________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कृदन्तप्रक्रियायामुणादयः
९०१
मुकः ॥ १८८ ॥ धृषिवहेरियोपान्त्यस्य (१८९) आभ्यां किदण : इचोपान्त्यस्य स्यात् । ञिधृषाट् धिषणः बृहस्पतिः । धिषणा बुद्धिः । विहणः ऋषिः पाठश्च ॥ १८९ ॥ चिक्कणकुक्कणकृकणकुङ्कणत्रवणोल्वणोरणलवणवङ्क्षणादयः (१९०) एते किदन्ता निपात्यन्ते । चिनोतेश्चिक्क् च । चिक्कणः पिच्छलः । कुकिकृगोः कोऽन्तश्च । कुक्कणः शकुनिः । कृकणः ऋषिः । कुकेः स्वरान्नोऽन्तश्च । कुकणा जनपदः । त्रपेर्वश्च । त्रवणः देशः । वलेर्वस्य उत् वोऽन्तश्च । उल्वणः ५ स्फारः । अर्चेरुर् च उरणः मेषः । लीयते विद्यते स्वद्यतेर्वा लवादेशश्च लवणं गुणः द्रव्यं च । वक्वेः सः परादिः नलोपाभावश्च वङ्कणः ऊरु अङ्कमूलसन्धिश्च । आदिशब्दात् द्योततेस्म ज्योतिरिङ्गणः खद्योतः । तुरतेः तुरणः त्वरावान् । बिभर्त्ति सामान्यविशेषौ भुरणः इत्यादय: ॥ १९० ॥ कृषिविषिवृषिधृषिमृषियुषिदुहिग्रहेराणक (१९१) कल्यते छेदनाय कृपाणः खङ्गः । विषू विषाणं शृङ्गं करिदन्तश्च । वृषू सेचने वर्षतीति वृषाणः देवः । धृषाणो देवः । मृषू मर्षतीति मृषाणः । १० 'षि सेचने' सौत्रः युषाण: । दुह्यति मौनाय दुहाणः मुखरः । गृह्णातीति गृहाणः । वृषाणादयः स्वप्रकृत्यर्थवाचिनः सर्वेऽपि कर्त्तरि कार के ज्ञेयाः ॥ १९९ ॥ पषो णित् (१९२ ) आणक् । पषी पाषाणः ॥ १९२ ॥ कल्याणपर्याणादयः (१९३) एते आणकान्ता निपात्यन्ते । कयन्तश्च । कल्यते उपादेयतया कल्याणं श्रेयः । परिपूर्वादिणो लुक् च । पर्याणं अश्वादीनाम् पृष्ठच्छदः । आदिशब्दात् द्रेकाणबोक्काणकेकाणादयः ॥ ९९३ ॥ हृषृहिदक्षिभ्य इणः (१९४) एभ्यः इण: १५ प्रत्ययो भवति । दुं द्रविणं द्रव्यम् । हंग हरिणो मृगः । वृह बर्हिणो मयूरः । दक्षि दक्षिणः कुशलः अनुकूलश्च । दक्षिणा दिक् ब्रह्मदेयं च ॥ १९४ ॥ ऋदुहेः कित् (१९५ ) इणः । ऋश् इरिणं ऊपरं कुञ्जः वनदुर्गं च । द्रुह्यति दानवेभ्यः सदाचारं वा द्रुहिणः ब्रह्मा क्षुद्रजन्तुश्च ॥ १९५ ॥ ऋधृदारिभ्य उणः (१९६) ऋक् अरुणः सूर्यस्तत्सारथिः उषा वर्णश्च । कृत् करुणा दया । करुणः करुणाविषयः । करुणं दैन्यम् । वृश वरुणः प्रचेताः । धृग् धरुणः धर्त्ता आयुक्तो २० लोकश्च । दृश् णौ दारुणः उग्रः ॥ १९६ ॥ क्षः कित् ( १९७) झैं । अस्मात् किदुणः । क्षुणो व्याधिः क्षामः क्रोध उन्मत्तश्च ॥ १९७ ॥ भिक्षुणी (१९८) भिक्षेरुणः ङीच निपात्यते । भिक्षुणी व्रतिनी ॥ १९८ ॥ गादाभ्यामेष्णक (१९९) गैं गेष्ण: मेष उद्गाता रङ्गोपजीवी च । गेष्णं साम मुखं च । रात्रिगेष्णः रङ्गोपजीवी । सुगेष्णा किन्नरी । डुदांग्क देष्ण: बाहुः दानशीलश्च । चारुदेष्णः सात्यभामेयः । सुदेष्णा विराटपत्नी ।। ।। ९९९ ।। इति णोपान्त्यप्रत्यया अष्टादशभिः २५ सूत्रैः । दम्यमितभिमावापूधू गृ गृह सिवस्य सिवितसिमसीभ्यस्तः (२००) दन्तः दर्शनः हस्तिदंष्ट्रा च । अन्तः अवसानं धर्मः समीपं च । तन्तः खिन्नः । मां मातं अन्तः प्रविष्टम् । वांकू वातः वायुः । पूग्ा पोतः नौः अग्निः बालश्च । धूग्शू धोतः धूमः शठः वातश्च । गृत् गर्त्तः श्वभ्रम् । जृष्च् जर्त्तः प्रजननं राजा च । हसे, हस्तः करः नक्षत्रं च । वसूच् स्तम्भे वस्तः छागः । असूच् अस्तः गिरिः । तसूच् विपूर्वः वितस्ता नदी । मसैच् मस्तः मूर्धा । इण्क् एतः हरिणः वर्णः ३० वायुः पथिकश्च ॥ २०० ॥ शीरीभूमूघृपाधागचित्यर्त्यञ्जिपुसिमुसिबुसिविसिरमधुर्विपुर्विभ्यः कित् (२०१) तः । शी शीतं स्पर्शविशेषः । शू रीतं सुवर्णम् । 'भू सत्तायाम्’ भूतः ग्रहः । भूतं पृथिव्यादि । दूच् दूतः वचोहरः । मूङ् भूतः दध्यर्थं क्षीरे तक्रसेकः वस्त्रावेटनबन्धनं आचमनी आलानपाशः बन्धनमात्रं धान्यादिपुटश्च । घृ घृतं सर्पिः । पां पीतं वर्णविशेषः । डुधांग्कू 'धागः' (४|४|१५ ) इति हि हितं उपकारि । चितै चित्तं मनः । ऋक् ऋतं सत्यम् । ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org