________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुवेः प्राय पराद् द्रवतेर्धिनण् स्यात् । विद्रवतीति विद्रावी प्रद्रावी । 'विपरिपरात्सर्तेः' (५।२।५५) घिनण् स्यात् विसरन्तीत्येवंशीलो विसारी परिसारी । 'समः पृचैप ज्वरेः' (५।२।५६) समः पराभ्यां पृणक्तिज्वरिभ्यां घिनण् स्यात् । सम्पृणक्तीति सम्पर्की । पिन्निर्देशात् आदादिकस्याग्रहणम् ।
सम्पर्चिता। संज्वरतीति संज्वारी । केचिद् ण्यन्तादपीच्छति । संज्वरी । त्वरयतेरपि कश्चित् संत्वरी। ५अकर्मकादित्येव सम्पृणक्ति शाकम् । 'संवेः सृजः' (५।२।५७ ) तथा । संसृजतीत्येवंशीलः संसज्यते वा संसर्गी विसर्गी । 'संपरिव्यनुमाद्वदः' ( ५।२।५८) तथा संवदतीति संवादी परिवादी विवादी अनुवादी प्रवादी। परिपूर्वाण्ण्यन्तादपीति केचित्। 'वेर्विचकत्थस्त्रम्भकषकसलसहना' (५।२।५९) एभ्यः सप्तभ्यो विपूर्वेभ्यो घिनण् । विनतीति विवेकी विकत्थी विनम्मी विकाषी विलासी विघाती। 'व्यपाभेलेषः' (५।२।६०) घिनण् । विलषतीति विलाषी अपलाषी अभिलाषी। १०'संप्रादसात्' (५।२।६१) आभ्यां पराद्वसतेर्पिनण् । संवसतीति संवासी प्रवासी । शवनिर्देशात् वस्तेर्न स्यात् । 'समत्यपाभिव्यभेश्वरः' (५।२।६२) एभ्यः पञ्चभ्यः पराचरेर्घिनण् स्यात् । संचरतीति संचारी इत्यादि । 'समनुव्यवाद्रुधः' (५।२।६३) एभ्यश्चतुर्यः पराद्धो घिनण् स्यात् । संरुद्धे इत्येवंशीलः संरोधी अनुरोधी । 'वेर्दहः' (५।२।६४) विपूर्वाद्दहेनिण स्यात् । विदहतीति विदाही । 'परेर्देविमुहश्च' (५।२।६५) देवीति देवृधातोरण्यन्तस्य ण्यन्तस्य च १५ ग्रहणम् । परिपूर्वाभ्यां देविमुहाभ्यां दहश्च घिनण् स्यात् । परिदेवयते परिदेवयति वा परिदेवी । ण्यन्ता
नेच्छन्त्यन्ये । परिमोही परिदाही। 'क्षिपरटः' (५।२।६६) परिपूर्वाभ्यामाभ्यां घिनण् । परिक्षिष्यति परिक्षिपति वा परिक्षेपी परिक्षेप्यम्भसाम् । परिराटी । इति घिनण्प्रत्ययप्रकरणम् । 'वादेच णकः' (५।२।६७) परिपूर्वाच्छीलादौ सत्यर्थे वर्तमानाद्वादयतेः क्षिपरटिभ्यां च णकः स्यात् । परिवादयतीत्येवंशीलः परिवादकः । वदेरपि केचित् । परिक्षेपकः । परिराटकः । असरूपत्वात् 'णक२० तृचौ' इति णके सिद्धे पुनर्विधानं शीलादिकृत्प्रत्ययेष्वशीलादिकृत्प्रत्ययोऽसरूपत्वविधिना न स्यादिति
ज्ञापनार्थम् , 'तेनालङ्कारकः परिक्षिपः परिरटः इत्यादिशीलाद्यर्थे न भवति । बाहुलकात् कचिद्भवत्यपि । 'क्रामक्रोधौ मनुष्याणां खावितारौ वृकाविव' । अत्र णकविषये तन् । 'निन्दहिंसक्लिशखादविनाशिव्याभाषासूयानेकखरात्' (५।२।६८) एभ्यो णकः स्यात् । निन्दतीत्येवंशीलो निन्दकः हिंसकः । क्लिभाति क्लिश्यते वा क्लेशकः । खादकः । विनाशयति विनाशकः । व्याभासकः । २५असूयः कण्ड्वादौ असूयकः । दरिद्रायकः । चकासकः गणकः चुलुम्पकः । अनेकवरत्वादेव सिद्धे असूयग्रहणं कण्ड्वादिनिवृत्त्यर्थम् । तेन कण्डूयिता मन्तूयिता । तृन्नेव । विनाशिग्रहणं त्वन्यस्य ण्यन्तस्य निवृत्त्यर्थम् । कारयिता । अनेकखरामेच्छन्यन्ये । छिशेरविशेषेण ग्रहणादेवादिकादित्वेष्यनो न स्यात् । 'उपसर्गादेवृदेविक्रुशः' (५।२।६९) उपसर्गात्परेभ्यो णकः स्यात् । आदेवते इत्येवंशीलः आदेवकः परिदेवकः । देवीति दीव्यतेर्देवतेर्वा ण्यन्तस्य ग्रहणम् । आदेवयतीति ३० आदेवकः परिदेवकः आक्रोशकः परिक्रोशकः । उपसर्गादिति किम् ? देवनः देवयिता क्रोष्टा । देवतेय॑न्तादेवेति कश्चित् । इति शीलाद्यर्थप्रकरणम् । एतत्प्रकरणद्वयं च आदिशब्देन सङ्ग्रहीतम् ॥ १३३ ॥ अथ प्रसिद्धप्रयोगान् कांश्चित् शीलाद्यर्थप्रत्ययान् कण्ठतो निर्दिशति । सूत्रम्
वृभिक्षिलुण्टिजल्पिकुट्टाहाकः ॥ १३४ ॥ [सि० ५।२७०] ३५ स्पष्टम् । वराकः । मिक्षाकः ॥ १३४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org