________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुनिपात्यन्ते । उत्पूर्वाञ्चलेरस्य इत्त्वं च । उच्चलति पित्तमस्मिम् उञ्चिलिङ्गः दाडिमी । आदिग्रहणादन्येऽपि ॥१०५॥ माङस्तुलेरुङ्गक च (१०६) माङ्पूर्वोत्तुलण् इत्यस्मादुङ्गक्इङ्गप्रत्ययौ स्याताम् । मातोलिकलिङ्गलिंकादिफलेन सदृशं फलमाकारि मातुलुङ्गः मातुलिङ्गश्च बीजपूरः ॥ १०६॥ कमितमिशमिभ्यो डित् (१०७) उङ्गक् । कमूङ, कङ्गा जनपदः । तमूच् तुङ्गः महावा । शमूच् शुङ्गः ५मुनिः । शुङ्गाः कन्दल्यः नवांकुराः । शुङ्गा वनिता ॥१०७॥ सर्तेः सुर् च (१०८) अस्मादुङ्गः । सुर्चास्यादेशः । सुरङ्गा गूढमार्गः ॥ १०८॥ इति गोपान्त्यप्रकरणं सप्तदशभिः सूत्रैः । स्थार्तिजनिभ्यो घः (१०९) ष्ठां स्थाघः गाधः । कं, अर्घः मूल्यं मानप्रमाणं पादोदकादि च । जनैचि जङ्घा देहावयवः ॥१०९॥ मघाघवाघदीर्घादयः (११०) एते घान्ता निपात्याः । 'मघुङ् कैतवे' । मंधेन
लोपश्च । मघा नक्षत्रम् । हन्तेर्हस्य घश्च । घवः घस्मरः । घच्चा काढा । अमेर्लुक् च अघं पापम् । १० दणातेीर् च दीर्घः आयत उच्चश्च । आदिशब्दादन्येपि ॥ ११०॥ सर्तेरघः (१११) सरति मधुपटलं सरघा मधुमक्षिका ॥ १११ ॥ इति घोपान्त्यप्रत्ययप्रकरणं त्रिभिः सूत्रैः । कुपूसमिणभ्यश्चद्र दीर्घश्च (११२) टकारो ड्यर्थः । कुङ कूचः हस्ती । कूची प्रमदा चित्रभाण्डं उदश्विद्विकारश्च । पूश , पूचः पूची मुनिः । इण्क्, समीच ऋत्विक् । समीचं मिथुनयोगः । समीची पृथ्वी उदीची च । दीर्घवचनाद्गुणो न स्यात् ॥११२॥ कूर्चचूर्चादयः (११३) एते चट्प्रत्ययान्ता निपात्यन्ते । कवतेः १५ किरतेः करोतेर्वा उरादेशश्चान्तस्य । कूचं श्मश्रु आसनं तन्तुवायोपकरणं यतिपवित्रकं च । कूर्चमिव कूर्चकः कूर्चिकेति च भवति । चरतेश्चोरयतेर्वा चूरादेशश्च । चूर्चः बलवान् । आदिशब्दादन्येऽपि ॥ ११३ ॥ कल्यविमदिमणिकुकणिकुटिकृभ्योऽचः (११४) कलि, कलचः गणकः । अव, अवचः उच्चैस्तरः । मदैच् मदचः मत्तः । मण मणचः शकुनिः । कुङ् कवचं चर्म । कणन्त्यनेन कणचः कणयः । कुटत् , कुटचः वृक्षजातिः । कृत, करचः धान्यावपनम् ॥ ११४ ॥ २० क्रकचादयः (११५) एते अच्प्रत्ययान्ता निपात्यन्ते । क्रमेः कश्च । ककचः करपत्रः ।
आदिशब्दादन्येपि ॥ ११५ ॥ पिशेराचक (११६) पिशक् पिशाचः व्यन्तरजातिः॥११६ ॥ मृत्रपिभ्यामिच् (११७) म्रियन्ते हारीताः पक्षिणोऽनेन मरिचं ऊषणम् । अपौषि त्रपिचा कुथा ॥ ११७ ॥ नियतेरीचण (११८) नियते रावणेन विना मारीचः रावणमातुलः ॥ ११८॥
लषेरुचः कश्च (११९) लष्यते भृङ्गैः लकुचः वृक्षजातिः ॥११९॥ गुडेरूचट् (१२०) गुडत्, २५ गडूची छिन्नरुहा । कुटादित्वात् टित्त्वम् ॥१२०॥ सिवेर्डित् (१२१) ऊचट् । सीव्यति परदोषान्
सीव्यति वृक्षादिना सूचः पिशुनः स्तिभिः पल्लवाकर इति । सूची सन्धानकरणी ॥ १२१ ॥ चिमेोंचडञ्चौ (१२२) आभ्यां प्रत्येकमेतौ स्याताम् । वचनभेदान्न यथासङ्ख्यम् । चिंग्द, चोचः वृक्षविशेषः । चोचं वल्कं च वल्कलम् । चञ्चा तृणमयः पुरुषः । डुमिंग्ट, मोचा कदली । मञ्चः
पर्यतः ॥ १२२॥ कुटिकुलिकल्युदिभ्य इञ्चक (१२३) कुटेः, कुटिश्चः क्षुद्रकर्कटः । कुलिञ्चः ३० राशिः। कले?, कलिश्चः उपशाखावयवः । 'उद आघाते' सौत्रः । उदिञ्चः कोणः वीणादिवादनं
परपष्टश्च ॥१२३ ॥ इति चोपान्त्यप्रत्ययप्रकरणं द्वादशभिः सूत्रः। तुदिमदिपद्यदिगुगमिकचिभ्य. अछक (१२४) तुच्छः स्तोकः । मच्छः मत्स्यः प्रमत्तश्च । मत्ता स्त्री । पद्यते गृहाद्यार्थिभिः पच्छः शिला । अत्ति मलं अच्छः निर्मलः । गुङ्, गुच्छः स्तबकः । गच्छः क्षुद्रवृक्षः । कचते गतिं कच्छः
कूर्मपादः कुक्षिः नद्यवकुटारश्च । कच्छा जनपदः । बाहुलकात् कत्वाभावः ॥ १२४ ॥ पीपूडो ३५ हखश्च (१२५) पीङ् च, पिच्छं पक्षिपत्रम् । पिच्छः गुणविशेषः । यद्वशात् पिच्छल उच्यते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org