SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रिया ८८३ 'वृभि०' एभ्यः शीलादौ सत्यर्थे वर्त्तमानेभ्यष्टाकः स्यात् । 'वृश संभक्तौ' । वृणीते इत्येवंशीलो वराकः । प्रत्ययस्य दित्त्वात् स्त्रियां ङीः वराकी । भिक्षाकः २ | जल्पाकः २ । कुट्टाकः २ । आदिशब्दानुवृत्तेः 'प्रात्सूजोरिन' (५/२/७१ ) प्रात्पराभ्यां सुवतिजुभ्यामिन् स्यात् । इति निरनुबन्धग्रहणात् सुवतेर्ग्रहणं न सूतिसूयत्योः । प्रसुवति-प्रजवतीत्येवंशीलः प्रसवी प्रजवी | 'जीणहक्षिविश्रिपरिभूवमाभ्यामाव्यथः (५/२/७२ ) एभ्य इन् स्यात् । जयतीत्येवंशीलो ५ जयी । इण् अत्ययी उदयी । द्द, आदरी । क्षीति क्षिक्षितोर्ग्रहणम् । क्षयी | विश्रि विश्रयी । परिभू परिभवी । वम् वमी । अभ्यम् अभ्यमी । अव्यथ् न व्यथते अव्यथी ॥ १३४ ॥ सूत्रम् सृघस्यदो मरक् ॥ १३५ ॥ [ सि० ५/२/७३ ] सृमरः । घस्मरः । अनरः ।। १३५ ।। 'सृघ०' एभ्यो मरक् स्यात् । सरतीत्येवंशीलः सृमरः प्रसृमरः । घस्मरः अद्मरः ॥ १३५ ॥ १० भञ्जिभसिमिदो घुरः ॥ १३६ ॥ [ सि० ५|२|७४ ] घुरः । भङ्गुरम् । भासुरम् | मेदुरम् ॥ १३६ ॥ 'भञ्जि०' भज्यते स्वयमेवेत्येवंशीलं भङ्गरम् काष्ठम् । भासुरम् वपुः । मेदते मेद्यते वा मेदुरः । कारो गत्वार्थः ॥ १३६ ॥ वेत्तिच्छिदभिदः कित् ॥ १३७ ॥ [ सि० ५|२|७५ ] घुरः । विदुरः । छिदुरः । भिदुरः ॥ १३७ ॥ 'वेत्ति०' वेत्तीत्येवंशीलो विदुरः । छिद्यते भिद्यते स्वयमेव छिदुरः भिदुरः । किन्वाद्गुणाभावः । वेन्तीति तिवा निर्देश इतरविदित्रयव्युदासार्थः । व्याप्ये घुरकेलिमकृष्टपच्यम् (५1१1४ ) इति वक्ष्यमाणसूत्रादयं घुरप्रत्ययः । कर्मकर्त्तरीति ज्ञेयम् । भासमिदिविदां कर्त्तर्येव घुरः कर्मकर्त्तुर - सम्भवात् । भासते इत्येवंशीलः भासुरः मेदुरः विदुरः । केचिच्छिदिभिदोरपि कर्त्तरि घुरमि - २० च्छन्ति । 'दोषान्धकारभिदुरो' 'हप्तारिवक्षच्छिदुर' इति ॥ १३७ ॥ भयो रुरुकलुकम् ॥ १३८ ॥ [ सि० ५/२/७६ ] भीरुः । भीरुकः भीलुकः ॥ १३८ ॥ 'भियो' बिभेतीत्येवंशीलो भीरुः भीरुकः भीलुकः । ऋफिडादित्वाल्लत्वं प्रयोगानुसरणाद्गरीय इति लाघवार्थ लुकप्रत्ययविधानम् ॥ १३८ ॥ सृजीणूनशष्ट्ट्ररप् ॥ १३९ ॥ [ सि० ५।२७७ ] एभ्यः कित् द्वरप् स्यात् । प्रसृत्वरः । जित्वरः । इत्वरः । नश्वरः । 'गत्वर:' ( ५१२७८ ) निपातोऽयम् ॥ १३९ ॥ 'सृजी ० ' सरतीत्येवं शीलः सृत्वरः सुत्वरी । जित्वरः २ । इण् इत्वरः २ । सर्वत्र 'ह्रस्वस्य तः पित्कृति' इति तोन्तः । नश्वरः २ । 'गत्वरः ' गमेष्वरप् मकारस्य च तकारो निपात्यते ॥ १३९ ॥ Jain Education International १५ For Personal & Private Use Only २५ ३६ www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy