________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः
८९९ कुण्ठः अतीक्ष्णः । पृषू पृष्ठः अङ्कुशः शरीरैकदेशश्च ॥ १६३ ॥ कुषेर्वा (१६४) ठः । कित् । कुष्ठं व्याधिः गन्धद्रव्यं च । कोष्ठः कुसूल उदरं च ॥ १६४ ॥ शमेल च वा (१६५) शमूच् इत्यस्मात् ठः लुक् चान्तस्य वा स्यात् । शठः धूर्तः। शण्ठः स एव । नपुंसकं च ॥ १६५ ॥ पष्टैधिठादयः (१६६) एते ठान्ता निपात्यन्ते । पुषेः कित् ठः पषादेशश्च । पष्ठः प्रस्थः पर्वतश्च । एधतेरिठः एधिठं वनम् । एधिठः गिरिसरिद्रहः । आदिशब्दादन्येऽपि ॥ १६६ ॥ मृगक-५ म्यमिरमिरपिभ्योऽठः (१६७) मृत् मरठः दध्यतिद्रवीभूतं, कृमिजातिः, कण्ठः, प्राणश्च । 'जष्च् जरसि' । जरठः कठोरः । शुश शरठः आयुधं पापं क्रीडनशीलश्च । कमूङ् कमठः भिक्षाभाजनं कूर्मास्थि कच्छपः मयूरो वामनश्च । अम, अमठः प्रकर्षगतिः । रमि, रमठः देशः कृमिजातिः क्रीडनशीलः म्लेच्छः देवश्च चिलातानाम् । 'रप व्यक्ते वचने' । रपठः विद्वान् मण्डूकश्च ॥१६७ ॥ ठोपान्त्याः षड्भिः सूत्रैः। पञ्चमाडः (१६८) पञ्चमान्ताद्धातोर्डः स्यात् । 'पन भक्तौ' १० षण्डः वनं वृषभश्च । बाहुलकात्सत्वाभावः । भण भण्डः प्रहसनकरः बन्दी च । चण् चण्डः क्रूरः । पणि पण्डः शण्ढः । गणण गण्डः पौरुषयुक्तः पुरुषः । 'मण शब्दे' मण्डः रश्मिरग्रमन्नविकारश्च । वन वण्डः अल्पशेफः निश्चर्माग्रशिभश्च । शमूच शण्डः उत्सृष्टः पशुः ऋषिश्च । दण्डः वनस्पतिप्रतानः राजशासनं नालं प्रहरणं च । रमिं रण्डः पुरुषः रण्डा स्त्री, रण्डमन्तःकरणम् । त्रयमपि (स्व) संबन्धिशून्यमेवमुच्यते । तमेस्तनेर्वा तण्डः ऋषिः । वितण्डा तृतीयकथा । गमेर्गण्डः१५ कपोलः । भामि भाण्डमुपस्करः ॥ १६८ ॥ कण्यणिखनिभ्यो णिद्वा (१६९) 'कण शब्दे' काण्डः शरः फलसंघातः पर्व च । कण्डं भूषणं पर्व च । आण्डः मुष्कः, अण्डः स एव योनिविशेषश्च । खाण्डः कालेखुरसाश्रयो गुडः । खण्ड इक्षुविकारोऽन्यः । खण्डं शकलम् ॥ १६९ ॥ कुगुहुनीकुणितुणिपुणिमुणिशुन्यादिभ्यः कित् (१७०) डः । कुङ् कुडः घटः हलं च । गुङ् गुडः गोल इक्षुविकारश्च, गुडा सन्नाहः । हुक् हुडः मूर्खः मेषश्च । णींग नीडः कुलायः । २० कुणत् कुण्डं भाजनं जलाधारविशेषश्च । कुण्डः भर्तरि जीवति जारेण जातः अपट्विन्द्रियश्च । 'तुणत् कौटिल्ये' तुण्डं मुखम् । 'पुणत् शुभे' पुण्डः भिन्नवर्णः। 'मुणत् प्रतिज्ञाने' मुण्डः परिवापितकेशः। 'शुनत् गतौ' शुण्डा सुरा हस्तिहस्तश्च । आदिशब्दादन्येभ्योऽपि स्यात् ॥१७० ॥ ऋमृतृव्यालिह्यविचमिवमियमिचुरिकुहेरडः (१७१) ऋक् अरडः तरुः । मुं, सरडः भुजपरिसर्पस्तरुश्च । त, तरडः वृक्षजातिः । व्यग् व्याडः दुःशीलः हिंस्रः पशुः भुजगश्च । लिहीक् लेहडः श्वा २५ चौर्यग्रासी च । अव अवडः क्षेत्रविशेषः । चमू चमडः पशुजातिः । टुवमू वमडः लूताजातिः । यमू यमडः वनस्पतिः युगलं च । चुरण चोरडः चौरः । कुहणि कुहडः उन्मत्तकः ॥ १७१ ॥ विहडकहोडकुरडकेरडक्रोडादयः (१७२) एते डान्ता निपात्यन्ते । विपूर्वात् हन्तेरनो लुक च । विहडः शकुनिः गूढचित्तश्च । कर्हः प्रत्ययोऽकारस्य चौकारः कहोडः ऋषिः । कुरेर्गुणाभावश्च कुरडः मार्जारः । किरतेः केर् च । केरडः त्रैराज्ये राजा । कृगः कित्प्रत्ययोऽकारस्य चौकारः क्रोडः ३० किरिः अङ्कश्च । आदिग्रहणात् लहोडादयः ॥ १७२॥ जुकृतगृमृभृवृभ्योण्ड: (१७३) जष् जरण्डः अतीतवयाः । कृत् करण्डः समुद्गः कृमिजातिश्च । तू तरण्डः प्लवः वायुश्च । शुश शरण्डः हिंस्रः आयुधं च । स सरण्डः कृमिजातिः इषीका वायुः भूतसंघातः तृणसमवायश्च । टुडु,ग्क् भरण्डः भाण्डजातिः पक्षी च । वृग्ट् वरण्डः कुड्यं तृणकाष्ठादिभारश्च ॥ १७३ ॥ पूगो गादिः (१७४) अस्माद्गादिरण्डः स्यात् । पोगण्डः विकलाङ्गः युवा च ॥ १७४ ॥ वनेस्त च (१७५) ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org