________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायामुणादयः पुच्छः वालधिः ॥ १२५ ॥ गुलुञ्छपिलिपिञ्छैधिच्छादयः (१२६) एते छप्रत्ययान्ता निपात्यन्ते । 'गुडत् रक्षायाम्' गुडेल उम् चान्तः । गुलुन्छः स्तबकः । 'पील प्रतिष्टम्भे' । पीलेरपि नोऽन्तो ह्रस्वश्च । पिलिपिञ्छः रक्षोविशेषः । एधेरिट् च एधिच्छः नगः । आदिग्रहणात् पिञ्छादयोऽपि भवन्ति ॥ १२६ ॥ इति छोपान्त्यप्रत्ययात्रिभिः सूत्रैः । वियो जक् (१२७) वीक् वीयते जायतेऽङ्कराद्यनेन बीजं उत्पत्तिहेतुः ॥ १२७ ॥ पुवः पुन् च (१२८) पूश् इत्यस्माजक् पुन्५ इति चास्यादेशः । पूयते स्वामिना पुञ्जः राशिः॥ १२८ ॥ कुवः कुब्कुनौ च (१२९) कुङ् इत्यस्माजक् इमौ चास्यादेशौ स्याताम् । कुब्जः खर्वः गुच्छश्च । कुञ्जः हनुः पर्वतैकदेशश्च । निकुञ्जः गहनम् ॥ १२९ ॥ कुटेरजः (१३०) कुटत् कुटजः वृक्षविशेषः । कुटादित्वात् ङित्त्वम् कुटजी ॥ १३०॥ भिषेर्भिभिष्णौ च वा (१३१) भिषिः सौत्रः । अस्मादजः इमौ चास्यादेशौ स्याताम् । भिषजः । आदेशबलान गुणः । भिष्णजः वैद्यः । भेषजमौषधम् ।। १३१ ॥१० मुर्मुर च (१३२) मुर्वे इत्यस्मादजः मुर् चादेशः । मुरजः मृदङ्गः ॥१३२॥ बलेवान्तश्च वा (१३३) बल्वजः मुञ्जविशेषः । बलजा सबुसो धान्यपुञ्जः॥१३३॥ उटजादयः (१३४) एतेऽजप्रत्ययान्ता निपात्यन्ते । वटेर्वस्योत्वं च । उटजं मुनिकुटीरः । आदिशब्दात् भूर्जरुजादयो भवन्ति ॥ १३४ ॥ कुलेरिजक (१३५) कुलन्ति संहतीभवन्ति कुलिजं मानम् ॥ १३५ ॥ कृगोऽञ्जः (१३६) करोति पापापनयं करञ्जः वृक्षजातिः॥ १३६ ॥ इति जोपान्त्यप्रत्यया दशभिः सूत्रैः । १५ झमेझः (१३७) 'झमू अदने' । इत्यस्मात् झः । झमति सन्तापं झञ्झा वृष्टियुग्वातः । ॥ १३७ ॥ इति झोपान्त्यप्रत्यय एकेन सूत्रेण । लुषेष्टः (१३८) 'लुष स्तेये' । अस्मात् टः स्यात् । लोष्टः मृत्पिण्डः ॥ १३८॥ नमितनिजनिवनिसनो लुक् च (१३९) एभ्यष्टः । एषामन्तस्य च लुक् स्यात् । णमं नटः । तनूयी तट कूलम् । जनैचि जटा ग्रथितकेशसंघातः । वन वटः न्यग्रोधः । षण सटा अग्रथितः केशसंघातः॥ १३९॥ जनिपणिकिजुभ्यो दीर्घश्च (१४०)२० एभ्यः टः दीर्घश्चैषां गुणापवादः स्यात् । जाण्टः पाण्टः पक्षिविशेषावेतौ । किजू सौत्रौ । कीटः क्षुद्रजन्तुः । जूटः मौलिः ॥ १४० ॥ घटाघाटाघण्टादयः (१४१) एते टान्ता निपात्याः । हन्तेर्यथा घघाघनश्च । घटा वृन्दम् । घाटा स्वाङ्गम् । घण्टा वाद्यविशेषः । आदिग्रहणात् छटादयोऽपि ॥ १४१ ॥ दिव्यविश्रुकुकर्विशकिकङ्किकृपिचपिचमिकम्येधिकर्किमर्किकक्खितकृमृभृवृभ्योऽटः (१४२) दिवूच् देवटः देवकुलविशेषः शिल्पी च । अवन्ति गच्छन्ति २५ विरक्ता जलार्थिनो वाऽस्मिन् अवटः प्रपातः कूपश्च । श्रृंट श्रूयते राजचिह्नतया श्रवटः छत्रम् । कुक् कवटः उच्छिष्टम् । 'कर्ब गतौ कर्बट क्षुद्रपत्तनम् । शक्लंट शकटम् अनः । 'ककुङ् गतौ' कङ्कटः सन्नाहः । कङ्कटं सीमा । कृपौङ कर्पटं वासः। चप (चपति) सान्त्वयति धातुवादिनः चपटः रसः । चमू चमटः धस्मरः । कमू काम्यते हास्यप्रियैः कमटः वामनः । एधि एधटः वल्मीकः । कर्किमर्की सौत्रौ । कर्कटः कपिलः कुलीरश्च, कर्कटी त्रपुसी, मर्कटः कपिः क्षुद्रजन्तुश्च । 'कक्ख हसने' कक्खति ३० मृदून कक्खटः कर्कशः । तृ, तरटः पीनः । डुकंग करटः काकः करिकपोलश्च । सुं सरटः कृकलासः । टुडु,ग्क् भरटः प्लवविशेषः भृत्यः कुलालश्च । वृगट वरटः क्षुद्रधान्यं प्रहारश्च ॥ १४२॥ कुलिविलिभ्यां कित् (१४३) अटः । कुल कुलटा बन्धकी । विलत् विलटा नदी ॥ १४३ ॥ कपटकीकटादयः (१४४) एते अटान्ता निपात्यन्ते । कम्पेनलोपश्च । कम्पते सदाचारोऽनेन कपटं दम्भः । ककेरत ईञ्च 'ककि लौल्ये' ककते धनविषये कीकटः कृपणः । आदिग्रहणात् लघट-३५
है. प्रका० उत्त० ११३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org