________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रिया
८८१ भागी कल्याणभागी । त्यागी प्राणत्यागी। रागी। 'अकदिनोच रखे' (४।२।५०) इति नलुक् । द्वेषी दोषी द्रोही दोही अभ्याघाती । अकर्मकादित्येव । गोदोग्धा शत्रूनभ्याहन्ता ॥१३२॥ अनोपयोगि सूत्रम्
तेऽनिटश्चजोः कगौ घिति ॥ १३३ ॥ [सि० ४।१।१११] तेऽनिटो धातोश्चजोर्षिति प्रत्यये परे कगौ साताम् । शमी । योगी । भोगी। क्ते इति ५ किम् ? अर्घ्यः ॥ १३३ ॥ ___ 'तेऽनि० क्तेऽनिटो धातोश्चजोपिति प्रत्यये परे कगौ स्यातामित्यर्थः । यथा पाकः । सेकः पाक्यं सेक्यम् । त्यागः रागः । भोग्यं योग्यम् । सम्पर्की संसर्गी क्तेऽनिट इति किम् ? सङ्कोच एवं कूजः खर्जः(यः ?) गर्जः(ज्यः ?) पारिव्राज्यं उदाजः समाजः । नन्वजेः क्तेऽनिड्त्वाद्गत्वं प्राप्नोति । नैवं क्तेनिट् इति विद्यमानस्य विशेषणमजेस्तु वींभावेनासत्त्वाद्गत्वं न भवति । क्त इति १० किम् ? अर्चः अय॑म् याच्यं रोच्यम् । अर्चादयो ह्यकः याज्जारुक्म मिति प्रयोगेष्वनिटोऽपि ते सेट इति कत्वं न भवति । योगी भोगीत्युदाहरणदिक् । अत्रायं विशेषः । 'न्यवद्गगमेघादयः' (४।१।११२) न्यङ्कादयः कृतकत्वा उद्गादयः कृतगत्वा मेघादयः कृतघत्वा निपात्यन्ते । न्यश्चेरुप्रत्यये न्यड्डः । तश्चिवञ्चिशुचीनां रकि तक्रं वक्र शुक्रं । शुक्रः । शुचिरुच्योर्घत्रि शोकः । रोकः। क्ते सेट्त्वान्न प्राप्नोति । धबोऽन्यत्र शोच्यम् । रोच्यम् । श्वपाक: मांसपाकः पिण्डपाकः १५ कपोतपाकः उलूकपाकः । पचेः कर्मणोऽणित्यणि सति अणभावे श्वपच इत्यादि । नीचेपाकः दूरेपाकः फलेपाकः क्षणेपाकः । पर्नीचे पच्यते स्वयमेवेति कर्मकर्त्तचि दीर्घत्वं निपातनात् । 'तत्पुरुषे कृति' (३।२।२०) इति बहुलाधिकारात् सप्तम्या अलुप् । उकारान्ता अपि गणे पठ्यन्ते । नीचेपाकुः ४ अत एव निपातनादुकारः । नीचेपाका दूरेपाका फलेपाका क्षणेपाका इत्याबन्ता अपि । अनुब्रवीतीत्यच अनुवाकः पाठविशेषः । सोमं प्रवक्तीत्यण सोमप्रवाकः । उचेः न्युच्यति २० स समवेतीति लिहायचि न्योको वृक्षः शकुन्तो वा । उब्जेत्रि उद्गः न्युद्गः अभ्युद्गः क्ते सेट्त्वाद्गत्वमुपान्त्यस्य दत्वं निपात्यते । सृजेः कर्तर्यचि विसर्गः । अवसर्गः उपसर्गः । षञ्जेरपि व्यतिषङ्गः। व्यतिषजतीति क्रियाव्यतिहारे व्यतिषजते इति वाच् । 'स्थासेनि०' (२।३।४०) इति षत्वं अनुषङ्गः । मस्जेरुः मद्दुः । अत्र जस्य गत्वे कृते 'तृतीयस्तृतीयचतुर्थे' इति दन्त्यसस्य तृतीयो दः । भ्रस्जेः कुः सलोपश्च भृगुः । युजेः कर्मणोऽणियणि गोयोगः । मिहेरचि संज्ञायां हस्य घत्वं २५ मेघः। अन्यत्र मेहः । वहेरनुपसर्गस्य वस्योकारश्च । वहत्योघ: प्रवाहः। अनुपसर्गस्येति किम् ? प्रवहः निवहः । संज्ञायामित्येव । वहः । दहेयवाभ्यां घधि निदाघः ऋतुविशेषः । अवदाघः केवलपानीयप कोऽपूपः । संज्ञायामित्येव । निदाहः। अर्हतेर्घमि अघों मूल्यं पूजाद्रव्यं च । संज्ञायामित्येव अर्हः । एवमविहितलक्षणानि कत्वगत्वचत्वानि द्रष्टव्यानि । आदिशब्दानुषङ्गात् । 'आङः क्रीडमुषः' (५।२।५१) घिनण् स्यात् । आक्रीडत इत्याक्रीडी। आमुष्णातीत्यामोषी ।३० शीलादिप्रत्ययान्ताः प्रायेण रूढिप्रकारा यथादर्शनं प्रयुज्यन्ते । इत्युपसर्गान्तराधिक्ये न स्यादेवमुत्तरत्रापि । 'प्राच यमयसः' (५।२।५२) प्रादाङश्च पराभ्यामाभ्यां घिनण् स्यात् । प्रयच्छतीत्येवंशीलः प्रयामी आयामी प्रयासी आयासी । 'मथलप:' (५।२।५३) चानुकृष्टं नानुवर्तते । इत्याङ् नानुवर्तते । प्रात्पराभ्यामाभ्यां घिनः स्यात् । प्रमथतीति प्रमाथी प्रलापी । 'वेश्च द्रो' (५।२।५४) ३४
है. प्रका० उत्त० १११
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org