________________
८९१
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायां उणादयः आपनायति आपनिकः स्तावकः । आपनाय्यते परीक्षिकैः आपनिकः इन्द्रनीलमणिः इन्द्रकीलो वा । आपद्यते परीक्षिकैः आपदिकः इन्द्रनीलमणिः इन्द्रकीलो वा । आपतति प्रामादिकं सर्पादीन् वा आपतिकः पान्थः मयूरः, येनः, कालो वा । आपणिकादयश्चत्वारो वणिजोऽपि ॥ ३९॥ णसिवसिकसिभ्यो णित् (४०) इकः । 'णसि कौटिल्ये' नसते कुटिलीभवत्यहृद्यादिदर्शनादिति नासिका। वसति सौगन्ध्यमस्यां वसतिः । वसति तक्षपार्श्वे वा वासिका माल्यदामविशेषः छेदनोपकरणं च । 'कस ५ गतौ' (कसति) गच्छति पत्रादिसमृद्धि कासिका वनस्पतिः ॥४०॥ पापुलिकृषिक्रुशिवश्चिभ्यः कित (४१) इकः । पिबति विरहिणां रक्तं पिकः । पोलति प्रभया पुलिकः मणिः । कृषति भूमि कृषति पशुक्षुधं कृषिकश्च (क्रुशं क्रुशिक क्रोष्टुक उलूकश्च । ओवश्वौत् वृश्चिकः सविषकीटो राशिश्च नक्षत्रपादनवकरूपः)॥४१॥प्राङः पणिपनिकषिभ्यः (४२) कित् इकः । प्रकर्षणापणायति प्रापणिकः वणिक् । पनि स्तुतौ प्रापनायते वृक्षादिकं प्रापनिका पथिकः । 'कष हिंसायाम्' । प्राकषति १० सूक्ष्मजन्तून् सदाचार विरहिजनं पुष्पादिभिर्दुर्गन्धं प्राकषिक: वायुः खेलः नर्तकः मौलाकारश्च । प्रपूर्वापणेरापूर्वाच्च कषेरिच्छन्त्यन्ये । प्रपणिकः गन्धविक्रयी। आकषति विधीयमानः आकषिकः न कर्त्तव्यः॥४२॥ मुषेर्दीर्घश्व (४३) मुषेरिकः स्वरस्य च दीर्घः । मुष्णाति भक्ष्यादिकं मूषिकः आखुः ॥४३॥ स्यमे सीम् च (४४) स्यमेरिकः अस्य च सीम् इत्यादेशः । 'स्यमू शब्दे'। स्यमन्ति पक्षिणोऽस्मिन् स्यमति कष्टेनास्यां सत्यां जन इति सी मिकः वृक्षः उदकं कृमिश्च । सीमिका १५ उपजितिका । स्यमन्ति सर्पादयोऽस्मिन् सीमिकं वल्मीकम् । केचित् सिम् इति हस्खोपान्त्यमादेशं प्रत्ययस्य दीर्घत्वमिच्छन्ति । सिमीकः सूक्ष्मकृमिः ॥ ४४ ॥ कुशिकहृदिकमक्षिकेतिकपिपीलिकादयः (४५) एते किदिकप्रत्ययान्ता निपात्यन्ते । कुषेः श च, कुष्णाति दुष्कृतं कुशिकः मुनिः। हृगो दोऽन्तश्च हरति शत्रुप्राणान् हृदिको यादवः । मषेः सोन्तश्च, मष्यते हिंस्यते लूतादिभिर्मक्षिका क्षुद्रजन्तुः । एतेस्तोन्तश्च, एति सद्गतिं इतिकः मुनिः। पीलेझै च, पिपीलिका मध्यक्षामा कीटजातिः । २० आदिशब्दात् गदत्यव्यक्तं गब्दिकः पुरुषविशेषः । अथवा गद्यते उपादेयतया गब्दिका आस्तरणविशेषः । यस्य गादीति प्रसिद्धिः । बिभाश्रितान् भुरिकः भुलिकः इत्यादयो ज्ञेयाः ॥४५॥ इति इकप्रत्ययोऽष्टाभिः सूत्रैः । स्यमिकषिष्यनिमनिमलिवल्यलिपालिकणिभ्य ईकः (४६) व्युत्पत्तिर्यथासम्भवं प्राग्वत् । स्यमू स्यमीकः वृक्षः वल्मीकः नृपगोत्रं च, स्यमीकं जलम् , स्यमीका कृमिजातिः । कषति जन्तून् कषीका कुहालिका । दुषंच् ण्यन्तः दूषयति चक्षुः दूषीका नेत्रमलः २५ वीरणजातिः वर्तिः लता च । अनिति नद्या समूहिभिः अनन्ति वीरा अस्मिन् अनीकं सेनासमूहः सङ्ग्रामश्च । मन्यते सूक्ष्मतया मनीकः सूक्ष्मः । मल्यतेऽक्ष्णा मलते धारयति प्रद्वेषमलीकमञ्जनः मरिश्च । 'वलि संवरणे' । वलीकः बलवान् पटलान्तश्च वलीकं वेश्मदारु । अली वारयति सद्गति अलीकमसत्यम् । भूषयति खमलीका पण्यत्री । वारयति स्नेहं भूषयति स्त्री व्यलीकमागः । व्यलीका लज्जा । पलण पालयति यशः पालीकं तेजः । कण्यते उपादेयतया कणीकः पटवासः । कणीका ३० भिन्नतन्दुलावयवः वनस्पतिबीजं च ॥ ४६॥ जृपदृशृमृभ्यो द्वे रश्चादौ (४७) एभ्यः ईकः एषां द्वे रूपे आदौ च रः स्यात् । जीर्यति कालेन जर्जरीका शतपत्री । पूर्यते जलेन पृणाति लोकान् पर्परीका जलाशयः सूर्यश्च । पृणाति शीतात पूर्यते पितृभ्यां पृणाति भक्षक पूर्यते मृगार्थिभिः पर्परीकः अग्निः कुररः भक्ष्यः कुर्कुरश्च । दृणाति पित्तं शत्रून कर्ण दईरीकः दाडिमः इन्द्रः वादिनविशेषः वादित्रभाण्डं च । शीर्यते क्षिप्रं शृणात्यश्वं शर्शरीकः कृमिः दुष्टाश्वश्च । शृणात्यमङ्गलं शरीका ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org