________________
९०८
महामहोपाध्यायश्री विनयविजयगणिविरचिते खोपज्ञ है मलघु
I
(२९८) कृत् कूर्पं भ्रुवोर्मध्यम् । शूशू शूर्पः धान्यादिनिष्पवनभाण्डं सङ्ख्या च । सृ सूर्पः भुजङ्गमः मत्स्यजातिश्च ॥ २९८ ॥ शदिबाधिरवनिहनेः ष च (२९९) एभ्यः पः षश्चान्तादेशः । शङ्खं शष्पं बालतृणम् । शष हिंसायामित्यस्य रूपं वा । बाधृङ् रोटने बाष्प: अश्रु धूमाभासं च मुखपानीयादौ । खनूयी खष्पः बलात्कार: दुर्मेधाः कूपश्च । खष्पं खलीनं जनपद विशेषः ५ अङ्गारश्च । हर्नक् हष्पः प्रावरणजातिः ॥ २९९ ॥ पम्पाशिल्पादयः (३००) पान्ता निपात्यन्ते । पांक्, मोऽन्तो हस्वश्च । पम्पा पुष्करिणी । शीलयतेः शलते: शेतेर्वा शिलादेशच । शिल्पं विज्ञानं, आदिशब्दादन्येऽपि ॥ ३०० ॥ क्षुचुपिपूभ्यः कित् (३०१ ) पः । टुक्षुक्, क्षुपः गुच्छः । चुप, चुप्पं मन्दगमनम् । पूगश्, पूपः पिष्टमयः ॥ ३०९ ॥ नियो वा (३०२ ) णींग्, अस्मात् पः, स च किद्वा । नीपः कदम्बवृक्षः । नेपः नयः पुरोहितः वृक्षः भृतकश्च । नेपमुदकं १० यानं च ॥ ३०२ ॥ उभ्यवेर्लुक् च (३०३) आभ्यां कित् प: लुक् चान्तस्य । 'उभत् पूरणे' । 'अव रक्षणादौ' । उप अप च अव्यये ॥ ३०३ ॥ दलिवलितलिख जिध्वजिकचिभ्योऽपः (३०४) दल दलपः प्रहरणविशेषः रणमुखं विदलं दलविशेषश्च । दलपं व्रणमुखत्राणम् । वल वलपः कर्णिका । तलण् तलपः हस्तप्रहारः । खज, खजपः मन्थः । खजपं दधि घृतं उदकं च । ध्वज ध्वजपः ध्वजः । कचि कचपः शाकपर्ण बन्धश्च ॥ ३०४ ॥ भुजिकुतिकुटिविटि१५ कुणिकुष्युषिभ्यः कित् (३०५ ) ऽपः । भुजंप्, भुजप: राजा यजमानपालनादग्निश्च । कुतिः सौत्रः, कुतपः छागलोन्नां कम्बलः आस्तरणं श्राद्धकालश्च । कुटत्, कुटपः प्रस्थचतुर्भागः नीडं च । शकुनीनाम् । विट शब्दे, विटपः शाखा । कुणत् कुणपः मृतकं कुषितं शब्दार्थसारूप्यं च । कुश् कुषपः विन्ध्यः संदंशश्च । उषू उषपः दाहः सूर्यः वह्निश्च ॥ ३०५ ॥ शसेः श इच्चातः (३०६) अस्मादपस्तालव्यशकारोऽन्तादेशो ऽकारस्य चेकारः । शिंशपा वृक्षविशेषः ॥ ३०६ ॥ विष्टपोल२० पवातपादयः (३०७ ) किदपान्ता निपात्यन्ते । विषेस्तोन्तश्च विष्टपं जगत् सुकृतिस्थानं च । वलेरुल् । उलपं पर्वततृणं पङ्कजं जलं च । उलपः ऋषिः । वातेस्तोन्तश्च । वातपः ऋषिः । आदिग्रहणात् खरपादयः ॥ ३०७ ॥ कलेरापः (३०८) कलापः काची समूहः शिखण्डश्च ॥ ३०८ ॥ विशेरिपक् (३०९) विशिषः राशिः । विशिषं तृणं वेश्म आसनं पद्मं च ॥ ३०९ ॥ दलेरीपो दिल च (३१०) दिलीपः राजा ॥ ३१० ॥ उडेरूपक (३११) 'उड संघाते' इति सौत्रः । २५ उडुपः प्लवः । जपादित्वात् वत्वे उडुवः ॥ ३९९ ॥ अश ऊपः पश्च (३१२) अशौटि, अस्मादूपः पश्चान्तादेशः । अपूपः पक्कान्नविशेषः ॥ ३९२ ॥ सतैः षपः (३१३) सर्षपः रक्षोघ्नं द्रव्यं शाकं च ॥ ३१३ ॥ इति पोपान्त्यप्रत्यया अष्टादशभिः सूत्रैः । रीशीभ्यां फः (३१४) 'रीङ् च श्रवणे' । रेफः कुत्सितः । शीङ् च शेफः मेढ़ः ॥ ३१४ ॥ कलिगलेरस्योच्च (३१५) आभ्यां फः अस्य च उकारः । कुल्फः गुल्फः जङ्घांहिसन्धिः । गुल्फः पादोपरिग्रन्थिः ॥ ३१५ ॥ शफ३० कफशिफाशोफादयः (३१६) फान्ता निपात्यन्ते । श्यतेः कायतेश्च ह्रस्वश्च । शफः खुरः प्रियंवदश्च । कफः श्लेष्मा । श्यतेरित्वमोत्त्वं च । शिफा वृक्षजटा । शोफः श्वयथुः खुरश्च । आदिशब्दात् रायते उपादेयतया रिफा औषधिविशेषः । नह्यते रोगार्तैः नफा । सुनद्यते तिथिविशेषेण सुनफा इत्यादयः ॥ ३१६ ॥ इति फोपान्त्यास्त्रिभिः सूत्रैः । वलिनितनिभ्यां बः (३१७) वल्बः वृक्षः । निपूर्वः तनूयी नितम्बः श्रोणिः पर्वतैकदेशः नटश्च ॥ ३१७ ॥ शम्यमेर्णिद्वा (३१८) ३५ब: । शम्बः वज्रः कर्षणविशेषः वेणुदण्डः तोत्रं अरित्रम् । शम्बशाम्बौ जाम्बवतेयौ । अम, अम्बा
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org