________________
९०६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुमाता च । धेनः समुद्रः । ईत्वं चेत्येके धीना । स्त्यायतेः स्तेः च । स्तेनः चौरः । च्यवतेवृद्धिः कोऽन्तश्च । च्यौकमक्षस्थानमनुजः क्षीणपुण्यश्च । च्यौकी कांस्यादिपात्री । आदिशब्दादन्येऽपि ॥ २६८॥ स्वसिरसिरुचिजिमस्जिदेविस्यन्दिचन्दिमन्दिमण्डिमदिदहिवह्यादेरनः (२६९) युक्, यवना जनपदः । यवनं मिश्रणम् । असूच , असनः बीजकः । रसण् , रसना जिह्वा । ५रुचि, रोचना गोपित्तम् । रोचनः चन्द्रः । विपूर्वात् विरोचनः अग्निः सूर्यः इन्दुः दानवश्च । जिं, जयनं ऊर्णापटः । मस्जोत्, मज्जनं स्नानं तोयं च । देव देवनः अक्षः कितवश्च । स्यन्दौङ् स्यन्दनः रथः । चदु, चन्दनं गन्धद्रव्यम् । मदुङ् । मन्दनं स्तोत्रम् । मडु, मण्डनं अलङ्कारः । मदैच , मदनः वृक्षः कामः मधूच्छिष्टं च । दहं, दहनः अग्निः । वहीं, वहनं नौः । आदिग्रहणात् पचेः पचनः अग्निः । पुनातेः पवनः । बिभर्तेः, भरणं साधनम् । नयतेः, नयनं नेत्रम् । श्रुतेः, १० द्योतनः । रचेः रचना वैचित्र्यम् । गृजेगुञ्जनं अभक्ष्यद्रव्यविशेषः । प्रस्कन्दनः प्रपतन इत्यादयो भवन्ति ॥ २६९॥ अशो रश्चादी (२७०) रशना मेखला । रशिमेके प्रकृतिमुपदिशन्ति सा च राशि रशना रश्मि इत्यत्र प्रयुज्यत इत्याहुः ॥ २७० ॥ उन्देनलुक् च (२७१) ओदनः ॥ २७१ ॥ हनेर्घतजघौ च (२७२) घतनः रङ्गोपजीवी पापकर्मा निर्लजश्च । जघनं श्रोणिः
॥ २७२॥ तुदादिवृजिरञ्जिनिधाभ्यः कित् (२७३) अनः । तुदीत् तुदनः । क्षिपीत् १५ क्षिपणः । सुरत् सुरणः । बुधिंच बुधनः । षिवूच सिवनः । एषां यथासम्भवं कारकमुच्यते ।
लबुङ लम्बनः शकुनिः । वृजैकि वृजनः अन्तरिक्षं निवारणं मण्डनं च । रञ्जी रंजनं हरिद्रा । महारजनं कुसुम्भम् । रंजनः रङ्गविशेषः । डुधांग्क् निपूर्वः निधनमवसानम् ॥ २७३ ॥ सूधूभूभ्रस्जिभ्यो वा (२७४) एभ्यो नः, स च किद्वा । षूत् सुवनः अङ्कुरः आदित्यः प्रादुर्भावश्च । सुवनं चन्द्रप्रभा । सवनं यज्ञः, पूर्वाह्नापराहमध्याह्नकालश्च । त्रिषवणम् । धूत् धुवनः धूमः वायुः २० अग्निश्च । धुवनः मेघः । धवनम् । भू भवनं जगत् । अवनं गृहम् । भ्रस्जीत् भृजनं अन्तरिक्षं
अम्बरीषः पाकश्च । भ्रजनः पावकः ।। २७४ ॥ विदनगगनगहनादयः (२७५) एते किदनप्रत्ययान्ता निपात्यन्ते । विदु विदनः । गोत्रकृत् । गमेर्ग च । गगनं नमः । गाहौङ् , ह्रस्वश्च । गहनं दुर्गमं । आदिशब्दात् काञ्चनकाननादयः ॥ २७५ ॥ संस्तुस्पृशिमन्थेरानः (२७६) सम्पूर्वात् स्तोः स्पृशेश्च, सम्पूर्वाभ्यां स्तुस्पृशिभ्यां वा, मन्थेश्चानः स्यात् । संस्तवानः सोमः होता महर्षिः २५ वाग्मी च । स्पर्शानः मनः । संस्पर्शानः मनः अग्निः । मन्थश् मन्थानः खजकः ॥ २७६ ॥
युयुजियुधिबुधिमृशिशीशिभ्यः कित् (२७७) आनः । युक् , युवानः तरुणः । युजंपी, युजानः सारथिः । युधानः रिपुः । बुधानः आचार्यः पण्डितो वा । मृशंत् मृशानः । दृशं दृशानः लोकपालः । युजादिप्रसिद्धकर्था एते । (ईशिक्) ईशान ईश्वरः ॥२७७॥ मुमुचानयुयुधानशिश्विदानजुहुराणजिहियाणाः (२७८) एते आनप्रत्ययान्ता निपात्यन्ते । मुचेर्द्वित्वं च मुमुचानः ३० मेघः । 'युधिंच् सम्प्रहारे' युयुधानः साहसिकः राजा च कश्चित् । श्विताङ् अस्य दश्च शिश्विदानः
दुराचारो द्विजः । हुर्छा अस्यान्तलुक् जुहुराणः कुटिलहृदयः कुटिलः अग्निः अध्वर्युः अनड्वांश्च । ह्रींक् जितियाणः नीतिमान् । सर्वे एवैते मुच्यादिप्रसिद्धक्रियाकर्तृवचना इत्येके । अन्ये तु मुमुक्षादि सन्नन्तप्रकृतीनामेतन्निपातनं तेन सन्नन्तक्रियाकर्तृवचना इत्याहुः ॥ २७८ ॥ ऋचिरञ्जिमन्दिसह्यार्टिभ्योऽसान: (२७९) 'ऋजुङ् भर्त्सने' । ऋञ्जसानो महेन्द्रः मेघः श्मशानं च । रञ्जी, ३५रञ्जसानः धर्मः मेघश्च । मदुङ् हंसः मन्दसानः चन्द्रः सूर्यः जीवः स्वप्नः अग्निश्च । पहि, सहसानः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org