________________
૮૮૮
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
कातरश्च । बिभेति वायोरिति मेघः । इणूक् एत्यद्वितीय इत्येकः असहाय उपादेयः सङ्ख्याप्रधानमसमानः अन्यश्च । शल शलन्त्यात्मरक्षणाय तमिति शल्कः शरणम् । शलति त्यक्तं बहिरिति शल्कं गृहीतरसं शकलम् । शल्कः काष्ठत्वक् मलिनं च काष्ठं मुद्गरः करणं च । 'वलि संवरणे' वल्कः दशनः वासस्त्वक् च । कलि, कल्कः कषायः दम्भः पिष्टपिण्डव । ५ अतति, अत्कः आत्मा वायुर्व्याधितः चन्द्रः उत्पातश्च । मर्थ सौत्रः मर्कः देवदारुः वायुः दानवः मनः पन्नगः विघ्नकारी च 'चजः कगम्' (२|१|८६ ) इति कत्वम् अर्च, अर्क: सूर्य: पुष्पजाति: डाट [ झाट ] जातिश्च । मृजौक्, मार्क: वायुः । कुंकू कोकः चक्रवाकः । तुंक्, तोकमपत्यम् । ष्टुंक् स्तोकमल्पं च । डुदांग्कू, दाकः यजमानः यज्ञश्च । डुधांग्कू धाक ओदनः अनड्वान् अम्भः स्तम्भञ्च । शंकू, राक: दाता अर्थः सूर्यश्च । रांका पूर्णिमा कुमार१० रजस्वला च । त्रैङ्, त्राकः धर्मः शरणस्थानीयश्च । कैं काकः । पापां वा, पाको बाल: असुरः
पर्वतश्च । ओहांकू, निहाको निःस्नेहः । निर्मोचकच । निहाका गोधा । शुं गतौ, न शवतीति अशोकः ॥ २१ ॥ विचिपुषिमुषिशुष्यविसृवृशुसुभूधूमूनीवीभ्यः (२२) कित् कः स्यात् । विचंपी, विक्कः विंशतिवर्षः करी । पुषं पुष्कश्चन्द्रः । मुषश् मुष्कचौरो मांसलो वा मुष्कौ वृषणौ । शुषंच्, शुष्कं विगतरसम् । 'अव रक्षणादिषु' । ऊकः कुन्दुमः । म्रं, सृकः वायुः बाणः सृगालो १५बको निरयश्च । सृका आयुधविशेषः । वृगूद्, वृङ्श् वा वृकः मृगजातिः आदित्यो धूर्त्तः जाठर
श्वाग्निः । शुं शुकः कीर ऋषिश्च । घुंगूद्, सुको निरामयः । भू, भूकः कालः छिद्रं च । धूत धूग्ट् धूग्श् वा धूको वायुर्व्याधिश्च । धूका पताका । मूङ् मूकः अवाक् । णींग् नीकः खगः ज्ञाता च । नीका सारणी ज्ञातिश्च । वींक्, वीकः वायुः नाशः अर्थः मनः वसन्तश्व, वीका पक्षिजातिनैत्रमलं च ॥ २२ ॥ कृगो वा (२३) अस्मात्कः, स च किद्वा । कर्कः अग्निः सारङ्गः दर्भः श्वेता२० श्वश्च । कृकः शिरोग्रीवम् || २३ || घुयुहि पितुशोदर्घश्च (२४) एभ्यः कित्कः, एषां च दीर्घः । 'घु शब्दे' घूकः कौशिकः । युक् यूका क्षुद्रजन्तुः । हिंदू, हीकः पक्षी । 'पिंत् गतौ' पीक उपस्थ जलाश्रयश्च । तुंकू तूक उपस्थ पर्वतश्च । शुं शुकः किंशारुः अभिषवः शोकश्च । शूका हृल्लेख: ॥ २४ ॥ हियो रच लो वा (२५) हियः कित्कः रस्य लो वा स्यात् । ह्रीकः ह्रीकः लज्जापरः नकुलश्च । ह्रीको लिङ्ग्यपि ॥ २५ ॥ निष्कतुरुष्कोदर्कालर्कशुल्कश्व फल्क किञ्जल्कोल्कावृक्क२५ छेककेकायस्कादयः (२६) एते कप्रत्ययान्ता निपात्यन्ते । नेः सीदतेर्डिच्च निषीदन्ति गुणा अस्मिन्निति निष्कः सुवर्णादि । तूरैचि तूर्यते पान्थोपकाराय, प्रायेण हिंसायैव । हस्व उपश्चान्तः तुरुष्कः वृक्षो म्लेच्छश्च । उदः परादर्त्तेः उदियर्त्ति क्रियायाः सकाशात् उदर्कः क्रियाफलम् । 'अली भूषणादौ' अल्यते वार्यते कष्टेन अस्मादर् चान्तः अलर्क उन्मत्तः श्वा, मदालसात्मजश्च । शल गतावित्यस्योपान्त्योत्वम् शुल्कं रक्षानिर्देशः । शुनः परात्फा (फ? ) लेर्हस्वश्च श्वफल्कः अन्धकविशेषः । किमः परात् ३० जुषो रस्य लश्च किञ्जल्कः पुष्परेणुः । ज्वलेरुलादेशश्च, उलेः सौत्रस्य वा उल्का उत्पातिकं ज्योतिः अग्निज्वाला च । वृजैकि अगुणत्वं च । वृज्यते ( वर्ज्यते ? ) मांसभक्षकैरपि वृको मुष्कः । सन्देहात् छेक: मनीषी । कायति मयूरः केका । यमेर्मस्य सः यस्कः । आदिग्रहणात् स्पृश्यते गन्धार्थिभिः । स्पृक्का गन्धद्रव्यविशेषः । ढौकते प्रयाणकाले ढक्का ।। २६ ।। इति कप्रत्ययः षड्भिः सूत्रैः । सृभृधृवृमृस्तुकुक्षुलङ्घ्रिचरिचटिकटिकण्डिचणिचषिफलिव मितम्यविदेविवन्धिक३५ निजनिमशिक्षारिकुरिवृतिवल्लिमल्लिसल्लयलिभ्योऽकः (२७) दृश् दृणाति
1
दुकान
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org