________________
९००
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुअस्मादण्डस्तकारश्चान्तादेशः स्यात् । वतण्डः ऋषिः ॥ १७५ ॥ पिचण्डैरण्डखरण्डादयः (१७६) एते डप्रत्ययान्ता निपात्यन्ते । पिचेरगुणत्वं च पिचण्डः लघुलगुडः । ईरेर्गुणश्च एरण्डः पञ्चाङ्गुलः । खाद, अन्यस्वरादेररादेशश्च खरण्डः सर्वतुः । आदिग्रहणात् कूष्माण्डशयण्डशयाण्डादयः॥ १७६ ॥ लगेरुडः (१७७) लगे सङ्गे अस्मादुडः स्यात् । लगुडः यष्टिः । गृ जृ दृ वृ ५भूभ्यस्तु उडो विहित एव ॥ १७७॥ कुसेरुण्डक (१७८) 'कुसच् श्लेषे' अस्मादुण्डक् । कुस्यति शरेण कुसुण्डः वपुष्मान् ॥ १७८ ॥ इति डोपान्त्या एकादशभिः सूत्रैः । शमिषणिभ्यां ढः (१७९) शण्डः नपुंसकम् । षण्ढः स एव । बाहुलकात् सत्वाभावः ॥ १७९॥ कुणेः कित् (१८०) ढः । कुणत् कुण्ढः धूतः । बाहुलकान्न दीर्घः ॥ १८० ॥ नत्रः सहेः षा च (१८१) नअपूर्वात्
सहेः षा चास्यादेशो भवति । आषाढं नक्षत्रम् ॥ १८१॥ इति ढोपान्यास्त्रिभिः सूत्रैः । इणुर्विशा१० वेणिवतज़द्दसृपिपणिभ्यो णः (१८२) इणक । एणः कुरङ्गः । उवै उर्णा मेषादिलोम
भ्रुवोरन्तरावर्त्तश्च । शोंच शाणः परिमाणं शस्त्रतेजनं च । वेणूग वेण्णा कृष्णवेण्णा च नाम नदी । पृश् पर्णम् । कृत् कर्णः श्रवणं कौन्तेयश्च । वृश्,ि वर्णः शुक्लादिः ब्राह्मणादिः अकारादिः यशः स्तुतिः प्रकारश्च । तृ तर्णः वत्सः । जष्च् जर्णः चन्द्रमाः वृक्षः कर्कः क्षयधर्मा शकुनिश्च । हंङ्त दर्णः पर्णम् । सृप्लं सर्णः सरीसृपजातिः । पणि पण्णं व्यवहारः ॥ १८२ ॥ धृवीह्वाशुष्यु१५षितृषिकृष्यतिभ्यः कित् (१८३) णः । घृ घृणा कृपा । वींक् वीणा वल्लकी । ॲग् हूणः म्लेच्छजातिः । शुषंच शुष्णः निदाघः । उषू उष्णः स्पर्शविशेषः । बितृषच् तृष्णा पिपासा । कृषीत् कृष्णो विष्णुः वर्णः मृगश्च । ऋक् ऋणं वृद्धिधनं जलदुर्गभूमिश्च ॥ १८३ ॥ द्रोर्वा (१८४) णः कित् । द्रुणा ज्या । द्रोणः चतुराढकः पाण्डवाचार्यश्च । द्रोणी गौरादित्वात् ङीः ॥ १८४ ॥
स्थाक्षुतोरूच (१८५) एभ्यो णः उकारश्चैषामन्तादेशः । ष्ठां स्थूणा तन्तुधारिणी तन्तुवायोपकरणम् , २० गृहधारिणी स्थूणा स्तम्भ; शरीरधारिणी स्थूणा शिरा । तिष्ठति पूजकगृहे स्थूणा लोहप्रतिमा । तिष्ठतः
अपथ्यादिषु स्थूणा व्याधिविशेषौ । टुक्षुक् क्षुणं अपराधः । तूंक तूणा इषुधिः ॥ १८५॥ भ्रूणतणगुणकार्णतीक्ष्णश्लक्ष्णाभीक्षणादयः (१८६) एते णप्रत्ययान्ता निपात्यन्ते । भृगो भ्र च । भ्रूणः निहीनः अर्भकः स्त्रैणगर्भश्च । तरतेह्रस्वश्च तृणं शष्पादिः । गायतेर्गमेणाते वा
गुभावश्च गुणः उपकारः आश्रितः अप्रधानं ज्या च । कृगो वृद्धिः कोऽन्तश्च कार्णः शिल्पी । २५ तिजेर्दीर्घः सश्च परादिः तीक्ष्णं निशितम् । श्लिषेः सोन्तोश्चेतः श्लक्ष्णं अकर्कशं सूक्ष्मं च । अभि
पूर्वादिषेः किञ्च सोन्तः अभीक्ष्णं अजस्रम् । आदिग्रहणादन्येऽपि ॥ १८६ ॥ तृकृषभृक्श्रुरुरुहिलक्षिविचक्षिचुकिबुकितङ्ग्यङ्गिमङ्किकङ्किचरिसमीरेरणः (१८७) (एभ्योऽणः) तरणम् । करणम् । शरणम् गृहम् । परणम् । भरणम् । वरणः वृक्षः सेतुबन्धश्च । वरणं कन्याप्रतिपादनम् । श्रृंट् श्रवणः कर्णः भिक्षुश्च । रुक् रुङ् वा रवणः करभः अग्निः द्रुमः वायुः भृङ्गः शकुनिः सूर्यः ३० घण्टा च । रुहं रोहणः गिरिः । लक्षीण लक्षणं व्याकरणं शुभाशुभसूचकं रेखातिलकादि अङ्कनं च । विपूर्वः चक्षिक विचक्षणः विद्वान् । 'चुक्कण व्यथने' चुकणः व्यायामशीलः । 'बुक्क भाषणे' बुक्कणः श्वा वावदूकश्च । 'तगु गतौ' तङ्गणा जनपदः । अगु अङ्गणं अजिरम् । मकुङ् मङ्कण ऋषिः । ककुङ् कङ्कणं प्रतिसरः । चर चरणः पादः । सम्पूर्वक ईरिक् समीरणः वायुः ॥ १८७॥ कृगृ.
पृकृपिवृषिभ्यः कित् (१८८) । अणः । किरणः रश्मिः । गिरणः मेघः आचार्यः ग्रामश्च । ३५पुरणः समप्रयिता समुद्रः पर्वतविशेषश्च । कल्प्यते धनरक्षायै कृपणः कीनाशः । वृषू वृषणः
SHRIMALHEEHin
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org