________________
८८७
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायां उणादयः औषधजातिः । टिस्वात् डीः ॥ ११ ॥ ऋमिमथिभ्यां चन्मनौ च (१२) द्वित्वे पूर्वस्य स्थाने यथासक्यं चन् मन् इत्यादेशौ स्याताम् । कामति सुखेनानेनाऽस्मिन्वा चङ्गमः सक्रमः । मथे मथति चित्तं रागिणां मन्मथः ॥१२॥ गमेर्जम् च वा (१३) द्वित्वे पूर्वस्य जमित्यादेशो वा स्यात् । गच्छति पादविहरणं करोति जङ्गमः चरः। गच्छत्यमाध्यस्थ्यं गङ्गमश्चपल: ॥ १३ ॥ अदुपान्त्यऋग्यामश्चान्ते (१४) अकारोपान्त्याइकारान्ताञ्च अः स्यात् । द्वित्वे पूर्वस्या-५ न्तेऽकारः स्यात् । शल सल गतौ शलशलः सलसलः । 'हल विलेखने' हलहलः । 'कलि शब्दसङ्ख्यानयोः' कलकलः । 'मलि धारणे' मलमलः । घटिष् घटघटः । वद वदवदः । पदिंच पदपदः । ऋदन्त, डुकंग करकरः। मृत मरमरः हलत दरदरः। संसरसरः । ग्ट वरवरः । अनुकरणशब्दा एते ॥१४॥ मषमसेवा (१५) द्वित्वे पूर्वस्यान्ते अकारो वा । 'मष हिंसायाम्' मषमषः । मष्मषः ॥ मसमस मस्मसः ॥ १५॥ हृमृफलिकषेरा च (१६) द्वित्वे पूर्वस्य आकारोऽन्ते १० स्यात् । हरति नयति शस्त्राण्यस्खलन लक्ष्यम् हराहरो योग्याचार्यः । धावति वायुना नीयमानः समन्तात् सरासरो मृगः । फलति निष्पादयति नानापुष्पफलानि फलाफलमरण्यम् । कषति विदा. रयति कषाकषः कृमिजातिः॥१६॥ इदुदुपान्त्याभ्यां किदिदुतौ च (१७) इकारोपान्त्यादुकारोपान्त्याञ्च कित् अः स्यात् । पूर्वस्य यथासङ्ख्यमिकारोकारौ चान्ते स्याताम् । 'किलत् श्वैत्यक्रीडनयोः' किलिकिलः । 'हिलत् हावकरणे' हिलिहिलः । 'शिलत् सिलत् उञ्छे' सिलिसिलः । 'छुरत् छेदने छुरु- १५ छुरः । 'मुरत् संवेष्टने' मुरुमुरः । 'घुरत् भीमार्थशब्दयोः' धुरुधुरः । 'पुरत् अग्रगमने' पुरुपुरः । 'सुरत् ऐश्वर्यदीप्त्योः' सुरुसुरः । 'कुरत् शब्दे' कुरुकुरः । 'चुरण स्तेये' चुरुचुरः । 'हुल हिंसासंवरणयोश्च हुलुहलः । 'गुजत् शब्दे' गुजुगुजः । 'गुडत् रक्षायाम्' गुडुगुडः । 'कुटत् कौटिल्ये' कुटुकुटः । 'पुटत् संश्लेषणे पुटुपुटः । 'कुणत् शब्दोपकरणयोः' कुणुकुणः । 'मुणत् प्रतिज्ञाने' मुणुमुणः । अनुकरणशब्द एते ॥ १७ ॥ जजलतितलकाकोलीसरीसृपादयः (१८) एते निपात्यन्ते । 'जल घात्ये' द्वित्वे २० पूर्वस्य जभावे जजलो यस्य जाजलिः पुत्रः । 'तिलत् स्नेहने' पूर्वस्य तिभावे धातोरिकारस्य अकारे तितलः प्रीतिकरः । 'कुल बन्धुसंस्त्यानयोः' अस्य द्वित्वे पूर्वस्य काभावे काकोली क्षीरकाकोली च वल्लीजातिः दुघेलीप्रसिद्धिः । 'सृप्लं गतौ' द्वित्वे गुणाभावे पूर्वस्य सरीभावे सरीसृपः उरगजातिः । आदिग्रहणाद्यथादर्शनमन्येऽपि ॥ १८॥ बहुलं गुणवृद्धी चादेः (१९) धातो किदः द्वित्वे पूर्वस्य चेकारोकारावन्ते स्याताम् । यथादर्शनं च गुणवृद्धी । केलिकिलः कैलिकिलश्च हसनशीलः ।२५ हेलिहिलः हैलिहिलश्च विलसनशीलः । शेलिशिलः शैलिशिलश्च । शोभते पुनः पुनरिति शोभुशुभः शौभुशुभः । नुदति पुनः पुनरिति नोदुनुदः नौदुनुदः । 'गुडत् रक्षायाम्' गुडति भ्राम्यति पुनः पुनरिति गोलुगुलः गौलुगुलः । 'बुलण निमज्जने' बोलयति पुनः पुनरिति बोलुबुलः बौलुबुलः । तत्तद्धात्वर्थास्तच्छीला अनुवाद विशेषा वा एते ॥१९॥ णेलप् (२०) अप्रत्ययसन्नियोगे बहुलम् । वत्रं धारयति वनधरः इन्द्रः । जलधरो मेघः । बाहुलकात् प्रत्ययान्तरेऽपि । देवयतीति द्यौः व्योम ३० स्वर्गश्च । पुण्यं कारयन्तीति पुण्यकृतो देवाः । पर्ण शोषयतीति पर्णशुद् । 'वान्ति पर्णशुषो वातास्ततः पर्णमुचः परे । ततः पर्णरुहः पश्चात् ततो देवः प्रवर्षति' । तथा कारयाश्चक्रुराकन्दानिति प्राप्ते महतश्चक्रुराक्रन्दानिति स्यात् । 'महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः'। घोषयाञ्चक्रुरित्यर्थः ॥ २० ॥ इत्यकरणमेकोनविंशत्या सूत्रैः। भीण्श लिवलिकल्यतिमय॑र्चिमृजिकुतुस्तुदाधारात्राकापानिहानशुभ्यः कः (२१) बिभेति दुन्दुभात्सर्पविशेषात्परस्माच्च भेको मण्डूकः ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org