________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुमङ्गल्याभरणम् । वृग्ट् 'त्रीयतेऽनेन, वियते वृकेण, वियते शबरैः, वियते पुष्पादिना वर्वरीकः 'संवरणं उरणः पक्षी केशसंघातश्च । याच्यते विज्ञैः वर्वरीका सरस्वती । भृत् नियन्ते क्षुद्र जन्तवोऽस्मिन् म्रियतेऽनेन युद्धे, म्रियतेऽस्मिन् पारापतादिः मर्मरीकः अग्निः शूरः श्येनश्च ॥ ४७ ॥ ऋच्युजिहृषीषिशिमृडिशिलिनिलीभ्यः कित् (४८) ईकः । 'ऋचत् स्तुतौ' ऋच्यते विज्ञैः ५ऋचीकः ऋषिः । 'ऋजि गतिस्थानादिषु' गच्छतीन्द्रहस्ते, गम्यतेऽस्मिन् ऋजीकं वनं बलं स्थानं च । [खलं स्थालं च, मूलप्रतौ] हृषू हृषच् वा हर्षयलीकं भवति दोषैः हृष्यति सत्यदर्शनाद्वा हृषीकमिन्द्रियम् । इष ईष ईषि इष्यते २ वाचार्थिभिः इषीका, ईषीका तृणशलाका । दृश्यते आसक्त्या दृशीकं मनोज्ञम् । दृश्यते हेयतया दृशीका रजखला । मृडत् सुखने मृडीकं सुखकृत्सुखं च । 'शिलत्
उञ्छे' शिल्यतेऽर्थिभिः शिलीकः सस्यविशेषः । निलीयतेऽस्मिन् पुष्पादिकं निलीकं वृत्तम् बाहुल१० कादीलुक् ॥४८॥ मृदेवान्तश्च वा (४९) मृद्यते रसार्थिभिः मृद्वीका मृदीका च द्राक्षा ॥४९॥
मृणीकास्तीकप्रतीकपूतीकसमीकवाहीकवाल्हीकवल्मीककल्मलीकतिन्तिडीककऋणीककिङ्किणीकपुण्डरीकचश्वरीकफर्फरीकझझरीकघर्घरीकादयः (५०) एते किदीकप्र. त्ययान्ता निपात्यन्ते । सर्ते!न्तश्च । धावतीति, धावति वायुवशात् , धावति दानवान्प्रति, धावति निष्कारणं मृणीकः वायुः अग्निः अशनिः उन्मत्तश्च । सरति मुखे सृणीका लाला । अस्तेस्तोन्तश्च । १५सन्ति गुणा अस्मिन् अस्तीकः जरत्कारुसुतः । प्रातेस्तोऽन्तो ह्रखश्च, प्राति शरीरं प्रतीकः अवयवः
सुखं च । सुप्रतीकः दिग्गजः । पुवस्तोऽन्तश्च पूयते तृणार्थिभिः पूतीकं तृणजातिः । सम्पूर्वस्य एतेलृक् च । संयन्ति शूरा अस्मिन् समीकं सङ्घामः । वलिवल्ह्योर्दीर्घश्च । 'वलि वल्हि प्राधान्ये' वल्हते न्यायैः वाहीकः वाल्हीकः एतौ देशौ । वलेर्मोऽन्तश्च वलते कृम्यादिकं वल्मीकः नाकुः । कलेर्म
लश्चान्तः कलते शब्दायते वायुना कल्मलीकं ज्वाला । तिमेस्तिङ् चान्तः । तिम्यति शिशुस्नेहेन २० तिम्यति मुखमस्मात् तिन्तिडीकः पक्षी वृक्षाम्लश्व, तन्तिडीक इति पूर्वस्येत्वं नेच्छन्त्येके । चङ्कण्यतेः कङ्कण च कङ्कणीकः घण्टाजालम् । किमः परात् कणेः किण् च किमपि कणति किङ्किणीका घण्टिका । पुणेर्डर् चान्तः, पुण्डतेर्वा अर् । पुणति शोभते विपुण्डति प्रमर्दयति वान्यमदं विकासेन नैर्मल्येन शौर्येण वा पुण्डरीकं पद्मं छत्रं व्याघ्रश्च । चञ्चेरर चान्तः 'चन गतौ' चश्चति पुष्पाणि
चञ्चरीकः भ्रमरः । पिपर्तेर्गुणो द्वित्वं पकारयोः फत्वं रश्चान्तः पूर्वस्य पिपर्ति पालयति विरहिणं २५ पादौ शब्दविशेष वा फर्फरीकं, पल्लवं पादुका मईलिका च । झीर्यतेर्द्वित्वं तृतीयाभावः झीर्यति कालेन झर्झरीकं देहः । झर्झरीका वाद्यविशेषः । घरति ददाति घर्घरीका घण्टिका । आदिशब्दादन्येऽपि ॥ ५० ॥ इति ईकप्रत्ययः पञ्चभिः सूत्रैः। मिवमिकटिभल्लिकुहेरुकः (५१) डुमिंग्ट् मीयते रविणा मयुकः आतपः । बाहुलकात् मिग्मीगो इति नात्वम् । वमति जलं वमुकः मेघः । कटे कटति आवृणोति श्लेष्माणं कटुकः रसविशेषः । भलि भल्लि हिंस्यते लुब्धकैः भल्लुकः ऋक्षः । ३० कुहणि कुहयते जनं कुहुकमाश्चर्यम् ॥५१॥संविभ्यां कसे (५२) उकः। कस गतौ । संकसति मृदुत्वं दुष्टभावं सङ्गच्छते हविरादिना संकसुकः सुकुमारः परापवादशीलः श्राद्धाग्निश्च । संकस्यते व्यक्ताव्यक्ततया संकीर्णतया या संकसुकं व्यक्ताव्यक्तं संकीर्णं च । विकसन्ति गुणा अस्मिन् विकसत्यङ्गैः विकसुकः गुणवादी परिश्रान्तश्च ॥५२॥ क्रमेः कृम् च वा (५३) क्रमेरुकः कृम् चादेशो
वा स्यात् कामति बन्धनाय कामन्त्यत्र पक्षिणः कृमुको क्रमुकः बन्धनः । पूगतरुश्च ॥५३॥ कमि३५तिमेर्दान्तश्च (५४) आभ्यामुको दोन्तश्च स्यात् । काम्यते ख्यादिना कन्दुकः क्रीडनकम् । तिमच्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org