________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां उणादयः
८९५ पूजायाम्' इत्यस्मात् खः कित् अन्त लुक् अकारस्य च उकारादेशौ वा स्याताम् । मुखमाननम् । मखः यज्ञ अध्वर्युः इतरश्च ॥ ८९॥ न्युङ्कादयः (९०) एते खप्रत्ययान्ता निपात्यन्ते । नयतेः खः उन् चान्तः । न्युजाः षडोंकाराः । आदिग्रहणादन्येऽपि ॥ ९०॥ मयैधिभ्यामूखेखौ (९१) मयि एधिभ्यां यथासङ्ख्यमेतौ स्याताम् । मयते उपादेयतां मयूखः रश्मिः । एधते पाल्यमानः एधिखः वराहः॥ ९१ ॥ इति खोपान्त्यप्रत्ययप्रकरणमष्टाभिः सूत्रैः। गम्यमिरम्यजिगद्यदिछागडिखडि-५ गृभृवृस्तृभ्यो गः (९२) गच्छति मार्गत्रयेण गङ्गा । अमत्यात्मनो भोगहेतुत्वं चन्द्रदर्शनाद्वायुना पराक्रमेण च वृद्धिं अङ्गं देहस्तदवयवश्च । अङ्गः समुद्रः वह्निः राजा च । अङ्गा जनपदः । रमतेऽस्मिन् रङ्गा नृत्यस्थानम् । अजेर्वी गुणे वेगः त्वरा रेतश्च । गद गद्गः अव्यक्तवाक् । अद्यते अग• स्त्येन अद्गः समुद्रः अग्निः पुरोडाशश्च । छोंच छागो बस्तः । गड सिञ्चति मूत्रेण भूमिं गङ्गः मृगजातिः । 'खडण् भेदने । खड्यते शृङ्गार्थिभिः खड्यते शत्रुरनेन खड्गः मृगविशेषः असिश्च । गिरति १० निरवद्यमन्नं गर्गः ऋषिः । बिभर्ति गौरी पुष्णाति पद्मानि भर्गः रुद्रः सूर्यश्च । वियते बहुभिः वर्गः समूहः । औस्वृ स्वरति पुण्याढ्यान् स्वर्गः ॥९२॥ पूमुदिभ्यां कित् (९३) गः । पूरश पूगः सङ्घः क्रमुकश्च । मोदतेऽनेन पथ्याशी मुद्गः धान्यविशेषः ॥ ९३॥ भृवृभ्यां नोऽन्तश्च (९४) आभ्यां किद्गः नोऽन्तश्च स्यात् । भ्रियते पुष्पादिभिः भृङ्गः पक्षी भ्रमरः वर्णविशेषः लवङ्गश्च । वृगट् वृङ्ग उपपतिः ॥९४॥ द्रमो णिद्वा (९५) अस्माद्गः स च णित् । द्रमति सत्वरं द्राङ्गं शीघ्रं द्राङ्गः प्रांशुः । १५ द्रङ्गो नगरम् द्रङ्गा शुल्कशाला ॥९॥ शृङ्गशाङ्गादयः (९६) एते गप्रत्ययान्ता निपात्यन्ते । शुश , इत्यस्य नोन्तो हखश्च । शृङ्गं विषाणं शिखरं च । तस्यैव नोन्तो वृद्धिश्च । शाङ्गः पक्षी । आदिशब्दात् हूंग, हार्गः परितोषः । मृत्, मार्गः पन्थाः ॥१६॥ तडेरागः (९७) 'तडण आघाते' तड्यतेऽनिलादिना तडाकं सरः ॥९७॥ पतितमितृप्रकृशल्वादेरङ्गः (९८)पत्ल पतङ्गः शलभः सूर्यः शालिविशेषश्च । तमूच तमङ्गः हर्म्यनियूहः । तृ तरङ्गः । पृ परङ्गः खगः वेगश्च । कृत् करङ्गः कर्मशीलः।शश , २० शरङ्गः पक्षिविशेषः । लग्श् लवङ्गः सुगन्धिवृक्षः। आदिग्रहणादन्येभ्योऽपि॥९८॥ मृवृनभ्यो णित् (९९) गः । सारङ्गः हरिणः चातकः शबलवर्णश्च । वृग्द वारङ्गः काण्डखड्गयोः शल्यं शकुनिश्च नृश् नारङ्गः वृक्षविशेषः ॥९९॥ मनेर्मत्मातौ च (१००) मन्यते संसारमसारं, मन्यते राजभिः मतङ्ग ऋषिः हस्ती च । मातङ्गः हस्ती अन्त्यजातिश्च ॥१००॥ विडिविलिकुरिमृदिपिशिभ्यः कित् (१०१) एभ्यः किदङ्गः स्यात् । 'विड आक्रोशे' विडङ्गः वृक्षजातिः गृहावयवश्व । 'विलत् वरणे' २५ 'वि(बि)लत् भेदने'. वा विलङ्गः औषधम् । कुरत् कुरङ्गः मृगः । कुरङ्गी भोजकन्या । मृदश् मृदङ्गः मुरजः । पिशत् पिशङ्गः वर्णः ॥ १०१॥ स्फुलिकलिपल्यान्य इङ्गक (१०२) स्फुल्यादिभ्य आदन्तेभ्यश्च इङ्गक् स्यात् । 'स्फुलत् सञ्चये च' । स्फुल्यतेऽग्निना वायुवशात् । स्फुलिङ्गः स्फुलिङ्गा च अग्निकणः । कलि, कलिङ्गः राजा । कलिङ्गाः जनपदः । पल पलिङ्गः ऋषिः शिला च । आदन्तपातेः पिङ्गः भातेः भिङ्गः द्वावपि वर्णविशेषौ । ददाते ददाति निर्णय दिङ्गोऽध्यक्षः । दधाति ऐश्वर्य ३० धिङ्गः श्रेष्ठी । लाते लायते लिङ्गी अनेन लिङ्गं स्त्रीत्वादि हेतुश्च । आलायते वादकैः आलिङ्गः वाद्यविशेषः । श्यतेः शिङ्गः वनस्पतिः किशोरश्च ॥ १०२॥ भलेरिदुतौ चातः (१०३) भलिण् अस्मादिङ्गक् आकारस्य इकारोकारौ स्याताम् । भल्यतेऽङ्गारादिकमनेन भिलिङ्गः कर्मारोपकरणम् । भालयते तत्त्वं भुलिङ्गः ऋषिः पक्षी (च)। भुलिङ्गाः साल्वावयवाः॥१०॥ अदेर्णित् (१०४) इङ्गक् । अत्ति वियोगिप्राणान् आदिङ्गः वाद्यजातिः॥१०४॥ उचिलिङ्गादयः (१०५) एते इङ्गक्प्रत्ययान्ता ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org