________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाश कृदन्तप्रक्रिया
८७७
I
वैदुषः वैदतः । विद्वद्भक्तिः । विद्वानास्ते । विदन्नास्ते । विद्वल्लभते विदल्लभते । द्वितीयाद्यन्तपदसामानाधिकरण्यादिषु पूर्ववदनन्वयादेव न वर्त्तमाना । ककारः कित्कार्याद्यर्थः । उकारो ङयाद्यर्थः । आदिशब्दानुवृत्तेः 'पूयजः शानः' (५/२/२३) सत्यर्थे वर्त्तमानाभ्यामाभ्यां कर्त्तरि शानः स्यात् । पवते पवमानः मलयं पवमानः । यजति यजते वा यजमानः । आनशा न षष्ठीसमासो न च यजेरफलवति कर्त्तरि सोऽस्तीति वचनम् । एवमुत्तरत्रापि । शकारः शित्कार्यार्थः ॥ १२२|| सूत्रम् ५ वयःशक्तिशीले ॥ १२३ ॥ [ सि० ५।२।२४]
गम्येषु सत्यर्थे वर्त्तमानाद्धातोः शानः स्यात् । वयः, कतीह शिखण्डं वहमानाः । शक्तिः, कतीह स्त्रियं गच्छमानाः । शीलम्, कतीह परान् निन्दमानाः ॥ १२३ ॥
'वयः ० ' सत्यर्थे वर्त्तमानाद्धातोरेषु गम्येषु शानः स्यात् । क्रमेणोदाहरणानि - तत्र कालकृता प्राणिनां बाल्यावस्था वयः; कतीह शिखण्डं वहमानाः । शक्तिः सामर्थ्यम्; कतीह हस्तिनं १० निघ्नानाः । शीलं स्वभावः; कतीहात्मानं वर्णयमानाः परान्निन्दमानाः । अभिधानान्नवासरूपः शतृः ॥ १२३ ॥ सूत्रम् ।
धारीङोऽकृच्छ्रेऽतृश् ॥ १२४ ॥ [ सि० ५।२।२५ ]
सुखसाध्येऽर्थे वर्त्तमानयोरनयोरतृशू स्यात् । धारयन्नाचारागमम् । अधीयंस्तत्त्वार्थम्
॥ १२४ ॥
१५
'धारीङो ० ' अनयोरिति । अकृच्छ्रे सत्यर्थे वर्त्तमानाद्धारेरिङश्च परोऽतृशू स्यात् । अकृच्छ्रे इति किम् ? कृच्छ्रेणाधीते पूर्वगतम् । ईङ् आनशि प्राप्ते धारेरुभयप्राप्तौ वचनम् | आदिशब्दात् 'सुग् द्विषार्हः सत्रिशत्रुस्तुत्ये' ( ५।२।२६ ) सत्यर्थे वर्त्तमानात्सुनोतेर्द्विषोऽर्हश्च यथासङ्ख्यं सत्र शत्रौ स्तुत्ये च कर्त्तर्यदृश् स्यात् । सत्री यजमानः । सर्वे सुन्वन्तः यज्ञस्वामिन इत्यर्थः । चौरं चौरस्य वा द्विषन् शत्रुरित्यर्थः । पूजामर्हन् प्रशस्य इत्यर्थः । एष्विति किम् ? सुरां सुनोति, भार्यां २० द्वेष्टि परं पश्यन्तीम्, वधमर्हति चौरः ॥ १२४ ॥ सूत्रम्
I
तृन् शीलधर्मसाधुषु ॥ १२५ ॥ [ सि० ५।२।२७ ]
शीलादिषु सदर्थाद्धातोस्तृन् स्यात् । कर्ता कटं । शीलादिसदर्थोऽधिकारसमाप्तिं यावदनुवर्त्तते ।। १२५ ।।
'तृन् ० ' शीलादिष्विति शीले धर्मे साधौ च सत्यर्थे वर्त्तमानाद्धातोस्तृन् स्यात् । कर्त्ता कटं । एवं २५ वदिता जनापवादान् । 'तृन्नुदन्ते 'ति षष्ठीनिषेधात्कर्मणि द्वितीया । करणं वदनं चास्य शीलमित्यर्थः । धर्मः कुलाद्याचारः । वधुमूढां मण्डयितारः श्राविष्ठायनाः । श्रविष्ठाया अपत्यानि वृद्धानि 'अश्वादेरायनञ्' ( ६।१।४९ ) । श्राद्धे सिद्धमन्नमपहर्त्तार आहरकाः । मुण्डनादि तेषां कुलधर्म इत्यर्थः । साधौ, गन्ता खेलः । कर्त्ता विकटः । साधु गच्छति साधु करोति इत्यर्थः । नप्तृनेष्टृत्वष्टृक्षगृहोतृपोतृप्रशास्तृशब्दा औणादिकाः पितृमात्रादिवत् । अत एवैषामार्विधौ पृथगुपादानम् । शीलादिष्विति किम् ? ३० कर्त्ता कटस्य । बहुवचनं 'सन भिक्षाशंसेरुः' इत्यादौ यथासङ्ख्यपरिहारार्थम् । नकारः सामान्यग्रहणाविघातार्थस्तेन 'निरनुबन्धग्रहणे न सानुबन्धस्य' इति न्यायो नोपतिष्ठते । निरनुबन्धग्रहणे सामान्येन ग्रहणं इति चोपतिष्ठते । ततश्च वृ इत्युक्ते तृच् तृनादीनां सर्वेषां सामान्येन ग्रहणं स्यात् ॥ १२५ ॥ सूत्रम् ३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org