________________
८९०
महामहोपाध्याय श्री विनयविजयगणिविरचितेखोपज्ञ है मलघु
"
जनपदः । रमिं, अस्य लमादेशे लमकः ऋषिविशेषः । क्षुदूंपी अस्य क्षुल्लादेशश्च । क्षुद्यतेऽनायासेन क्षुल्लकः दभ्रः । क्षुधं लातीति क्षुल्लः स एव क्षुल्लक इति वा । वट अस्य अवोन्तश्च । वेष्टते बहिः प्रवेशं वटवकस्तृणपुञ्जः । आङ् पूर्वात् ढौकतेर्डिच आढौकते मानकाले आढकं मानम् । आदिग्रहणात् बृहत्तत्रात् कला आपिबन्तीति शास्त्राणि । कथयतीति कथकः तोटकाख्यायिकादीनां ५ वर्णयिता । उम्भति मनोरथात् उपकः ऋषिविशेषः । चपति सान्त्वयति मानिनीः चम्पकः । फलति रक्षा अनेन हे फलहकः ॥ ३३ ॥ इत्यकप्रत्ययः सप्तभिः सूत्रैः । शलिब लिपतिवृतिनभिपटितटित डिगडि भन्दिवन्दिमन्दिनमिकुदुपूमनिखजिभ्य आकः (३४) शलति पूर्णभावं शलति तन्तुरनया शलाका एषणी पूरणरेखाद्यूतोपकरणं सूची च । 'बल प्राण' प्राणिति पयसा बलाका जलचरी शकुनिः । पत्ल गच्छति सैन्येन सह पताका । वृतुङ् १० वर्ताका शकुनिजातिः । णभच् नभाकः चक्रवाकजातिः काकश्च । पट गतौ पटति सैन्येन सह पटाका वैजयन्ती पक्षिजातिश्च । 'तट उच्छ्राये' तटति उच्छ्रयं करोति वर्षाभिः तटाकं सरः । तडण् आघाते आहन्यते जलैः तडाकं तदेव । 'गड सेचने' गड्यते तैलादिना गडाकः शाकजातिः । भदुङ् भन्दते सुखयति आदेशकारिणः भन्दाकं शासनमागमः । ताम्रपत्रलिखितं च । मदुङ् मन्दाका ओषधिः । णमं नमत्यार्येभ्यः नमाका म्लेच्छजातिः । कुङ् कवतेऽव्यक्तं शब्द १५ करोति कवकः पक्षी । टुदुं दुनोति धार्मिकान् वाकः म्लेच्छः । पूङ् पवते धान्यादि पवाका वात्या | मन्यते उपादेयतया राजभिः मनाका हस्तिनी । खज मध्यतेऽसौ खजाकः आकरः । मध्यतेऽनेन मन्था दर्विः । मध्यते पक्षिभिः खजाकं आकाशम् । मध्नाति युवमनः खजाकः बन्धकी । मध्यते रोगैः खजाकं शरीरम् । मध्यते विपक्षपक्षिभिः खजाकः पक्षी ॥ ३४ ॥ शुभिगृहि विदिपुलिगुभ्यः कित् (३५) आकः । शोभते व्योनि शुभाका पक्षिजाति: । गृह्यते २० गृहाकः । वेत्ति चेतयते शरीरं विदाका भूतग्रामः । पोलति महान् भवति पुलाक: अर्द्धस्विन्नधान्यविशेषः । गुङ् गुंतू वा गूयते उपादेयतया गूयतेऽनेन वा गुवाकं पूगफलम् ॥ ३५ ॥ पिषेः पिन्पिण्यौ च (३६) अस्मादाक: एतौ चास्यादेशौ स्याताम् । पिष्यते दानवकुलमनेन पिनाकमैशं धनुः शूलं च । पिष्यन्तेऽनेन वृक्षपत्राणि पिनाक: दण्डः । पिष्यते महिष्यादिदानाय पिण्याकस्तिला दिखलः ॥३६॥ मवाकश्यामाकवार्ताकवृन्ताकज्योन्ताकग्वाक भद्राकादयः (३७) एते आकप्रत्य - २५ यान्ता निपात्यन्ते । मव्य यलोपः मव्यति सम्बध्नाति वस्त्रादिकं मवाकः रेणुः । इयैङ्, श्यायते भोज्यभावमृषीणां मोऽन्ते श्यामाकः जघन्यो व्रीहिः । वृतेर्वृद्धिश्च वर्तते काशनाशाय वार्ताकी शाकविशेषः तत्फलं वार्ताकम् । स्वरान्नोऽन्तश्च । वृन्ताकी उच्च बृहती तस्फलं वृन्ताकम् । ज्युङ् न्तश्च प्रत्ययादिः । ज्यवतेऽस्मिन् स्विद्यमानः ज्योन्ताकं स्वेदसद्म विशेषः । गुंतू गुंङ् वा ऊवादेशश्च गूवाकं पूगफलम् । भदुङ् भन्दते सुखं जनाभं भद्राकः अकुटिलः । आदिग्रहणात् सीव्यति पुष्पादिकं स्योनाकः वृक्षः । ३० चर्वति तत्त्वं चार्वाकः नास्तिक: । पिपर्ति परभावं पराकः परकीयः ||३७|| इत्याकप्रत्ययं चतुर्भिः सूत्रैः । क्रीकल्यलिदलिस्फटिदूषिभ्य इकः (३८) क्रीणातीति क्रयिकः । कलन्ते शब्दायन्ते भृङ्गा अस्यां कलिका कोरकम् । उत्प्राबल्येन शब्दायते उत्कलिका तरङ्गः । अली (अल्यते) भूप्यते तिलकादिना अलिकं ललाटम् । दल्यते कुठारादिना दलिकं दारु । 'स्फट स्फुट्ट विशरणे' स्फटति विकसति प्रतिबिम्बमस्मिन् स्फटिक मणिः । दूषयति चक्षू दूषिका नेत्रमलः ॥ ३८ ॥ आङः पणि३५ पनिपदिपतिभ्यः (३९) इकः । आपण्यते स्तूयते ग्राम्यैः आपणिकः पत्तनवासी व्यवहारको वा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org