________________
८७६
महामहोपाध्यायत्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
अतो म आने ॥ १२० ॥ [सि० ४।४।११४] धातोर्विहिते आनेऽतो मोऽन्तः स्यात् । पचमानः शयिष्यमाणः । 'आसीन:' (१।४।११५) निपातोऽयम् ॥ १२०॥
'अतो.' पचमान इति । आम इति निरनुबन्धग्रहणात् शानेपि कवचमुहमानः । अत इति ५किम् ? भुजानः । आन इति किम् ? पचन् । पूर्वान्तकरणं (मोऽन्तकरणं ?) 'मव्यस्याः' इत्याकारनिवृत्त्यर्थम् । सूत्रम् 'आसीन:' (४।४।११५) आस्तेः परस्य नस्यादेरीकारो निपात्यते । आसीन इति । एवं उदासीनः ॥ १२० ॥ स्त्रीक्लिवयोः कार्यविशेषमाह । सूत्रम् ।
अवर्णान्तादश्नोऽन्तो वाऽतुरीड्योः ॥ १२१ ॥ [सि० २।१।११५]
नावर्जादवर्णात्परस्य अतुरीडयोः परयोरन्त वा स्यात् । तुदती तुदन्ती । भाती भान्ती । १०'श्यशवश्च (५।२।१६) नित्यम् । दीव्यन्ती पचन्ती ॥ १२१ ।।
'अव.' अतुरिति । शतृ अतृच् अत इत्येषां ग्रहणम् । ईड्योरित्यत्र नपुंसकलिङ्गे औरीः' इति विहित ई:, डी स्त्रीप्रत्ययः । तथा चोदाहृतिः । तुदती तुदन्ती कुले स्त्री वा । अवर्णादित्युक्तत्वादाकारादपि भान्ती भाती कुले स्त्री वा । एवं करिष्यन्ती करिष्यती। कुले स्त्री वा। अवर्णादिति किम् ? अन्येभ्यः अतुरन्तस्यापि न स्यात् अदती । एवं सुन्वती तन्वती कुले स्त्री वा एषु शसः । १५अधीयती कुले स्त्री वा अत्रादृश । जरती कुले स्त्री वा अत्रातः। (अश्न इति किम् ? क्रीणती स्त्री लुनती स्त्री कुले बा) ईडयोरिति किम् ? तुदता कुलेन । अवर्णादिति विशेषणादन इति प्रतिषेधाच लोपदीर्घाभ्यां पूर्वमेवानेनान्त् । भूतपूर्वतया वा पश्चात् । ददती कुले स्त्री वा इत्यत्र तु कृतेप्यन्तादेशे 'अन्तो नो लुक्' इति नलोपः । अत्र विशेषसूत्रम् 'श्यशवः' (२।१।११६) अस्यायमर्थः । श्यात्
शवश्च परस्यातुरीयो परतः अन्त् इत्यादेशो नित्यं स्यात् । दीव्यन्ती पचन्ती इति । एवं चोरयन्ती २०धारयन्ती शास्त्रम् स्त्री कुले वा । इयशव इति किम् ? जरती कुले स्त्री वा । ईब्योरित्येव । दीव्यता सीव्यता भवता ॥ १२१ ॥ अत्र विशेषसूत्रम्
____तो माङयाक्रोशेषु ॥ १२२ ॥ [सि० ५।२।२१ ] माङयुपपदे आक्रोशे गम्ये तो शत्रानशौ साताम् । मा पचन् जाल्मो ज्ञास्यति । मा पचमानः । 'वा वेत्तेः कसुः' (५।२।२२) वर्तमाने तत्त्वं विद्वान् विदन् ॥ १२२ ॥ २५ 'तो मा०' बहुवचनादसत्यपि । ये केचित् सत्यसति वा आक्रोशास्तेषु शत्रानशौ भवत इति
भावः। मापचमानोऽसौ मर्तुकामः। 'माजीवन् यः परावज्ञादुःखदग्धोपि जीवति' । शत्रानशोरनुवृत्तावपि तौग्रहणमवधारणार्थम् ; तेनात्र विषये असरूपविधिनाप्यद्यतनी न भवति । भवतीत्यपि कश्चित् ।
सूत्रम् 'वा वेत्तेः कसुः' वर्तमाने इति सत्यर्थे वर्तमानाद्वेत्तेः कसुर्वा स्यात् । पक्षे यथाप्राप्तम् । २९ विद्वान् साधुः । तत्त्वं विद्वान् विदन वेत्ति । विदुषा कृतम् । विदता कृतम् । हे विद्वन् हे विदन् ।
१ ननु तुदन्ती भान्ती इत्यादौ ईड्योरनपेक्षत्वेन वर्णमात्राश्रयत्वेन चान्तरङ्गलात् 'लुगस्यादेत्यपदे' इति 'समानानां' इति च अकारलोपदीर्घलयोः कृतयोरवर्णात्परलं शतृप्रत्ययस्य नास्ति; तत्कथमकारावर्णशतृप्रत्ययीभावापेक्षत्वेन बहिरङ्गोऽन्त इत्यादेशः इत्याह-अवर्णादिति । २ 'वार्णात्प्राकृतम् बलीय' इति तु नेहोपतिष्ठते भिन्नकालत्वात् , तथाहि-ईड्योः सद्भावेऽन्तादेशः प्रानोति, लोपदीयों तु ततः प्रागेव । यत्र हि वार्णप्राकृतयोर्युगपत्प्राप्तिः कारक इत्यादौ तत्रेदमुपतिष्ठते इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org