________________
९०४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहेमलघुथः। निशीथः अर्द्धरात्रः रात्रिः प्रदोषश्च । उच्छीथः स्वप्नः टिट्टिभश्च ॥ २२८ ॥ अवभृनिसमिणभ्यः (२२९) अवपूर्वाद्विभर्त्तर्निपूर्वादर्तेः सम्पूर्वादेतेश्च कित्थः स्यात् । अवभृथः यज्ञावसानं तत्स्नानं च । निर्ऋथः निकायः । निर्ऋथं स्थानम् । समिथः सङ्गमः गोधूमपिष्टं च । समिथं समूहः॥२२९॥ सर्तेर्णित् (२३०) सार्थः समूहः ॥२३०॥ पथयूथगूथकुथतिथनिथसू५रथादयः (२३१) एते थान्ता निपात्यन्ते । पलतेो लुक् च । पथः पन्थाः । यौतेर्गुवतेश्च दीर्घश्च यूथं तिर्यक्समूहः । गूथममेध्यं विष्ठा च । किरतेः करोतेर्वा कुश्च । कुथः कुथा वा आस्तरणम् । तनोस्तिष्ठतेर्वा तिश्च । तिथः कालः । तिम्यतेस्तिथः प्रावृट्कालः । नयतेह्रस्वश्च निथः पूर्वक्षत्रियः कालश्च । सुपूर्वाद्रमेः सोर्दीर्घश्च किच्च सूरथः दान्तः । आदिग्रहणान्निपूर्वाद्रौतेः दीर्घत्वं च । निरूथः दिक् । निरूथं पुण्यक्रमनियतम् । एवं संगीथप्रगाथादयोऽपि ॥ २३१॥ भृशीशपिशमिगमि१० रमिवन्दिवञ्चिजीविप्राणिभ्योऽथ: (२३२) भरथः कैकेयीसुतः अग्निः लोकपालश्च । शयथः
अजगरः प्रदोषः मत्स्यः वराहश्च । शपी शपथः प्रत्ययकरणमाक्रोशश्च । शमूच शमथः समाधिः आश्रमपदं च । गम्लं गमथः पन्थाः पथिकश्च । रमिं रमथः प्रहर्षः । वदुङ् वदथः स्तोता स्तुत्यश्च । वञ्चू वञ्चथः अध्वा कोकिलः काकदम्भश्च । जीव जीवथोऽअर्थवान् जलं अन्नं वायुः मयूरः कूर्मः धार्मिकश्च । प्राणथः बलवान् ईश्वरः प्रजापतिश्च ॥ २३२ ॥ उपसर्गाद्वसः (२३३) १५अथः । आवसथः गृहम् । उपवसथं उपवासः । संवसथः संवासः । सुवसथः सुवासः । निवसथः निवासः ॥ २३३ ॥ विदिभिदिरुदिदुहिभ्यः कित् (२३४) अथः । विदथः ज्ञानी अध्वर्युः संग्रामश्च । भिदथः । शरः । रुदथः बालः असत्त्वः श्वा च । द्रुह्यति दानवेभ्यः द्रुहथः शत्रुः ॥२३४॥ रोर्वा (२३५) अस्मादथः किद्वा । रुवथः शकुनिः शिशुश्च । रवथः आक्रन्दः शब्दकारश्च
॥ २३५॥ जवृभ्यामूथः (२३६) जरूथः शरीरं अग्रमांसं अग्निः संवत्सरः मार्गः कल्मषं च । २० वगश् वरूथः वर्म सेनाङ्गं बलसंघातश्च ॥२३६॥ इति थोपान्त्यप्रत्यया द्वादशभिः सूत्रैः । शाशपिमनि
कनिभ्यो दः (२३७) शोंच् शादः कर्दमः तरुणतृणं मृदुर्बन्धः सुवर्ण च । शपी शब्दः श्रोत्रग्राह्योऽर्थः । मनिंच् मन्दः अलसः बुद्धिहीनश्च । कनै कन्दः मूलम् ॥२३७॥ आपोऽप् च (२३८) आप्लंट् अस्मादः अस्य च अप् इत्यादेशः स्यात् । अब्दं वर्षम् ॥ २३८ ॥ गोः कित् (२३९) गुंत् अस्मात् किदः स्यात् । गुदम् ॥ २३९ ॥ वृतुकुसुभ्यो नोऽन्तश्च (२४०) एभ्यः किदः २५ स्यात् । नकारश्चान्तो भवति । वृग्ट् वृन्दं समूहः । तुंक् तुन्दं जठरम् । कुङ् कुन्दः पुष्पजातिः ।
धुंग्ट् सुन्दः दानवः ॥ २४०॥ कुसेरिदेदो (२४१) 'कुस्च् श्लेषे' । अस्मात् इद ईद इत्येतो कितौ स्याताम् । कुसिदं ऋणम् । कुसीदं वृद्धिजीविका ॥२४१ ॥ इङ्ग्यर्बिभ्यामुदः (२४२) इगु गतौ इमुदः वृक्षजातिः । अर्ब गतौ अर्बुदः पर्वतः अक्षिव्याधिः सङ्ख्याविशेषश्च । निपूर्वात् न्यर्बुदं सङ्ख्याविशेषः ॥ २४२॥ कर्णिद्वा (२४३) उदः । 'ककि लौल्ये' । काकुदं तालु । ककुदं ३० स्कन्धः ॥ २४३॥ कुमुदबुद्धदादयः (२४४) एते उदन्ता निपात्यन्ते । कमेः कुम् च । कुमुदं
कैरवम् । बुन्देः किद्वोऽन्तश्च । बुद्बुदो जलस्फोटः । बुद्बुदं नेत्रजो व्याधिः । आदिग्रहणात् दुहीक् प्रत्ययादेरत्वे । दोहदः अभिलाषविशेषः । एवमन्येऽपि ॥ २४४ ॥ ककिमकिभ्यामन्दः (२४५) 'ककि लौल्ये' मकि सौत्रः । ककन्दः मकन्दश्च राजानौ । यकाभ्यां निर्वृत्ता काकन्दी माकन्दी च पुरी
॥ २४५॥ कल्यलिपुलिकुरिकुणिमणिभ्य इन्दक (२४६) कलिन्दः पर्वतः यतो यमुना ३५प्रभवति । अली अलिन्दः प्रघाणः भाजनस्थानं च । पुल पुलिन्दः शबरः । कुरत् कुरिन्दः सस्यम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org