________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां उणादयः
८८९
दरक: मीरुः । कृत्, कीर्यते जलमस्मिन् करको जलभाजनं कमण्डलुञ्च, करका वर्षोपलः । नृशू नृणाति दुःखं नरकः । सुं सरकः मद्यविशेषः कंसभाजनविशेषश्च, सरका मधुपानवारः । टुडु - भृंग्क् भरकः गोण्यादिः । धृङ् धरकः सुवर्णोन्माननियुक्तस्तुलाधारी । 'वृग्ट् वरणे' । वरकः वधूजानिसहायः वाजसनेयभेदश्च । मृत् मरकः जनोपद्रवः । टुंगुकू स्तूयते भ्रमरैः स्तबकः पुष्पगुच्छः । कुंक् कवकं अभक्ष्यद्रव्यविशेषः । क्षुक् क्षवकः राजसर्षपः । लघु लङ्घकः रङ्गो-५ पजीवी । 'चर भक्षणे' चरकः मुनिः । चटण् भेदे चटकः पक्षी । कटे कटकः वलयः । कटु गतौ कण्टकः । 'चण् शब्दे' चणकः मुनिः धान्यविशेषश्च । चषी चषकः पानभाजनम् । फल फलकः खेटकम् । दुवम् वमकः कर्मकरः । तमू तमकः व्याधि क्रोधश्च । अव अवका शैवलम् | देवृङ् देवका अप्सराः, देविका नदी । बन्धंशू बन्धकः चारपालकः । कनै कनकं स्वर्णम् । जनैचि जनक: सीतापिता । 'मश रोषे च' मशति कर्णाभ्यर्णे मशकः । क्षर क्षारयति मरन्दं क्षारकं बाल- १० मुकुरम् । कुरत् कुरन्ति भृङ्गा अत्रेति कोरकं प्रौढमुकुलम् । वृतूङ् वर्त्तका वर्त्तिका वा शकुनिः । वल्लि वल्लते शोकं वल्लकी वीणा । मल्लि मल्लते तैलादि मल्लकः शरावः, मल्लिका पुष्पजातिः दीपा - धारश्च । सल्लः सौत्रः सल्लकी वृक्षः । सत्कृत्य लक्यते स्वाद्यते गजैरिति वा । अली अलति ख्यादिकं अलकः केशविन्यासः, अलका पुरी ||२७|| को रुरुण्टिरण्टिभ्यः (२८) कोः परेभ्यो एभ्योऽकः स्यात् । रुक् कुरवकः । रुटु कुरुण्टकः वर्णगुच्छः । रण्टि सौत्रः । कुरण्टकः स एव ॥ २८ ॥ १५ ध्रुधून्दिरुचितिलिपुलिकुलिक्षिपिक्षुपिक्षुभिलिखिभ्यः कित् (२९) एभ्यः कित् अकः स्यात् । धुं ध्रुवकः स्थिरः । तिष्ठन्ति व्रीह्मादयोऽस्यामिति ध्रुवका आवपनविशेषः । धूत् धुवकं धूननम्, धुवक: प्रधानम्, स्त्री ध्रुवका आवपनविशेषः । उन्दै उद्यते ओदनाद्यनेन उदकम् । रुचि शोभते ख्याद्यनेन रुचक आभरणविशेषः । तिलत् तिलन्ति स्निह्यन्ति वेश्यादयः पक्षिणो वास्मिन् तिलकः विशेषक: वृक्षविशेषश्च । 'पुलण् समुच्छ्राये' 'पुल महत्त्व' वा पोलति शरीरमस्मिन् पुलकः रोमाञ्चः | २० कुल कोलन्ति संहतीभवन्ति रूपाण्यस्मिन् कुलकं संयुक्तम् । क्षिपति तृणादिकं क्षिपको वायुः, क्षिपका आयुधम् । क्षुपः सौत्रः क्षोपन्ति ह्रस्वीभवन्ति शाखादयोऽस्मिन् क्षुपकः गुल्मः । क्षुभच् शुभकः पाञ्चालकः पाञ्चालेषु भवः 'बहुविषयेभ्यः ' ( ६।३।४५ ) इत्यन् । लिखत् लिखकः चित्रकर: ॥२९॥ छिदिभिदिपिटेर्वा (३०) एभ्योऽकः स च किद्वा छिदकः खङ्गः क्षुरच, छेदकः परशुः । भिदकं जलं भेदकं वज्रम् । 'पिट शब्दे च' पिटकः स्फोटक: पेटकं संघातम् ॥३०॥ कृषेर्गुणवृद्धी २५ च वा (३१) कर्षकः कृषकः परशुः । कार्षक: कृषकः कुटुम्बी ॥ ३१ ॥ नञः पुंसे: (३२) नमः परात् 'पुंसण आमर्दने' इत्यस्मात् कित् अकः स्यात् । नपुंसकम् । नखादित्वान्नवस्तादस्ध्यम् ॥३२॥ कीचकपेचकमेचकमेनकार्भकधमकवधकल घकजहकैर कैडकाइम कलमक क्षुल्लक वटवकाढकादयः (३३) एतेऽकप्रत्ययान्ता निपात्यन्ते । कचि अस्योपान्त्येत्वम् कचते वायुं कीचकः वंश - विशेषः । डुपचष् मचि मनिंचू एषामुपान्त्यस्य एत्वं पेचकः करिजघनभागः । मेचकः कर्णः । ३० मेनका अप्सराः । अर्तेर्भश्चान्तः । अर्भकः बालः । ध्मां अस्य धमादेशश्च धमकः कीटः कर्मारश्च । अन्यत्रापि धमादेशो दृश्यते । क्के धान्तः । हन्तेर्वधश्च वधकः हन्ता व्याधिश्च वधकं पद्मबीजम् । अन्यत्रापि दृश्यते । वृत्रं हन्ति अचि, वृत्रवधः शक्रः । वधिता निर्मोचकः । वध्यः वधनम् । लघुङ् नलुक् च लघकः असमीक्ष्यकारी । जहातेर्द्वे रूपे अन्तलुक् च जहकः कालः क्षुद्रध । ईरिक् ईडि अनयोर्गुणश्च का उदकतृणजातिः, एडका अविजातिः । अशौटि अस्य मोऽन्तः अश्मकः ३५ है० प्रका० उत्त० ११२
1
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org