________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां उणादयः
८९३ तिम्यति जलधरेण तिन्दुको वृक्षविशेषः॥५४॥मण्डेमड च (५५) मण्डेरुकः, अस्य मड आदेशः स्यात् । मडु मड्डकः वाद्यविशेषः ॥५५॥ कण्यर्णित् (५६) उकः । कणति विस्वरं काणुकः काकः । कणति प्राणी अस्मिन् नति काणुकः हिंस्रः । कण्यते अण्यते अक्षिदूषकतया काणुकं आणुकं च अक्षिमलम् ॥ ५६ ॥ कञ्चकांशुकनंशुकपाकुकहिबुकचिबुकजम्बुकचुलुकचूचुकोल्मुकभावुकपृथुकमधुकादयः (५७) एते किदुकप्रत्ययान्ता निपात्यन्ते । कचि अशौटि नशौच एषां५ खरान्नोऽन्तः कच्यतेऽङ्गेन अश्नुतेऽङ्ग कञ्चकः अंशुकम् । नश्यति गजमदादिना नश्यति चौरदर्शनात् नश्यति चन्द्रदर्शनमस्मिन् नंशुकः रणरेणुः प्रवासी चन्द्रप्रावरणं च । पचेः पाक् च शीघ्रं पचति पच्यते पचति हव्यं पाकुकः लघुपाची सूपः । सूपकारोऽध्वर्युश्च । हिनोतिचिनोतिजमतीनां बोऽन्तश्च । गच्छति चतुर्थभावं अगाधतां हिबुकं लग्नाच्चतुर्थ स्थानं रसातलं च । चीयते श्मश्रुभिः चिबुकं मुखाधोभागः । जमति बदिरादीनि जम्बुकः शृगालः। चुलुम्पः सौत्रः अन्त्यस्वरादिलोपश्च १० चुलुम्पतीति चुलुकः करकोशः । चतेश्च याच्यते स्तनन्धयेन चूचुकः स्तनाग्रभागः । ज्वलेरुल्म च ज्वलति वायुना उल्मकमलातम् । भातेर्वोन्तश्च भाति प्रियया भावुकः भगिनीपतिः । प्रथेवि॒च्च प्रथते क्रीडया स्वादेन पृथुकः बालः व्रीह्याद्यभ्यूषश्च । मचि धश्चान्तादेशः मच्यते मिश्रीक्रियते औषधेन मधुकं यष्टीमधु । आदिग्रहणात् वलते पित्तमनेन वल्यते जलेन वालुकी वालुका इत्यादयः ॥ ५७॥ इत्युकप्रत्ययः सप्तभिः सूत्रैः। मृमन्यञ्जिजलिबलितलिमलिमल्लिभालिमण्डिबन्धिभ्य ऊक १५ (५८) म्रियते पुलिन्दादिदर्शनात् म्रियते संग्रामे दवाग्निना मरूकः मयूरः मृगः निदर्शनेभः तृणं च । मन्यते क्षुद्रतया मनूकः कृमिजातिः । अनौप अनक्ति हिंसायाम् अञ्जूकः हिंस्रः। 'जल घात्ये' जलूका जलतन्तुः । बलत्युत्पलमस्मिन् बलति जले बलूकः उत्पलमूलं मत्स्यश्च । 'तलण प्रतिष्ठायाम्' तलूकः त्वकृमिः । मलि मल्यते सरोजैः मलूकः सरोजशकुनिः । महयते हेयभावं मल्लूकः कृमिजातिः । 'भलिण आभण्डने' भल्यते शबरादिना भालूकः ऋक्षः । मण्डति सरः मण्डूकः । बध्नाति २० साधुपुष्पाणि बन्धूकः बन्धुजीवः ॥ ५८॥ शल्यर्णित् (५९) ऊकः । शलति जलं संग्रामादिकं वा शालूकः कन्दविशेषः बलवांश्च । अण्यतेऽक्षिदूषणतया आणूकमक्षिमलम् ॥ ५९॥ कणिभल्लेर्दीर्घश्च वा (६०) कण्यते धान्यावयवतया कणति पक्ष्यन्तरदर्शनात् कणन्ति प्राहरिका अस्मिन् कणूकः धान्यावयवः । काणूकः पक्षी । काणूकमझिमलं तमो वा । भल्लयते हिंस्यते शबरादिना भल्लूकः भाल्लूकश्च ऋक्षः ॥ ६०॥ शम्बूकशाम्बूकवृधूकमधूकोलूकोरुबूकवरूकादयः (६१) एते २५ ऊकप्रत्ययान्ता निपात्यन्ते । शमेर्बोन्तो दीर्घश्च । शाम्यति अशिवमनेन शम्बूकः शङ्खः । शाम्बूकः स एव । वृश् , अस्य वृधभावश्च । वृणाति मातः क्रियते तृषातैः वृधूकः मातृवाहकः। वृधूकं जलम् । मदेर्धश्च मदयति मधूकः। अलेरूच्चोपान्त्यस्य अल्यते वार्यते दिवा काकैः उलूकः । उरुपूर्वात् वातेः किच्च उरु वाति उरुवूक एरण्डः । वृधेर्लोपश्च वर्द्धते इति वरूकः तृणजातिः । आदिग्रहणात् अनूकवावदूकादयो ज्ञेयाः ॥ ६१॥ इत्यूकप्रत्ययश्चतुर्भिः सूत्रैः। किरोडो रोलच वा (६२) कृत् करकः समुद्गः । कलकः लान्छनम् ॥ ६२॥ रालापाकाभ्यः कित् (६३) अङ्कः । रांक् , रकः निर्बलः । लांक् , लङ्का पुरी । पांक्, पङ्कः कदमः । के, कङ्कः पक्षी ॥१३॥ इत्यङ्कप्रत्ययो द्वाभ्यां सूत्राभ्याम् । कुलिचिरिभ्यामिङ्कक् (६४) 'कुल बन्धुसंस्त्यानयोः' कुलिङ्कः चटका । चिर हिंसायां सौत्रः चिरित जलयन्त्रम् ॥६४॥ कलेरविङ्क: (६५) कलते शब्दायते कलविङ्कः गृहचटका ॥६५॥ कमेरेलकः (६६) क्रमते शीघ्रं क्रमेलकः करभः ॥६६॥ जीवेरातको ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org