________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः
९०७ दृढः मयूरः यजमानः क्षमावांश्च । अर्ह अहसानः चन्द्रः तुरङ्गश्च ॥ २७९॥ रुहियजेः कित् (२८०) असानः । रुहसानः विटपः । इजसानः धर्मः॥२८०॥ वृधेवा (२८१) असानः । किद्वा । वृधसानः गर्भः । वर्धसानः गिरिः गर्भः मृत्युः पुरुषश्च ॥२८१॥ श्याकठिखलिनल्यविकुण्डिभ्य इनः (२८२) श्यैङ्, श्येनः पक्षी अभिचारयज्ञश्च । 'कठ कृच्छ्रजीवने' कठिनं अमृदु । खल खलिनं अश्वमुखसंयमनम् । 'णल गन्धे' नलिनं पद्मम् । अव अविनं जलं मृगः नाशः अग्निः राजा अध्वर्युः ५ विधानं गुप्तिश्च । कुडुङ् कुण्डिनः ऋषिः, कुण्डिनं नगरम् ॥ २८२ ॥ वृजितुहिपुलिपुटिभ्यः कित् (२८३) इनः । वृजैकि वृजिनं कुटिलं पापं च । 'तुइ अर्दने' तुहिनं हिममन्धकारश्च । पुल, पुटत् , पुलिनं पुटिनं च नदीतीरवालुकासंघातः॥२८३॥ विपिनाजिनादयः (२८४) किदिनान्ता निपात्यन्ते । टुवपी टुवेपृङ् वा । इच्चोपान्त्यस्य । विपिनं वनं अब्जं जलदुर्ग च । अज अस्य वीभावाभावश्च अजिनं चर्म । आदिग्रहणादन्येऽपि ॥ २८४ ॥ महेर्णिद्वा (२८५) माहिनं राज्यं बलं च ।१० महिनं राज्यं शयनं च । महिनः माहात्म्यवान् ॥ २८५ ॥ खलिहिंसिभ्यामीनः (२८६) खलीनं कवियम् । हिंसीनः श्वापदः ॥२८६॥ पठेर्णित् (२८७) ईनः । पाठीनः मत्स्यः ॥२८७॥ यम्यजिशक्यर्जिशीयजितृभ्य उनः (२८८) यम यमुना नदी । अज विभावे वयुनं विज्ञानं अङ्गं च । वियुनः विद्वान् चन्द्रः यज्ञश्च । शक्लंद शकुनः पक्षी । अर्ज अर्जुनः ककुभः वृक्षः पार्थः श्वेताश्वः श्वेतवर्णः कार्तवीर्यश्च । अर्जुनी गौः । अर्जुनं तृणं श्वेतसुवर्ण च । शीर्द, शयुनः१५ अजगरः । यजी यजुना क्रतुद्रव्यम् । तृ तरणं समर्थः युवा वायुश्च । ऋफिडादित्वाल्लत्वे तलुनः ॥ २८८ ॥ लषेः शच (२८९) लषी, अस्मादुनः । तालव्यशकारश्चान्तादेशः स्यात् । लशुनं कन्दजातिः ॥ २८९ ॥ पिशिमिथिक्षुधिभ्यः कित् (२९०) उनः । पिशत् , पिशुनः खलः । पिशुनं मैत्रीभेदकरं वचः । मिथूग मिथुनं स्त्रीपुंसद्वन्द्वं राशिश्च । क्षुधंच , क्षुधनः कीटकः॥२९॥ फले!न्तश्च (२९१) फल्गुनः अर्जुनः । फल्गुनी नक्षत्रम् ॥ २९१ ॥ वीपतिपदिभ्यस्तन:२० (२९२) वीक वेतनं भृतिः । 'पत्ल गतौ' 'पट गतौ' पत्तनं पट्टनं नगरविशेषः । 'पट्टनं शकटैर्गम्यं घोटकैनॊभिरेव च । नौभिरेव तु यद्गम्यं पत्तनं तत्प्रचक्षते ॥ २९२॥ पृपूभ्यां कित् (२९३) तनः । पृङ्क पृतना सेना । पूरश् पूतना राक्षसी ॥ २९३ ॥ कृत्यशोभ्यां लक् (२९४) कृतैत् कृत्स्नं सर्वम् । अशौटि अक्ष्णं नेत्रं व्याधिः रज्जुः तेजनं अखण्डं च ॥२९४ ॥ अतः शसानः (२९५) तालव्यादिः । अर्शसानः पन्थाः इषुः अग्निश्च ॥ २९५ ॥ इति नोपान्त्यप्रत्यया अष्टत्रिंशद्भिः२५ सूत्रैः। भापाचणिचमिविषिमपृतृशीतल्यलिशमिरमिवपिभ्यः पः (२९६) भांक् , भापः आदित्यः ज्येष्ठश्च भ्राता। पांक्, पापं कल्मषम् । पापो घोरः । 'चण हिंसादानयोः' । चण्पा नगरी । चण्पः वृक्षः । चमू चम्पा नगरी । विष्लंकी, वेष्पः परमात्मा स्वर्गः आकाशश्च । निपूर्वः, निवेष्पः अपां गर्भः कूपः वृक्षजातिः अन्तरिक्षं च । मुं सर्पः अहिः । पृश , पर्पः प्लवः शङ्खः समुद्रः शस्त्रं च । त, तर्पः उडुपः नौश्च । शीद शेपः पुच्छम् । तलण् तल्पं शयनं अङ्गं दारा ३० युद्धं च । अली अल्पं स्तोकम् । शमूच् शम्पा विद्युत् काश्ची च । विपूर्वाद् विशम्पः दानवः । रमि, रम्पा चर्मकारोपकरणम् । दुवपी वप्पः पिता ॥२९६॥ युसुकुरुतुच्युस्त्वादेरूच्च (२९७) युक् यूपः यज्ञपशुबन्धनकाष्ठम् । घुग्द, सूपः मुद्गादिभिन्नकृतः । कुक् कूपः प्रहिः । रुक् रूपं श्वेतादि लावण्यं खभावश्च । तुंक् तूपः आयतनविशेषः । च्युङ च्यूपः आदित्यः वायुः संग्रामश्च । टुंग्क् , स्तूपः बोधिसत्त्वभवनं उपायतनं च । आदिशब्दादन्येऽपि ॥ २९७ ॥ कृतृमृभ्य ऊर् चान्तस्य ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org