________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायामुणादयः
९०३ हृग ईतण् (२१३) हारीतः पक्षी ऋषिश्च ॥ २१३ ॥ अदो भुवो डुतः (२१४) अद् विस्मितं भवति तेन तस्मिन् वा मनः अद्भुतं आश्चर्यम् ॥ २१४ ॥ कुलिमयिभ्यामूतक् (२१५) कुल कुलूता जनपदः । मयि मयूता वसतिः ॥ २१५ ॥ जीवे च (२१६) जीवन्ति प्राणिनोऽस्मिन् जीमूतः मेघः गिरिश्च ॥ २१६ ॥ कबेरोतः प् च (२१७) कबृङ् अस्मादोतः पश्चान्तादेशः स्यात् कपोतः पक्षी वर्णश्च ॥ २१७॥ आस्फायर्डित् (२१८) आङः पूर्वादस्मात् डिदोतः स्यात् ।५ आस्फोता नाम ओषधिः ॥ २१८ ॥ जृविशिभ्यामन्तः (२१९) जरन्तः भूतग्रामः वृद्धः महिषश्च । वेशन्तः पल्वलं वल्लभः अप्राप्तापवर्गः आकाशं च ॥ २१९ ॥ रुहिनन्दिजीविप्राणिभ्यष्टिदाशिषि (२२०) एभ्य आशिषि टिदन्तः स्यात् । रोहतात् रोहन्तः वृक्षः । रोहन्त्योषधिः । नन्दतात् नन्दन्तः सखा । नन्दन्ती सखी । जीवतात् जीवन्तः आयुष्मान् । जीवन्ती शाकः । प्राण्यात् प्राणन्तः वायुः रसायनं च । प्राणन्ती स्त्री ॥ २२० ॥ तृजिभूवदिवहिवसिभास्य-१० दिसाधिमदिगडिगण्डिमण्डिनन्दिरेविभ्यः (२२१) टिदन्तः । आशिषीत्येके । तरन्तः आदित्यः भेकश्च । तरन्ती स्त्री । जयन्तः रथरेणुः ध्वजः इन्द्रपुत्रः जम्बूद्वीपपश्चिमद्वारं पश्चिमानुत्तरविमानं च । जयन्ती उदयनपितृष्वसा । भवन्तः कालः । भवन्ती । वदन्तः । वदन्ती । वहन्तः रथः अनड्वान् रथरेणुः वायुः । वहन्ती वसन्त ऋतुः । भासन्तः सूर्यः । भासन्ती । ण्यन्तोपि । भासयन्तः सूर्यः । अदन्तः । अदन्ती । साधन्तः भिक्षुः । ण्यन्तोऽपि साधयन्तः भिक्षुः । साध-१५ यन्ती । मदैच । णौ । मदयन्तः । मदयन्ती पुष्पगुल्मजातिः । 'गड सेचने' । गडन्तः जलदः । ण्यन्तोऽपि गडयन्तः । गडयन्ती । गडु ण्यन्तः गण्डयन्तः मेषः । मडु ण्यन्तः मण्डयन्तः प्रसाधकः अलङ्कारः आदर्शश्च । टुनदु नन्दयन्तः सुखकृत् राजा हिरण्यं सुखं च । नन्दयन्ती । रेवृङ् पवि गतौ' रेवन्तः । अनुक्तार्था धात्वर्थकाः ॥ २२१॥ सीमन्तहेमन्तभदन्तदुष्व. न्तादयः (२२२) एतेऽन्तान्ता निपात्यन्ते । सिनोते: सीम च । सीमन्तः केशमार्गः ग्रामक्षेत्रान्तश्च । २० दन्तेहिनोतेर्वा हेम च । हेमन्तः ऋतुः । भन्दतेन लुक् च । भदन्तः निर्ग्रन्थेषु शाक्येषु च पूज्यः । दुषेर्वोन्तश्च । दुष्वन्तः राजा । आदिग्रहणादन्येऽपि ॥ २२२ ॥ शकेरुन्तः (२२३) शकुन्तः ॥ २२३ ॥ कषेर्डित् (२२४) कष हिंसायाम् । अस्मात् डित् उन्तः । कुन्तः आयुधम् ॥ २२४ ॥ इति तोपान्त्यप्रत्ययाः पञ्चविंशत्या सूत्रैः। कमिप्रगार्तिभ्यस्थः (२२५) कन्था प्रावरणं नगरं च । प्रोथः प्रियो युवा सूकरमुखो घोणा च । प्रोथमस्य नासिका । - गाथा श्लोक आर्या २५ वा । ऋक् अर्थः जीवाजीवादिपदार्थः प्रयोजनं अभिधेयं धनं याच्यानिवृत्तिश्च ॥ २२५ ॥ अवाद्गोच वा (२२६) अवपूर्वागायतेस्थः प्रत्ययोऽच्चान्तादेशो वा स्यात् । अवगथः अवगाथोऽक्षसंघातः प्रातःसवनं रथयानं साम पन्थाश्च ॥ २२६ ॥ नीनूरमितृतुदिवचिरिचिसिचिश्विहनिपागोपावोगाभ्यः कित् (२२७) थः। णींग नीथं जलम् । सुनीथो नाम राजा नीतिमान् धर्मशीलः ब्राह्मणश्च । णूत् नूथं तीर्थम् । रमि रथः स्यन्दनः । तृ तीर्थ जलाशयावगाहनमार्गः३० पुण्यक्षेत्रमाचार्यश्च । तुदीत् तुत्थं चक्षुष्यो धातुविशेषः । वचंक् उक्थं शास्त्रं सामवेदश्च । उक्थानि सामानि । रिम्पी रिक्थं धनम् । षिचीत् सिक्थं मदन पुलाकश्च । ट्वोश्वि शूथः यज्ञप्रदेशः । हनंक हथः पन्थाः कालश्च । पां पीथं बालघृतपानं अम्भः नवनीतं च । पीथः मकरः रविश्व । गोपूर्वात गोपीथः तीर्थविशेषः । गोनिपातं जलद्रोणी कालविशेषश्च । - अवगीथं यज्ञकर्मणि प्रातःशंसनम् । उद्गीथः शुनामूर्ध्वमुखानां विरावः सामगानं प्रथमोचारणं च ॥२२७ ॥ न्युयां शीङः (२२८) ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org