________________
९०२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुअऔप अक्तः प्रक्षितो व्यक्तीकृतः परिमितः प्रेतश्च । 'पुसच विभागे' पुस्तः लेख्यपत्रसंघातः लेप्यादिकर्म च । मुस्च् मुस्ता गन्धद्रव्यं । वुस्च् वुस्तः प्रहसनम् । विसच् विस्तं सुवर्णमानम् । रमिं सुरतं मैथुनम् । धुवै धूर्तः शठः । पूर्व पूरणे पूर्तः पुण्यम् ॥ २०१॥ लूम्रो वा (२०२) आभ्यां तः। स च किद्वा । लूगश लूता क्षुद्रजन्तुः । लोतः बाष्पं लवनं वस्तः कीटजातिश्च । मृत् मृतः ५गतप्राणः । मतः ऋषिः प्राणी पुरुषश्च ॥ २०२॥ मुसितनितुसेर्दीर्घश्च वा (२०३) एभ्यः कित्तः दीर्घश्चैषां वा स्यात् । षूग्ट् सूतः सारथिः । सुतः पुत्रः । पिंग्ट् सीता जनकात्मजा । सस्यं हलमार्गश्च । सितः वर्णः । तनूयी तातः पिता पुत्रेष्टनाम च । ततं विस्तीर्णं वाद्यविशेषश्च । 'तुस शब्दे' तूस्तानि वस्त्रदशाः । तुस्ता जटा प्रदीपनं च ॥ २०३ ॥ पुतपित्तनिमित्तोतशुक्ततिक्तलिप्तसूरतमुहूर्तादयः (२०४) एते कित्तप्रत्ययान्ता निपात्यन्ते । पूडो ह्रस्वश्च । पुतः स्फिक् । १०पीङस्तोन्तश्च पित्तं मायुः । निपूर्वात् मिनोतेर्मित् च निमित्तं हेतुः दिव्यज्ञानं च । उभेलृक् च उत आशङ्काद्यर्थमव्ययम् । शकेः शुचेर्वा शुक्भावश्च शुक्तं कल्कजातिः । ताडयतेस्तकतेस्तिजेर्वा तिक् च । तिक्तो रसविशेषः । लीयतेः पोन्तः हस्खश्च लिप्तं विश्लेषः अंशदेशश्च । सुपूर्वाद्रमः सोर्दीर्घश्च सूरतः दमितो हस्ती अन्यो वा दान्तः । हुर्छर्मुश्च धात्वादिः । 'राल्लुक्' (४।१।११०)
इति छलुक् 'भ्वादेः०' (२।१।६३) इति दीर्घश्च । मुहूर्तः कालविशेषः । आदिग्रहणात् अयुत१५ नियुतादयः ॥ २०४॥ कृगो यङः (२०५) यङन्तात्कृगः कित्तः स्यात् । चेक्रीयितः, पूर्वेषां यङ्प्रत्ययसंज्ञा ॥ २०५ ॥ इवर्णादिलपि (२०६) करोतेर्यङ्लुपि इवर्णादिस्तः स्यात् चर्करितं चर्करीतं यङ्लुबन्तस्याख्ये ॥ २०६ ॥ हपृभूमशीयजिखलिवलिपर्विपच्यमिनमितमिदृशिहर्यिकत्रिभ्योऽतः (२०७) दृङ्त् दरतः आदरः । पृक् परतः कालः । श्रृंग भंग भरतः
आदिचक्री हिमवत्समुद्रमध्ये क्षेत्रं च । मृत् मरतः मृत्युः अग्निः प्राणी च । शीव, शयतः निद्रालुः २० चन्द्रः स्वप्नः अजगरश्च । यजी यजतः यज्वा अग्निश्च । खल खलतः शीर्णकेशशिराः । वलि, वलतः
कुसूलः । 'पर्व पूरणे' पर्वतः गिरिः । डुपचीं पचतः अग्निः आदित्यः पाल इन्द्रश्च । अम अमतः मृत्युः जीव आतङ्कश्च । णमं नमतः नटः देवः अर्णास्तरणं ह्रस्वश्च । तमूच तमतः निर्वेदी आकाङ्क्षी धूमश्च । दृशं दर्शतः द्रष्टाग्निश्च । हर्य हर्यतः वायुः अश्वः कान्तः रश्मिः यज्ञश्च । ककुङ् कङ्कतः केशमार्जनम् ॥ २०७॥ पृषिरञ्जिसिकिकालावृभ्यः कित् (२०८) अतः । पृषू पृषतः २५मृगः । रञ्जी रजतं रूप्यम् । सिकिः सौत्रः सिकता वालुका । के कतः गोत्रकृत् । लांक् लता वल्ली । वृग्ट् व्रतं शास्त्रतो नियमः ॥ २०८ ॥ कृवृकल्यलिचिलिविलीलिलानाथिभ्यः आतक (२०९) कृत् किरातः शबरः । वृकुट व्रातः समूहः उत्सेधजीविसंघश्च । कलि कलातः ब्रह्मा । अली अलातं उल्मुकम् । चिलत् चिलाता म्लेच्छाः । विलत् , विलातः शवाच्छादनवस्त्रम् । इलत् ,
इलातः नगः । लांक लातः मृत्तिकादानभाजनम् । नाथङ् नाथातः आहारः प्रजापतिश्च ॥ २०१॥ ३० हृश्यारुहिशोणिपलिभ्य इतः (२१०) हृग् हरितः वर्णः । इङ् श्येतः वर्णः मृगः मत्स्यः श्येनश्च । रुहं रोहितः वर्णः मत्स्यः मृगजातिश्च । लत्वे लोहितः वर्णः । लोहितमसृक् । शोण शोणितं रुधिरम् । पल पलितं श्वेतकेशः ॥ २१० ॥ नत्र आपेः (२११) इतः । नापितः कारुविशेषः ॥ २११ ॥ क्रुशिपिशिषिकुषिकुस्युचिभ्यः कित् (२१२) इतः । क्रुशं क्रुशितं पापम् । पिशत् पिशितं मांसम् । पृषू पृषितं वारिबिन्दुः । कुषश् कुषितं पापम् । 'कुसच् ३५श्लेषे' कुसित ऋषिः । कुसितं ऋणम् । उचत् उचितं स्वभावयोग्यं चिरानुयातं श्रेष्ठं च ॥ २१२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org