________________
८८६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुवांक् (ओ)मैं वा वाति वायति वा द्रव्याणि वायुः । पां पिबन्त्यनेन तैलादिद्रव्यम् पायुः अपानमुपस्थश्च, पातिपायत्योस्त्वर्थासङ्गतेन ग्रहणम् । जि जयत्यनेन रोगान् श्लेष्माणं वा जायुः औषधं पित्तं वा । ध्वदि स्वद्यते इदमनेन वा स्वादुः रुच्यं वदनं वा । साधंट क्षमादिभिः सानोति, परमपदं साधयति वा साधुः । अशौटि अनुते तेजसा सर्वं केदारं वा आशुः सूर्यो व्रीहिश्च, अशनं वा आशु, ५क्षिप्रं अश्रुते इति वा आशुः शीघ्रगामी शीघ्रकारी च । दृ दृश् वा दरति दृणाति दीर्यते वा दारु काष्ठं भव्यं च । ष्ण स्नायति स्नायुः अस्थिनहनम् । षन षणूयी वा सनति सनोति वा मृगानीति सानुः पर्वतैकदेशः । जनैचि जायतेऽनेनाकुञ्चनादि जानु ऊरुजङ्घासन्धिः । जानीत्याकारनिर्देशात् 'न जनवधः' (४।३।५४ ) इति वृद्धिनिषेधो न स्यात् । रह रहति गृहीत्वा सूर्याचन्द्रमसौ राहुः । इणक् एति
आयुः पुरुषः शकटं औषधं जीवनं वृत्तिर्जलं चेत्यर्थः । पुरूरवः पुत्रो वा । जरायुर्गर्भवेष्टनं शैवालम् । १० जटायुः पक्षी । धनायुर्देशः । रसायुधमरः ॥१॥ अः (२) सर्वस्माद्धातोरः प्रत्ययः स्यात् । भवः भषः
तरः वरः प्लवः शरः शयः परः करः चरः स्तवः वदः॥२॥ म्लेच्छीडेहखश्च वा (३) म्लिच्छः मूकः । म्लेच्छः कुमनुष्यजातिः। ईड इडश्च देवताविशेषौ मेदिनी च ॥३॥ नञः ऋमिगमिशमिखन्याकमिभ्यो डित् (४) अः स्यात् । न कामति नक्रः जलचरो ग्राहः । नगो वृक्षो गिरिश्च । शमूच नशः यक्षः। खनूग नखः । नास्य खमस्तीति वा । कमि नाकः स्वर्गः, १५ नात्राकं दुःखमस्तीति वा । सर्वत्र नखादित्वान्नअस्तादवस्थ्यम् ॥४॥ तुदादिविषिगुहिभ्यः कित् (५) अः स्यात् । तुदः नुदः क्षिपः । 'सुरत् ऐश्वर्यदीप्त्योः' सुरः । 'बुध अवगमे' बुधः । शिवः । तुदादिर्न धातुगणः किन्त्वन्य एव तेन बुधादीनां ग्रहणम् । तुदादीनां यथासम्भवं कारकविधिः । वेवेष्टि विषं प्राणहरं द्रव्यम् । गृहति गुहः स्कन्दः । गुहा दरी ॥५॥ विन्देन लुक् च
(६) 'विदु अवयवे' । अस्मारिकत् अस्तद्योगे च नलुक् स्यात् । विदः गोत्रकृवृक्षजातिश्च ॥ ६॥ २० कृगो द्वे च (७) अस्मात् कित् अः स्यात् । इतः सूत्रादारभ्य द्वादशसु सूत्रेषु अः प्रत्ययः स्यात् । धातोश्च द्वे रूपे भवत इति द्वयमनुवर्तनीयम् । विशेषो यथास्थानं वक्ष्यते। चक्रं रथाङ्गमायुधं च ॥ ७॥ कनिगदिमनेः सरूपे (८) किदिति निवृत्तम् । एषां च समाने द्वे रूपे स्याताम् । कनति दीप्यते कङ्कनः कान्तः । अव्यक्तं गदति गद्गदोऽव्यक्तवाक् । अव्यक्तं गद्यते
गद्गदमव्यक्तवचनम् । मन्मनोऽस्पष्टवाक् । सरूपग्रहणं 'व्यञ्जनस्यानादेर्लुक्' (४।१।४४) इत्यादि२५ कार्यनिवृत्त्यर्थम् ॥ ८ ॥ ऋतष्टित् (९) दृश् दीयतेऽनेन श्रोत्रमिति दर्दरो वाद्य विशेषः
पर्वतश्च । दर्दरी सस्यलुण्टिः । कृत् कर्करः क्षुद्राश्मा । कर्करी गलन्तिका । वृगश् वर्वरः म्लेच्छजातिः, वर्वरी केशजातिः । भृश् भर्भरः छमवान् , भर्भरी श्रीः । जृषच झूषच जर्जरः अदृढः, जर्जरी स्त्री । झर्झरः वाद्यविशेषः, झर्झरी झल्लरिका । गृत् गर्गरो राजर्षिः । गर्गरी महाकुम्भः । मृश् मर्मरः शुष्कपत्रप्रकरः । तद्धर्मान्योऽपि क्षोदासहिष्णुः दानवश्च । मर्मरायां ३० दूर्वायामित्यादौ टित्त्वेऽपि डीने बहुलाधिकारात् । तत एव ऋकारान्तादपि । घं घर्घरः सघोषो
ऽव्यक्तवाक् । घर्घरी किङ्कणिका ॥ ९॥ किच (१०) ऋकारान्ताद्यथादर्शनं कित् अः स्यात् । मृश् मूर्यतेऽनेन मुर्मुरः ज्वलदङ्गाल [ र] चूर्णम् । पश् पूर्यत जलघातेन पुपुरः फेनः । तृ तीर्यतेऽनेनास्मिन्वा तितिरः सेतुः । भश भूर्यते सञ्चीयते भुर्भुरः सञ्चयः । शुश् शीर्यते समन्तात् शिशिरः पुञ्जः ॥ १० ॥ पृपलिभ्यां टित् पिप् च पूर्वस्य (११) आभ्यां टित् अः ३५ द्वित्वे पूर्वस्य पिपू आदेशः। पूणाति छायया पिप्परी वृक्षजातिः । 'पल गतौ' पलति आतुरम् पिप्पली
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org