________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कृदन्तप्रक्रियायामुणादयः
९०५
॥
लहरणोपकरणं तेजनोपकरणं च । कुणत् कुणिन्दः म्लेच्छजातिः शब्द उपकरणं च । 'मण शब्दे' मणिन्दः अश्वबल्लवः ॥ २४६ ॥ कुपेर्व च वा (२४७) कुपच् । अस्मादिन्द वचान्तादेशो वा स्यात् । कुपिन्दः कुविन्दः तन्तुवायः ॥ २४७ ॥ पलिभ्यां णित् (२४८) इन्दक् । पूश पारिन्दः पालिन्दः द्वावपि वृक्षगाथको । पारिन्दः मुख्यः पूज्यश्च । पालिन्दः नृपतिः । रक्षकश्चेत्येके ॥ २४८ ॥ यमेरुन्दः (२४९) यमुन्दः क्षत्रियविशेषः ॥ २४९ ॥ मुकुन्दकुकुन्दौ ५ (२५०) अस्मात् डित् उकुन्दः कित् उकुन्दश्च प्रत्ययौ स्याताम् । मुकुन्दः विष्णुः । मुचुकुन्दः राजा वृक्षविशेषश्च ॥ २५० ॥ इति दोपान्त्यप्रत्ययाश्चतुर्भिः सूत्रैः । स्कन्द्यमिभ्यां धः (२५१ ) स्कन्धः बाहुमूर्धा ककुदं विभागश्च । बाहुलकाद्दस्य लुक् । अन्धः चक्षुर्विकलः ॥ २५९ नेः स्यतेरधक (२५२) निपूर्वात् षच् अस्मादधक् स्यात् । निषधः पर्वतः । निषधा जनपदः ॥ २५२ ॥ मङ्गेन - लुक् च (२५३) अस्मादधक् नकारस्य च लुग्भवति । मगधा जनपदः ॥ २५३ ॥ आरगेर्वधः १० (२५४) आङ्पूर्वात् 'रगे शङ्कायाम्' अस्माद्वधः स्यात् । आरग्वधः वृक्षजातिः ॥ २५४ ॥ पराच्छ्रो डित् (२५५) परपूर्वात् शुश् अस्माद्विधः स्यात् । परश्वधः परशुः ॥ २५५ ॥ इषेरुधक (२५६) इषत्, इषुधः याच्ञा ॥ २५६ ॥ कोरन्धः (२५७) कुङ्, अस्मादन्धः । कबन्धः छिन्नमूर्द्धा देहः ॥ २५७ ॥ इति धोपान्त्यप्रत्ययाः सप्तभिः सूत्रैः ॥ प्याधापन्यनिखदिखपिवस्यज्यतिसिविभ्यो नः (२५८) प्यैङ्, प्यानः समुद्रः चन्द्रश्च । डुधांग्क्, धाना भृष्टो यवः अङ्कुरश्च । १५ पनि, पन्नं नीचैःकरणं सन्नं जिह्वा च । अनकू, अन्नं भक्ष्यमाचारश्च । ध्वदि, स्वन्नं रुचितम् । ञिष्वपंक स्वप्नः मनोविकारः निद्रा च । वसं, वस्त्रं वासः मूल्यं मेढ़: आगमश्च । अज, वेनः प्रजापतिः ध्यानी राजा वायु यज्ञः प्राज्ञः मूर्खश्च । अत्, अन्न आत्मा वायुर्मेघः प्रजापतिश्च । षिवूच्, स्योनं सुखं तन्तुवायसूत्रं सन्तानः समुद्रः सूर्यः रश्मिः आस्तरणं च ॥ २५८ ॥ पसेर्णित् (२५९) षसक्, साना गोगलकम्बलः निद्रा च ॥ २५९ ॥ रसेर्वा (२६०) अस्मान्नः, स च णित् २० वा । रस शब्दे । रास्ना धेनुः ओषधिजातिश्च । रस्नं द्रव्यजातिः । रस्ना जिह्वा । रस्स्रः तुरङ्गः दण्डश्च ॥ २६० ॥ जीणशीदीबुध्यविमीभ्यः कित् (२६१) नः । जिं जिनः अर्हन् बुद्धश्च । इण्कू, इनः स्वामी सन्निपातः ईश्वरः राजा सूर्यश्व । शीङ्क, शीनः पीलुः । दीच्, दीनः कृपणः खिन्नश्च । बुधिंच्, बुध्नः मूलं पृष्ठान्तः रुद्रश्च । अव, ऊनमपरिपूर्णम् । 'मव्यविश्रिविज्वरित्वरिरुपान्त्येन' (४।१।१०९) इत्युपान्त्येन सह ऊटि कित्त्वाद्गुणाभावे च सिद्धिः । मीच । मीन: मत्स्यः राशिच २५ ॥२६१॥ सेर्वा (२६२) किन्नः । षिगूट्, सिनः कालः वस्त्रं बन्धञ्च । सेना चमू ॥ २६२॥ सोरू च (२६३) बुंग्ट्, अस्मान्नः ऊकारश्चान्तादेशः स्यात् । सूना घातस्थानं दुहिता पुत्रः प्रकृति स्थानं च ॥ २६३ ॥ रमेस्त च (२६४) अस्मान्नस्तश्चान्तादेशः स्यात् । रत्नं वज्रादिः ॥ क्रुशेर्वृद्धिश्च (२६५) क्रुशं अस्मान्नः अस्य च वृद्धिः स्यात् । क्रौनः श्वापदः || २६५ || निभ्यो माङो डित् (२६६) एतत्पूर्वात् माह् अस्मात् डित् नः स्यात् । द्युम्नं द्रव्यम् । सुनं ३० सुखम् । निम्नं नतम् ॥ २६६ ॥ शीङः सन्वत् (२६७) अस्माडिन्नः स च सन्वद्भवति । शिश्नं शेपः ॥ २६७ ॥ दिननग्न फेनचिह्नवध्नधेन स्तेनच्योक्रादयः (२६८ ) एते नप्रत्ययान्ता निपात्यन्ते । दीव्यतेः कित् लुकू च । दिनं अहः । नञ्पूर्वाद्वसेर्गोन्तो धातोर्लुक् च । न बस्ते नग्नः अवस्त्रः । फणेः फलेः स्फायेर्वा फे भावश्च । फेनः बुद्बुदसंघातः । चहेरिचोपान्त्यस्य । चिह्नं अभिज्ञानम् । बन्धेर्ब्रघ् च । ब्रघ्नः रविः प्रजापतिः स्वर्गः ब्रह्मा पृष्ठान्तश्च । धयतेरेत्वं च घेना सरस्वती ३५
सु
है० प्रका० उत्त० ११४
Jain Education International
For Personal & Private Use Only
आघाट -
२६४ ॥
www.jainelibrary.org