________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कृदन्तप्रक्रिया
८७९
दिकः कर्मणि रुः । धयति धारुर्वत्सो मातरम् । सिनोति सेरुः । शीयते शत्रुः । सीदति सदुः । एभ्य इति दधातीत्येवंशीलो दधिर्गा: । ट्वेग्रहणाद्दारूपमिह गृह्यते न संज्ञा । 'शी० ' ( ५।२।३७ ) शेते शयालुः । श्रद्धत्ते श्रद्धालुः । निद्राति निद्रायति वा निद्रालुः । तत् द्राति द्रायति वा तन्द्रालुः । निपातनात्तदो दस्य नत्वम् । तन्देति सौत्रौ वा । दयते दयालुः । पतिगृहिस्पृहयोऽदन्ताश्चौरादिका पतिगृहि सौत्राविकारान्तौ वा । पतयति पतयालुः । गृहयति गृहयालुः । स्पृहयति स्पृहयालुः ॥५ मृगयतेरपि कश्चित् । मृगयालुः लज्जालुः ईर्ष्यालुः शलालुप्रभृतयस्त्वौणादिकाः । कृपालुहृदयालू मत्वर्थीयान्तौ ॥ १२८ ॥
ङौ सासहिवावहिचाचलिपापति ॥ १२९ ॥ [ सि० ५२२३८ ] सखिचक्रिदधिजज्ञिनेमि ॥ १२९ ॥ [ सि० ५/२/३९]
एते ङयन्ता निपाताः । ‘शृकमगमहनवृषभूस्थ उकणं' (५|२|४० ) 'लषपतपद १' १० (५/२/४१ ) तथा । शारुकः कामुकः । अभिलाषुकः ॥ १२९ ॥
'ङो० ' शीलादौ सत्यर्थे वर्त्तमानानां सहिवहिचलिपतीनां यङन्तानां ङौ सति यथासङ्ख्यमेते निपात्यन्ते । अत एव वचनात् ङिरपि । सासह्यते इत्येवंशीलः सासहिः वावद्यते वावहिः । चाचल्यते चाचलिः । पनीपत्यते पापतिः । निपातनान्नागमाभावः । ङाविति ङकारस्तु वृन्नुदन्ताव्ययेत्यत्र विशेषणार्थः । 'सस्रि०' ( ५|२| ३९ ) एते इत्यादि । एते शीलादौ सत्यर्थे कृतद्विर्वचना डिप्रत्य- १५ यान्ता निपात्यन्ते । सरतीत्येवंशीलः सत्रिः । करोति चक्रिः । जायते जानाति वा जज्ञिः । नमति नेमिः । द्विर्वचनमेत्वं च निपातनात् । ० (५।२।४० ) शीलादौ सत्यर्थे वर्त्तमानेभ्य एभ्य उकण् स्यात् । शृणातीत्येवंशीलः शारुकः प्रशारुकः शरः । कामुकः कामुकी रिरंसुः । ' भाजगोण ० ' इत्यादिना ङीः । कामुका या इच्छां विना कामयते । कामुका अन्यस्य स्त्रियो भवन्ति । 'अकमेरुकस्य' (२|२| (९३ ) इत्यत्र कमिवर्जनात् न षष्ठीनिषेधः । गामुकः आगामुकः स्वगृहम् । घातुकः आघातुको २० व्याधः । वर्षुकः प्रवर्षुकः पर्जन्यः । भावुकः प्रभावुकः क्षत्रियः । स्थायुकः प्रमत्तः । उपस्थायुको गुरुम् । गुणानधिष्ठायुकः। 'लषपतपद : ' (५।२।४१) तथेति उकण् स्यादित्यर्थः । अपलपतीत्येवंशीलः अपलाषुकं नीचसाङ्गत्यम् । अभिलाषुकः । उत्पातुकं ज्योतिः । प्रपातुका गर्भाः । उपपादुका देवाः । आदिशब्दानुवृत्त्या "भूषाको धार्थजुसृगृधिज्वलशुचश्चानः' ( ५|२|४२ ) भूषार्थेभ्यः क्रोधार्थेभ्यो जुप्रभृतिभ्यः पञ्चभ्यः लषपतपदिभ्यश्च शीलाद्यर्थेऽनः स्यात् । भूषार्थ : भूषयतीत्येवंशीलो २५ भूषणः कुलस्य । एवं मण्डनः प्रसाधनः । क्रोधार्थ, क्रोधनः कोपनः रोषणः । जवतिः सौत्रो वेगाख्ये संस्कारे वर्त्तते, तेन चल्यर्थद्वारेण न सिद्ध्यतीति पृथगिहोपादानम् जवनः । सरणः । गृधू गर्द्धनः । एवं ज्वलनः शोचनः अभिलषणः पतनः । पदेरिदित्वादुत्तरेणैव सिद्धे सकर्मकार्थं वचनम् । अर्थस्य पदनः । ग्रन्थस्य पदनः । उत्तरत्र सकर्मकेभ्योऽपि विधिरिति एकेषां दर्शनम् । तथा चोकणा बाधितोप्यरूपत्वात्पदेरनो भविष्यतीति चेदेवं तर्हि शीलादिप्रत्ययेष्वसरूपविधिर्नास्तीति ज्ञापनार्थं पदिय - ३० हणम् । तेन चिकीर्षिता कटम् | अलंकती कन्यार्थमिति न भवति । कथं तर्हि गन्ता खेल: । आगामुकः । भविता भावुकः । जागरिता जागरुकः । विकत्थनः । विकत्थी | भासनं भासुरं । वर्द्धनः वर्द्धिष्णुः । अपलाषुकः अपलापी । कम्पना कम्प्रा शाखा । कमना कामुका युवतिः । क्वचित् समावेशोऽपि भवति । एतदर्थमेव च 'न णिडया - ' ( ५।२।४५ ) इत्यादि सूत्रे दीपिग्रहणम् । अन्यथारेणानोऽस्य बाध्यते ३४
।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org