ॥ ३५
હૃદ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org