________________
८९४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुजैव च (६७) जीवेरातकः प्रत्ययः अयं चास्यादेशः जैवातकः आयुष्मान् चन्द्र आम्रः वैद्यः मेघश्च । जैवातृका जीवद्वत्सा स्त्री ॥ ६७॥ हृभूलाभ्य आणक: (६८) एभ्य आणकः । हूंग , हराणकः चौरः । भू भवाणकः गृहपतिः । लांक्, लाणकः हस्ती ॥ ६८॥ प्रियः कित् (६९) आणकः । प्रीम्श् प्रियाणकः पुत्रः ॥६९॥ धालूशितिभ्यः (७०) एभ्य आणकः। योगविभाग उत्तरार्थः । ५दुधांग्क् धाणकः दीनारद्वादशभागः हविषां ग्रहः छिद्रपिधानं च । लूगश लवाणकः कालः तृणजातिः दात्रं च । शिघु शिवाणकः नासिकामलः ॥ ७० ॥ शीभीराजेश्चानकः (७१) एभ्यो धाप्रभृतिभ्यश्चानकः स्यात् । शीव शयानकः अजगरः शैलश्च । (बिभीक विभेत्यस्मादिति भयानको भीमो व्याघ्रो वराहो राहुश्च । राजृग् राजानकः क्षत्रियः ।. दुधांगक् धानका हेमादिपरिमाणम् ) लूग्श् लवानकः दात्रं देशविशेषश्च । शिजत्यनेनेति शिवानकः श्लेष्मा आयुः १० पुरीषं च ॥७१॥ अणेर्डित् (७२) आनकः । 'अण शब्दे' । आनकः पटहः ॥७२॥
कनेरीनकः (७३) कनै कनीनकः कनीनिका वाक्षितारिका ॥७३॥ गुङ ईधुकएधुको (७४) 'गुङ् शब्दे' । अस्मादेतौ स्याताम् । गवीधुकं नगरं, गवेधुका तृणजातिः ॥ ७४ ॥ वृतेस्तिकः (७५) वृतूङ् । वर्तिका चित्रकारोपकरणं शकुनिद्रव्यगुटिका च ॥ ७५॥ कृतिपुति
लतिभिदिभ्यः कित् (७६) कृतैत्, कृत्तिका नक्षत्रम् । पुतिलती सौत्रौ पुत्तिका मधुमक्षिका । १५ लत्तिका वाद्यविशेषः गौः गोधा च । गोपूर्वात् गोलत्तिका गृहगोलिका । अवपूर्वात् अवलत्तिका
गोधा । आलत्तिका गानप्रारम्भः । भिदंपी, भित्तिका कुड्यं माषादिचूर्णं शतावरी च नदी ॥७६॥ इष्यशिमसि (७७) एभ्यस्तकक् ॥ इषत् इष्टका मृद्विकारः । अशौटि अष्टकास्तिस्रोष्टम्यः पितृदैवत्यं च । मसैन् ; मस्तकं शिरः ॥७७॥ भियो द्वे च (७८) अस्मात्तकक् । अस्य च द्वे रूपे स्याताम् । बिभीतकः अक्षः ॥७८॥ हरुहिपिण्डिभ्य ईतकः (७९) हरति रोगान् हरीतकी पथ्या। रोह२० त्यनेन प्रणादिकं रोहीतकः वृक्षविशेषः । पिडुङ्, पिण्डीतकः करहाटः ॥७९॥ कुषेः कित् (८०) ईतकः । कुषीतक ऋषिः ॥८०॥ बलिबिलिशलिदमिभ्य आहकः (८१) बल बलाहकः मेघः वातश्च । 'बिलत् भेदने' बिलाहकः वज्रः बाहुलकान्न गुणः । शल शलाहकः वायुः । दमूच दमाहकः शिष्यः ॥८१॥ चण्डिभल्लिभ्यामातकः (८२) चडुङ् कोपे, चण्डातकं नर्त्तक्यादिवासः । भल्लि
भल्लातकः वृक्षविशेषकः ॥ ८२॥ श्लेष्मातकाम्रातकामिलातकपिष्टातकादयः (८३) एते २५आतकप्रत्ययान्ता निपात्यन्ते । श्लिषेर्मश्च परादिः श्लेष्मातकः कफेलुः। अमेर्वृद्धीरश्चान्तः आम्रातको वृक्षविशेषः । नमः परस्य म्लायतेर्मिल् च अमिलातकं कर्णपुष्पम् । पिपेस्तोन्तश्च पिष्टातकं वर्णचूर्णम् । आदिग्रहणात् कोशातक्यादयो भवन्ति ॥ ८३॥ इति इकादयो विंशतिसूत्रैः । एवं इति कोपान्त्यप्रत्ययप्रकरणं त्रिषष्ट्या सूत्रैः। शमिमनिभ्यां खः (८४) शमूच् शङ्खः कम्बुः निधिश्च । मनिंच
मङ्खः मागधः कृपणः चित्रपटश्च । मङ्खा मङ्गलम् ॥८४॥ श्यतेरिच वा (८५) शोंच् , शिखा चूडा ३० ज्वाला च । विशिखा आपणः । विशिखः बाणः । शाखा विटपः । विशाखा नक्षत्रम् । विशाखः स्कन्दः ॥ ८५॥ पूमुहोः पुन्मूरौ च (८६) पूङ मुहौच इत्येताभ्यां खः अनयोश्च यथासंभवमिमादेशौ स्याताम् । पुङ्खः बाणबनभागः मङ्गलाचारश्च । मूर्खः ॥८६॥ अशोर्डित (८७) खः अश्रुत इति खमाकाशमिन्द्रियं च । नास्ति खमस्मिन् नखः । शोभनानि खान्यस्मिन् सुखम् ।
दुष्टानि खान्यस्मिन् दुःखम् ॥८७॥ उषेः किल्लक् च (८८) 'उषू दाहे' अस्मात् कित्खप्रत्ययो लुक् ३५ चान्तस्य स्यात् । उपन्यस्यामिति उखा स्थाली ऊर्द्धक्रिया वा ॥८८॥ महेरुचास्य वा (८९) 'मह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org