________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां उणादयः निरनुबन्धग्रहणात् धूग्सुडोर्न भवति । खनित्रं चरित्रं सहित्रम् । ऋच्छतीयर्तिवानेनारित्रम् । वहेरपि कश्चित् वहित्रम् । 'नीदांवशसूयुयुजस्तुतुदसिसिचमिहपतपानहस्त्रट्' (५।२।८८) एभ्यः सत्यर्थे वर्तमानेभ्यः करणे ब्रट् स्यात् । नीयतेऽनेन नेत्रम् । दांव दान्त्यनेन दात्रम् । शस् शस्त्रम् । यु, योत्रम् । युज, योझम् । स्तु, स्तोत्रम् । तुद्, तोत्रम् । सि, सेत्रम् । सिच्, सेक्रम् । मिह मेढ़म् । पत् पत्रम् । पा, पात्रम् । नहः नध्रः नधी । टकारो ड्यर्थः । 'हलक्रोडास्ये पुवः' (५।२।५ ८९) पुवो हलास्ये क्रोडास्ये च करणे त्रट् स्यात् । पुनाति पवते वानेन पोत्रं हलस्य सूकरस्य च मुखमुच्यते । 'दशेस्त्रः' (५।२।९०) दंशेः सत्यर्थे वर्तमानात् करणे त्रः स्यात् । दशत्यनया दंष्ट्रा प्रत्ययान्तकरणमाबर्थम् । 'धात्री' (५।२।९१) धेर्दधातेर्वा कर्मणि ब्रट् स्यात् । धयति तां धात्री स्तनदायिनी । द्धति तां भैषज्यार्थं धात्री आमलकी ॥ १४३॥
ज्योतियोतितचिच्चमत्कृतिगलज्जाड्यामयं वाङ्मयम्
निस्तन्द्रं प्रणिधाय सद्गुरुकृपाप्राप्तानवद्योद्यमः । नानार्थप्रगुणैरुणादिभिरथोद्यत्प्रत्ययैः प्रत्ययैः
प्रव्यक्तान् प्रयते विविक्तुमनघान् शब्दप्रयोगानिह ॥ १ ॥
उणादयः ॥ १४४ ॥ [सि० ५।२।९३] बहुलमिति वर्त्तते । सत्यर्थे वर्तमानाद्धातोरुणादयः प्रत्ययाः बहुलं स्युः ॥ १४४ ॥ १५
बहुलमिति वचनात् प्रायः संज्ञाशब्दाः केचित्त्वसंज्ञाशब्दा अपि, तथा सति विहिता उणादयः कचिद्भूतेऽपि दृश्यन्ते । भसितं तदिति भस्म । कषितोऽसौ कषिः । ततोऽसौ ततिः। वृत्तं तदिति वर्त्म । चरितं तदिति चर्म । अद्भ्यः सरन्ति स्म अप्सरसः। 'भीमादयोऽपादाने' (५।१।१४) एते अपादाने साधवः स्युः । बिभेत्यस्मादिति भीमः । एवं भीष्मः । भयानकः । चरन्त्यस्मादिति चरुः । 'उदिपु क्वेदने । समुदन्त्यार्दीभवन्त्यस्मात्तटवनानीति समुद्रः 'सुं गतौ' । स्रवतीत्याह विरिति २० सुवः । स्रुक् । रक्षः । संकसुकः । खलति । उणादिप्रत्ययान्ता एते सम्प्रदानाचान्यत्रोणादयः इति निषेधेनाप्राप्ता निपात्यन्ते । 'संप्रदानाचान्यत्रोणादयः' (५।१।१५) संप्रदानादपादानाच्चान्यत्र कारके भावे चोणादयः स्युः । कृत्त्वात्कर्तर्येव प्राप्ताः कर्मादिष्वपि कथ्यन्ते। कषितोऽसाविति कर्मणि कषिः । तन्यतेऽसाविति तनुः । ऋचन्ति तयेति रिक् । वृत्तं तत्रेति वर्म । अत्र श्रीसूरयः सम्प्रदायानुरोधात्पूर्वमुण्प्रत्ययमभिधाय स्वरादिक्रमेण प्रत्ययानभिधास्यन्ति । तत्रापि पूर्व केवलोकार:२५ प्रत्ययः । ततः स एव कादिक्रमेण व्यञ्जनोपहितो यथा का प्रत्ययः खः प्रत्ययः इत्यादि । ततस्त एव कादिप्रत्ययाः क्रमेण स्वरादयो यथा अक आक इक ईक इत्यादि । ततस्त एव अनेकवर्णादयो यथा एलक आतक इत्यादि । एवं खादयोऽपि । ततः केवल इकारप्रत्ययस्ततः स क्रमेण व्यञ्जनोपहित इत्यादि सर्व यथासम्भवं तथैव यावदौदन्ताः स्वरास्ततः क्रमेण व्यञ्जनान्ताः प्रत्यया यथा किक् प्रत्यय इत्याद्याचार्यचक्रवर्तिनो रचनाचातुरी कियद्विवेत्तुं शक्यत इति। ३०
कृवापाजिखदिसाध्यशोदृस्लासनिजानिरहीणभ्य उण् । (१) डुकंग कंग्ट् वा, निरनुबन्धग्रहणे सामान्यग्रहणात् । करोति कणोति वा कारुः । नापितादिः । ३२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org