________________
८९८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञ हैम लघु
I
पर्पटादयः । लंघते निःस्पृहत्वम् ॥ १४४ ॥ अनिवृललिभ्य आट: (१४५) अनक् अनाटः शिशुः । शृश् शराटः शकुन्तः । पृश् पराटः आयुक्तः । वृड्श् वराटः सेवकः । ' ललिण् ईप्सायाम्' । लल्यते तिलकादिना ललाटम् ॥ १४५ ॥ सृसृपेः कित् (१४६) आटः । संस्राटः पुरःसरः सेवकः । सृप्लं सृपाटः अल्पः कुमुदादिपत्रं च । सृपाटी उपानत् कुप्यं अल्पपुस्तकश्च ५ ॥ १४६ ॥ किरो लश्च वा (१४७) किरतेः किदाटः रस्य लो वा । किलाटः भक्ष्यविशेषः । किराटः वणिक् म्लेच्छश्च ॥ १४७ ॥ कपाटविराटशृङ्गाटमपुनाटादयः (१४८) एते आटान्ता निपात्याः । कम्पेर्नलोपश्च । कपाटः अररिः 'जपादीनां पो वः' (२।३।१०५ ) इति वत्वे कवाटः । वृङ इत्वं च विराटः राजा । श्रयतेः शृङ्ग् च शृङ्गाटं जलविशेषः विपणिमार्गश्च । प्रपूर्वात् पुर्णेनश्च । 'पुणत् शुभे' प्रपुनाटः एडगजः । आदिशब्दात् खल्वाटादयः । खलन्ति बिल्वादीन्यस्मिन् ॥ १४८ ॥ १० चिरेरिटो भू च (१४९) चिरेः सौत्रादिटो भश्चान्तादेशः स्यात् । चिरिणोति हिनस्ति पित्तं च चिर्मिंटी वालुङ्की ॥ १४९ ॥ दिण्टश्वर च वा (१५०) चिरेष्टित् इण्टश्चर् इति वा स्यात् । हिनस्ति कामुकान् चरिण्टी चिरिण्टी च प्रथमवयाः स्त्री ॥ १५० ॥ तृकृकृपिकम्पिकृषिभ्यः कीटः (१५१) एभ्यः कित् ईटः स्यात् । तिरीट: कूलवृक्षः मुकुटं वेष्टनं च । कृत् किरीटं मुकुट हिरण्यं च । कृपौङ् कृपीटं हिरण्यं जलं च । कपूङ् कम्पीटं कम्पः कम्प्रं च । कृषत् कृषीटं जलम् १५॥ १५१ ॥ खञ्जेररीटः (१५२) 'खजु गतिवैकल्ये' खञ्जरीटः खञ्जनः ॥ १५२ ॥ गज
भृभ्य उट उडश्च (१५३) भिन्नविभक्तिकनिर्देश उटस्योत्तरत्रानुवृत्त्यर्थः । अप्रकृतस्याप्युडस्येह विधानं लाघवार्थम् । 'गुश् शब्दे' गरुट : गरुडश्च गरुत्मान् । जृष् च जरुटः जरुडश्च वनस्पतिः । दृश् दरुट: दरुडश्च बिडालः । ' वृश भरणे' । वरुट: वरुडः मेष: । 'भृश् भर्जने च' । भरुट: भरुडश्च मेष एव ॥ १५३ ॥ मङ्केर्मकमुकौ च ( १५४) 'मकुङ् मण्डने' । इत्यस्मात् उटः प्रत्यय इमा२०वादेशौ च स्याताम् । मकुटः मुक्कुटश्च ॥ १५४ ॥ नर्कुटकुक्कुटोत्कुरुटमुरुटपुरुटादयः (१५५) एते उटान्ता निपात्यन्ते । नृतेः कश्च । नर्कुट : बन्दी | कुकेः कोन्तश्च । कुक्कुटः कृकवाकुः । उत्पूर्वात्कृगः कुर् च । उत्कुरुटः कचवरपुञ्जः । मुरिपुर्योर्गुणाभावश्च । मुरुटः यद्वेण्वादिमूलमृजु कर्तुं न शक्यते । पुरुटः जलतन्तुः | आदिशब्दात् स्थपुटादयः ॥ १५५ ॥ दुरो द्रः कूटश्च दुर् च (१५६) दुर् पूर्वात् दृणाते: कित् ऊट पुटश्च प्रत्ययौ दुर् चास्यादेशः स्यात् । दुर्दुरूटः दुर्मुखः । २५ दुर्दुरुटः अदेशकालवादी || १५६ ॥ बन्धेः (१५७) बन्धंश्, अस्मात् किदूतः । बध्नाति भोगान्
ब (व) धूटी ॥ १५७ ॥ चपेरेट: (१५८) चप्यते शान्तः क्रियतेऽनेन चपेटः हस्ततलाहतिः ॥ १५८॥ यो णित् (१५९) गृत् अस्मात् णिदेटः । गारेट: ऋषिः ॥ १५९ ॥ कृशक्शाखेरोटः (१६०) करोटः भृत्यः शिरः कपालं च । करोटं च भाजनविशेषः । शकोटः बाहुः । ‘शाखू व्याप्तौ’ शाखोटः वृक्षविशेषः ॥ १६० ॥ कपोटवकोटाक्षोटक कटादयः (१६१) एते ३० ओटान्ता निपात्यन्ते । 'कब्रुङ् वर्णे' । पश्च । कपोटः वर्णः कितवश्च । वचेः कञ्च । वकोटः बकः । अनातेः सश्च परादिः । अक्षोटः फलवृक्षः । कृगः कोऽन्तश्च । कर्कोटः नागः । आदिशब्दादन्येपि ॥ १६१ ॥ इति टोपान्त्यप्रत्ययप्रकरणं चतुर्विंशत्या सूत्रैः । वनिकणिकाश्युषिभ्यष्ठः (१६२) 'वन भक्तौ' वन्यते स्वामी अनेन वण्ठः अनिविष्टः । ' कण शब्दे' । कण्ठः कन्धरा । काशृङ्, काशतेऽग्निसंपर्कात् काष्ठं दारु । काष्ठा दिग् अवस्था च । 'उषू दाहे' । ओष्ठः दन्तच्छदः ॥ १६२ ॥ पीवि३५शिकुणिपृषिभ्यः कित् (१६३) ठः । पीच् पीठमासनम् । विशंत् विष्ठा पुरीषम् । कुणत्,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org