________________
८८० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुइति तदनर्थकं स्यात् । अनस्यैव समावेश इति एके । 'चलशब्दार्थादकर्मकात्' (५।२।४३) चलनार्थाच्छब्दार्थाश्च धातोः शीलादौ सत्यर्थेऽकर्मकादविवक्षितकर्मकाद्वा नः स्यात् । चलतीत्येवंशील: चलनः कम्पनः चोपनः चेष्टनः । शब्दयतीत्येवं शीलः शब्दनः रवणः आक्रोशनः । अकर्मकादिति किम् ? पठिता विद्याम् । 'इडितो व्यञ्जनाद्यन्तात् (५।२।४४) व्यञ्जनमदिरन्तश्च ५यस्य स व्यञ्जनाद्यन्तः । इदनुबन्धात् ङानुबन्धात् च व्यञ्जनाद्यन्ताद्धातोः प्रागुक्तार्थेऽनः स्यात् । इदित, स्पर्द्धि स्पर्धनः । डित् वृतूङ् वर्त्तनः । वृधूङ् वर्द्धनः । णेरतश्च विषय एव लोपे व्यञ्जनान्तत्वादिहापि स्यात् । चितिण चेतनः । गुपि जुगुप्सनः । मानि मीमांसनः । इडित इति किम् ? स्वप्ता । व्यञ्जनाद्यन्तादिति किम् ? एधिता शयिता । अकर्मकादित्येव वसिता वस्त्रम् । सेविता विषयान् । कथमुत्कण्ठावर्द्धनैरिति । नायं कर्मषष्ठीसमासो वृधेरकर्मकत्वात् किन्तु तृतीयासमासः । १० उत्कण्ठया वर्द्धमानैः । वर्द्धमानोत्कण्ठैरिति यावत् । अन्ये त्वकर्मकादेवेति नेच्छन्ति । 'न णिय
सूददीपदीक्षः' (५।२।४५) णिगन्तेभ्यो यान्तेभ्यः सूदादिभ्यश्चोक्तार्थे नो न स्यात् । भावयिता हस्तयिता उत्पुच्छयिता मायिता कूयिता दयिता सूदिता दीपिता दीक्षिता । मधुसूदनारिसूदनबलसूदनादयो नन्द्या(णिड्या?)दिषु द्रष्टव्याः ॥ १२९ ॥ सूत्रम्
द्रमक्रमो यङः ॥ १३०॥ [सि० ५१२४६] १५ यङन्ताभ्यामाभ्यामनः स्यात् । दन्द्रमणः । चक्रमणः ॥१३०॥
'द्रम' स्पष्टम् । कुटिलं द्रमति कामतीयेवं दन्द्रमणः चक्रमणः । सकर्मकार्थं वचनम् , य इति प्रतिषेधनिवृत्त्यर्थं च । 'अत' इति हिलुक्प्रत्यये विषयभूतेऽपि भवति ॥ १३० ॥ सूत्रम्
यजिजपिदंशिवदादूकः ॥ १३१ ॥ [सि० ५।२।४७] यङन्तेभ्य एभ्यश्चतुर्यः ऊकः स्यात् । यायजूकः । जञ्जपूकः। दन्दशूकः । वाव२० दूकः ॥ १३१॥
'यजि.' एभ्यो यजन्तेभ्य ऊकः स्यात् । भृशं पुनः पुनर्वा यजतीत्येवंशीलो यायजूकः । गडं जपति जञ्जपूकः । एवं दन्दशूकः । अन्येभ्योऽपीति केचित् । दन्दशूकः पापयूकः निजागदूक: नानशूकः पंपशूकः ॥ १३१ ॥ सूत्रम्
जागुः ॥ १३२ ॥ [सि० ५।२।४८] २५ तसादुकः स्यात् । जागरुका । 'शमष्टकात् घिन' (५।२।४९) वक्तव्यः । गुंजादिभ्यश्च ॥ १३२॥
'जागुः' यङ् इति निवृत्तम् । जागर्तीत्येवंशीलो जागरुकः । शमष्टकादित्यादि वार्तिकं स्पष्टम् । शमति शाम्यतीत्येवंशीलः शमी । एवं दमी तमी श्रमी भ्रमी क्षमी प्रमादी उन्मादी लमी । घअन्तान्मत्वर्थीयेन सिद्ध्यति । तृन्बाधनार्थं तु वचनम् । अष्टकादिति किम् ? ३० असिता । णकारो वृद्ध्यर्थः । घकारो यथास्थानं गत्वकत्वार्थः। अभिधानाद् घिनण अकर्मकेभ्यस्तेनेह न भवति-अरण्यं भ्रमिता । सकर्मकेभ्यस्तु यथादर्शनं दर्शयिष्यन्ति । युजादिभ्यश्चेति अत्र
सूत्रम् । 'युजभुजभजत्यजरअद्विषदुषद्रुहदुहाभ्याहनः' (५।२।५०) एभ्यो दशभ्यः ३३ रक्तार्थे घिनण् स्यात् । युज्यते युनक्ति वेत्येवंशीलो योगी । भुङ्क्ते भुनक्ति भुजतीति वा भोगी। एवं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org