________________
८८४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुस्म्यजसहिंसदीपकम्पकमनमो रः ॥ १४० ॥ [सि० ५।२७९ ] एभ्यः सप्तभ्यो र स्यात् । अजस्रम् । हिंस्रः । दीपः । कम्पः । कम्रः । नम्रः॥१४० ॥ 'स्म्य' स्मयते इत्येवंशीलं स्मेरं मुखम् । अजस्रमिति 'जसूच क्षेपणे' नपूर्वः । न जस्यत्यजस्रं श्रवणम् । अजस्रा प्रवृत्तिः । अजस्रः पाकः । अजस्रं पचति । अजस्रशब्दोऽयं स्वभावात्सातत्य५विशिष्टां क्रियामाह, तेन धात्वर्थ एव कर्तरि रः प्रत्ययोऽन्यथा क्रियाभिधानानुपपत्तेः, तेनाजस्रो घट इति न भवति । अजस्रमिति अव्ययमपि नित्यार्थ क्रियाविशेषणमस्ति । 'हिंस्र हिंसागत्योः । हिंस्रो व्याधः । एवं दीप्रः कम्प्रः । कामयते कम्रा युवतिः । बहुलाधिकारात् कर्मण्यपि । कम्यते कम्रः । तत एव कमितेत्यपि । नमतीति नम्रः । अजसिकमिनमिभ्यः कर्मकर्तर्यवेच्छन्त्येके ।। १४०।।
तृषिधृषिखपो नजिङ् ॥ १४१॥ [सि० ५।२।८०] १० एभ्यो नजिङ् प्रत्यय: स्यात् । तृष्णक् धृष्णक् । खमक् ॥ १४१॥
'तृषिः' इकारस्काराविति । तत्र इकार उच्चारणार्थः । उकारो गुणप्रतिषेधार्थः । तृष्यतीत्येवं. शीलः तृष्णक् धृष्णक स्वप्रक् ॥ १४१ ॥
स्थेशभासपिसकसो वरः ॥ १४२॥ [सि० ५।२।८१] स्पष्टम् । स्थावर । ईश्वरः । भास्वरः । पेखरः। विकस्वरः॥१४२ ॥ १५ 'स्थेश' एभ्यो वरः स्यात् । तिष्ठतीत्येवंशीलः स्थावरः स्थावरा । एवं ईश्वरः २ । भास्वरः २ ।
पेस्वरः २ । विकस्वरः २ । अनायं विशेषः 'यायावर' (५।२।८२) यातेर्धातोः शीलादौ सत्यर्थे वर्तमानाद्यङन्ताद्वरः प्रत्ययो निपात्यते । यायायते इत्येवंशीलः यायावरः कुटिलं यातीत्यर्थः । अत्र 'दिद्युददृज्जगजुहू' (५।२।८३) इत्यादि सूत्रेण शीलादि सदर्थे कि विधीयते । स सामान्यकिबधिकारे ( पृष्ठ ८५४) उक्त एतत्सूत्रमपि तत्रैवोक्तमिति । ततोऽनुसन्धेयम् । इति शीलादि२० सदर्थप्रकरणम् । एवमित्यादि दुश्च इत्रश्च त्रश्च त्रट्क्ता एते च वर्त्तमानेभ्यो धातुभ्यो यथासूत्रं भवन्ति । तत्र प्रथमं डुप्रत्ययसूत्रं कण्ठतो निर्दिशति ॥ १४२ ॥
शंसंवयंविप्रा वो दुः॥१४३ ॥ [सि० ५।२।८४] एभ्यः पराद्धवो डुः स्यात् । शम्भुः । सम्भुः । स्वयम्भुः। विभुः । प्रभुः॥१४३ ॥
'शंसं०' एभ्यः पराद्भुवः सत्यर्थे वर्तमानात् डुः स्यात् । शं सुखं तत्र भवति शम्भुः शङ्करः । २५ सम्भुर्जनयिता । स्वयम्भुब्रह्मा, विभुयापकः । प्रभुः स्वामी । बहुलाधिकारात् शम्भुः संज्ञाया
मन्ये त्वसंज्ञायामपि । मितद् आदयस्त्वौणादिकाः मितद्रुः समुद्रः । शेषप्रत्ययसूत्राणि त्वेवम् । 'पुव इत्रो दैवते' (५।२।८५) सामान्यनिर्देशात्पुवतेः पुनातेश्च देवतायां कर्तरि सत्यर्थे इत्रः स्यात् । पुनाति पवते वा पवित्रोऽर्हन् । स मां पुनातु । करणेऽप्यन्ये । 'ऋषिनानोः करणे' (५।२।८६)
पुव इत्रः । पूयतेऽनेनेति पवित्रोऽयमृषिः । नाम्नि दर्भः पवित्रः । बर्हिः पवित्रम् । यज्ञोपवीतं पवि३० त्रम् । ओघोपकरणं पवित्रम् । पवित्रा नदी । दर्भादीनां पवित्रमिति संज्ञा । ऋषौ कर्त्तर्यपि केचित् ।
'लूधूसूखनचरसहार्ते' (५।२।८७ ) एभ्यः सप्तभ्यः सत्यर्थे वर्तमानेभ्यः करणे इत्रः स्यात् । ३२ लुनात्यनेन लवित्रम् । धुवत्यनेन धवित्रम् । धुनोतेरपि कश्चित् । धवित्रम् । सुवत्यनेन सवित्रम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org