________________
૮૭૮ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
भ्राज्यलंकृग्रनिराकृग्भूसहिरुचिवृतिवृधिचरिप्रजनापत्रप इष्णुः ॥ १२६ ॥ [सि० ५।२।२८ ] एभ्य एकादशभ्य इष्णुः स्यात् । भ्राजते इत्येवंशीलो भ्राजिष्णुः । अलंकरिष्णुः । निराकरिष्णुः । भविष्णुः । सहिष्णुः । रोचिष्णुः । वर्तिष्णुः । वर्धिष्णुः । चरिष्णुः। प्रजनिष्णुः । ५अपत्रपिष्णुः ॥ १२६॥
'भ्राज्य' भ्राजिष्णुरिति । भ्राजनशीलो भ्राजनधर्मा साधु भ्राजते वा भ्राजिष्णुः । एवं सर्वत्र अलंपूर्वः कृग् । अलंकरिष्णुः । निर् आङ् पूर्वः कृग् निराकरिष्णुः । प्रपूर्वो जनिः प्रजनिष्णुः । अपपूर्वः त्रपिः अपत्रपिष्णुः । भ्राजेर्नेच्छन्त्येके ॥ १२६ ॥
उदः पचिपतिपदिमदेः ॥ १२७ ॥ [सि० ५।२।२९ ] १० उत्पूर्वेभ्य एभ्य इष्णुः स्यात् । उत्पचिष्णुः । 'भूजेः ष्णुक्' (५।२।३०) भूष्णुः जिष्णुः । 'स्थाग्लाम्लापचिपरिमृजिक्षेः स्वः' (५।२।३१) स्थास्नुः । ग्लास्नुः म्लास्नुः । पक्ष्णुः । परिमाणुः । क्षेष्णुः । 'सिगृधिधृषिक्षिपः नुः' (५।२।३२) त्रस्नु गृनुः धृष्णुः क्षिप्नुः ॥ १२७॥
'उद०' स्पष्टम् । उत्पचिष्णुरिति । एवमुत्पतिष्णुः उत्पदिष्णुः उन्मदिष्णुः । 'भूजे:०' (५।२। १५३०) सुगमम् । प्रत्ययस्य कित्त्वाद्गुणाभावः। 'स्थाग्ला.' (५।२।३१) पक्ष्णुरिति । 'चजः कगम्' इति चस्य कत्वे 'नाम्यन्तस्था०' (२।३।१५) इति सस्य षत्वे कषयोगे क्षः । परिमाणुरिति प्रत्ययस्य कित्त्वाभावाद्गुणे 'मृजोऽस्य वृद्धिः' (४।३।४२) इत्यकारस्यात्वे 'यजसृजेति षत्वे 'षढोः कस्सि' (२।१।६२) इति कत्वे 'नाम्यन्तस्थेति प्रत्ययसकारस्य षत्वे कषयागे क्षः । 'धूगौदितः' (४।४।३८) इतीविकल्पे परिमार्जिष्णुरित्यपि । म्लादिभ्य केचिदेवेच्छन्ति । 'त्रसि.' २०(५।२।३२) स्पष्टम् । प्रत्ययस्य कित्त्वाद्गुणाभावः । गृचरित्यादि ॥ १२७ ।।
___ सन्भिक्षाशंसेरुः ॥ १२८ ॥ [सि० ५।२॥३३ ] सनन्ताद्भिक्षाशंसिभ्यां च उः स्यात् । लिप्सुः भिक्षुः आशंसुः । 'शृवन्देरारुः' (५।२।३५) विशरारुः । वन्दारुः । 'शीश्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृहेरालु' (५।२।३७)
शयालुः । आमन्ताल्वाय्येत्ययादेशे, पतयालुः स्पृहयालुः ॥ १२८ ॥ २५ 'सन्' लिप्सुरिति । एवं चिकीर्षुः जिहीर्षुः । आशंसिति 'आङः शासूङ् इच्छायाम्' इत्यस्य ग्रहणं न तु 'शंसू स्तुतौ च' इत्यस्य । तत्रायोगस्यानित्यत्वात् । आशंसुः स्तुत्यर्थस्यापीच्छत्यन्यः । 'विन्द्विच्छू' (५।२।३४ ) शीलादौ सत्यर्थे वेत्तेरिच्छतेश्च उः प्रत्ययो यथासङ्ख्यं नोपान्त्यछकारोऽन्तादेशौ च निपात्येते । वेदनशीलो विन्दुः । एषणशीलो इच्छुः । कथमपां बिन्दुः ? 'बिदु अवयवे' इत्यस्मात्
औणादिक उः । अन्ये त्वस्यैव निपातनम् , क्रियानिमित्तस्तु बि(वि?)न्दुरित्यनागमिक एवेत्याहुः। सर्व३० विदीनां सर्वेषीणां च निपातनमिदमित्यन्यः। 'शृ०' (५।२।३५) शृणातीत्येवंशीलः शरारुः । विशीर्यते
इति विशरारुः । वन्दते वन्दारुः । 'दाधेसिशदसदो सा' (५।२।३६) देति दारूपाधातवः । ३२ ददाति दयते यच्छति यति दाति दायति वेत्येवंशीलो दारुः । कथं द्यति तदिति दारु काष्ठमिति औणा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org